धृतराष्ट्रः-
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
यत्रातिरथिरायत्तो नातरत्पाण्डवं रणे
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे
न च कर्णसमं योधं लोके पश्यामि कञ्चन
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा
वसुषेणसहायं मां नालं देवाश्च बाधितुम्
किमु पाण्डुसुता राजन्गतसत्वा विचेतसः
तं तत्र निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम्
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत्
अहो दुर्मुखमेवैकं युद्धानामविशारदम्
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः
न शक्तास्समरे स्थातुं नूनं भीमस्य सञ्जय
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्
जानन्तो व्यवसायं च क्रूरं मारुतरंहसः
किमर्थं क्रूरकर्माणं कालसुर्यान्तकोपमम्
बलसंरम्भवीर्यज्ञाः पाण्डवं समकोपयन्
कर्णस्त्वेको महाबाहुस्स्वबाहुबलदमाश्रितः
भीमसेनमनादृत्य युयुधे शत्रुकर्शनः
योऽजयत्समरे कर्णं पुरन्दर इवासुरम्
न स पाण्डुसुतो जेतुं शक्यस्सङ्ख्ये कथञ्चन
योऽजयत्समरे कर्णं वज्रहस्त इवाचलम्
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम्
भीमो धनञ्जयान्वेषी कस्तमृच्छेज्जिजीविषुः
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः
उद्धृताशनिहस्तस्य महेन्द्रस्येव दानवः
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः
न भीमसेनं सम्प्राप्य निवर्तेत कथञ्चन
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः
ये भीमसेनं सङ्क्रुद्धमभ्यधावन्विमोहिताः
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा
तत्सत्यमिति सञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम्
दुश्शासनस्सह भ्रात्रा भयाद्भीममवर्जयत्
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः
कर्णो दुश्शासनोऽहं च जेष्यामो युधि पाण्डवान्
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्
प्रत्याख्यानाच्च कृष्णस्य भृशं सञ्जय तप्स्यति
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान्
आत्मापराधात्सम्मूढो नूनं तप्स्यति पुत्रकः
को हि जीवितमन्विच्छन्प्रतीपं मृत्युमाव्रजेत्
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्
बडबामुखमध्यस्थो मुच्येतापि हि मानवः
न भीममुखमासाद्य मुच्येतेति मतिर्मम
न पार्था न च पञ्चाला न च केशवसात्यकी
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम्
सञ्जयः-
यत्त्वं शोचसि कौरव्य वर्तमाने महाहवे
त्वमस्य जगतो मूलं विनाशस्य न संशयः
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः
उच्यमानो न गृह्णीषे मर्तुकामो यथौषधम्
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम
त्वं तु कुत्सयसे योधान्घटमानान्यथाबलम्
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्
नामृष्यन्त महेष्वासास्सोदर्याः पञ्च भारत
दुर्मर्षणो दुर्मदश्च दुष्षहो विजयो जयः
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन्
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्
दिशश्शरैस्समावृण्वञ्शलभानामिव व्रजैः
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः
प्रतिजग्राह समरे भीमसेनो हसन्निव
तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान्
अभ्यधावत राधेयो भीमसेनं यथाबलम्
विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खाञ्ञ्छिलाशितान्
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणस्सुतैस्तव
कुमारास्तु ततः कर्णं परिवार्य समन्ततः
अवाकिरन्भीमसेनं शरैस्सन्नतपर्वभिः
तान्पञ्चत्रिंशता राजन्बाणैस्साश्वान्नरर्षभान्
ससूतान्भीमधन्वा तु भीमो निन्ये यमक्षयम्
ते स्यन्दनेभ्यः प्रापतन्सार्धं सूतैर्गतासवः
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
संवार्यातिरथिं बाणैर्यज्जघान तवात्मजान्
स वार्यमाणो भीमेन शितैर्बाणैस्समन्ततः
सूतपुत्रो महाराज भीमसेनमवैक्षत
तं भीससेनस्संरभ्धः क्रोधात्संरक्तलोचनः
विष्फारयन्महच्चापं मुहुः कर्णमवैक्षत
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्
क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत्स जीविते
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा
भीमवेगं ततः कृत्वा स्वमारोहद्रथं शुभम्
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैश्शिलीमुखैः
अपहारं तु तं पार्थो नामृष्यत वृकोदरः
ततो विव्याध राधेयं शरेणानतपर्वणा
ततस्स विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः
इषुभिश्छादयामास भीमसेनं समन्ततः
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्
प्रजहास महाहासं कृतप्रतिकृतं महत्
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
तत्पपात महाराज स्वर्णपृष्ठं महद्धनुः
अवारोहद्रथात्तस्मादथ कर्णो महारथः
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत्
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः
ततो बाणसहस्राणि प्रेषयामास पाण्डवः
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी
तानिषूनिषुभिः कर्णो वारयित्वा महाहवे
कवचं भीमसेनस्य पातयामास सायकैः
अथैनं पञ्चविंशत्या सायकानां समार्पयत्
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत्
ततो भीमो महाबाहुर्नवतिं नतपर्वणाम्
प्रेषयामास सङ्क्रुद्धस्सूतपुत्रस्य मारिष
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्
अभ्ययुर्धरणीं राजन् वल्मीकमिव पन्नगाः
दुर्योधनः-
राधेयं समरे दृष्ट्वा पदातिं समवस्थितम्
भीमसेनेन संसक्तं भ्रातॄन्दुर्योधनोऽब्रवीत्
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति
सञ्जयः-
ततस्तव सुता राजञ्श्रुत्वा भ्रातृवचो द्रुतम्
अभ्ययुः पाण्डवं युद्धे विसृजन्तश्शराञ्शितान्
चित्रो विचित्रश्चित्राक्षश्चारुचित्रश्शरासनः
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः
आगच्छतस्तान्सहसा भीमो राजन्महामनाः
साश्वसूतध्वजान्यत्तान्पातयामास पाण्डवः
ते हता न्यपतन्भूमौ वायुनुन्ना इव द्रुमाः
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्
अश्रुपूर्णमुखः कर्णः कश्मलं प्रत्यपद्यत
सोऽन्यं रथं समास्थाय विधिवत्कल्पितं पुनः
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी
तावन्योन्यं शरैर्विध्वा स्वर्णपुङ्खैश्शिलाशितैः
व्यभ्राजेतां महाराज पुष्पितविव किंशुकौ
ततष्षट्त्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः
व्यधमत्कवचं क्रुद्धस्सूतपुत्रस्य पाण्डवः
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ
विवृताङ्गौ व्यराजेतां निर्मुक्ताविव पन्नगौ
क्रोधाग्नितेजसा दीप्तौ संरम्भाद्रक्तलोचनौ
स चापघोषस्तनितश्शरधारामहाम्बुदः
व्यभ्राजेतां महाराज विधूमाविव पावकौ
भीममेघं महाराज कर्णमेघोऽभ्ययाद्युधि
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्
शरदंष्ट्रौ विधून्वानौ ततक्षतुररिन्दमौ
वारणाविव चासक्तौ रङ्गमध्ये विचेरतुः
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविकमौ
प्रच्छादयन्तौ समरे शरजालैस्समन्ततः
रथाभ्यां नादयन्तौ च दिशस्सर्वा विचेरतुः
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः
व्यरोचत रणे भीमस्सविद्युदिव तोयदः
ततश्शरसहस्रेण सुप्रयुक्तेन भारत
भीममाच्छादयत्तूर्णं यथाऽद्रिं तोयदोऽम्बुना
तत्र प्रैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम्
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयञ्शरैः
स नन्दयन्रणे पार्थं केशवं च यशस्विनम्
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत्
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः
पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन्