धृतराष्ट्रः-
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम्
यत्कर्णं योधयामास समरे लघुविक्रमः
त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि
वारयेद्यो रणे कर्णस्सदेवासुरमानवान्
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय
कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे
अत्र मन्ये समायत्तो जयो वाऽजय एव च
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान्
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा
भीमसेनेन समरे मोहो मां सूत आविशत्
नष्टानेव कुरून्मन्ये मम पुत्रस्य दुर्नयैः
न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैस्सह
सर्वत्र पाण्डवाः कर्णमजयंस्ते रणाजिरे
अजेयाः पाण्डवास्सूत देवैरपि सवासवैः
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम
धनं धनेश्वरस्येव मन्दः पार्थस्य मे सुतः
मधुलिप्सुरिवाबुद्धिः प्रपातं नावबुध्यते
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम्
जितमित्येव मन्वानः पाण्डवानवमन्यते
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना
धर्मे स्थिता महाभागा निकृताः पाण्डुनन्दनाः
शमकामस्सदा पार्थो धर्मान्वेषी युधिष्ठिरः
अशक्त इति मन्वानैः पुत्रैर्मे स निराकृतः
तानि दुःखान्यनेकानि विप्रकारांश्च पाण्डवः
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम्
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे
अयुध्येतां युधां श्रेष्ठौ परस्परवधैषिणौ
सञ्जयः-
शृणु राजन्यथावृत्तं सङ्ग्रामं भीमकर्णयोः
परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिन्दमम्
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः
महावेगैः प्रसन्नाग्रैश्शातकुम्भमयैर्दृढैः
नातरद्भरतश्रेष्ठ भीमं वैकर्तनश्शरैः
तस्यास्यतो धनुर्भीमश्चकर्त विशिखैस्त्रिभिः
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो रणे
शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत्
प्रतिगृह्य महाशक्तिं कालरात्रिमिवापराम्
समुत्क्षिप्य च राधेयस्संलक्ष्य च महाबलम्
चिक्षेप भीमसेनस्य प्राणानिव विचिन्वतीम्
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम्
ननाद बलवान्नादं नादेनानादयज्जगत्
तस्य नादं भृशं श्रुत्वा पुत्रास्ते हर्षिताभवन्
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम्
शक्तिं वियति चिच्छेद भीमस्सप्तभिराशुगैः
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम्
मार्गमाणामिव प्राणान्सूतपुत्रस्य पाण्डवः
प्राहिणोन्नवसंरब्धश्शरान्बर्हिणवाससः
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्रणे
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरानमम्
विकृष्य च महातेजा व्यसृजत्सायकान्नव
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः
वसुषेणविनिर्मुक्तान्नव राजन्महाशरान्
सुवर्णविकृतैर्बाणैस्सुवर्णविकृताञ्शरान्
छित्त्वा भीमो महाराज नादं सिंह इवानदत्
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे
शार्दूलाविव चान्योन्यमभीक्ष्णं सञ्जगर्जतुः
अन्योन्यं प्रजिगीषन्तावन्योन्यस्यान्तरैषिणौ
अन्योन्यमन्ववेक्षेतां गोष्ठे गोवृषभाविव
महागजाविवासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम्
अन्योन्यमभिसंरब्धौ क्रोधादुद्वृतलोचनौ
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम्
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष
शङ्खवर्णांश्च तानश्वाञ्शरैर्निन्ये यमक्षयम्
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः
वेपमान इव क्रोधादादिदेश च दुर्जयम्
दुर्योधनः-
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्
सञ्जयः-
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजम्
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरान्
स भीमं नवभिर्बाणैरश्वानष्टभिरार्पयत्
षड्भिस्सूतं त्रिभिः केतुं पुनर्भीमं च पञ्चभिः
भीमसेनोऽपि सङ्क्रुद्धस्साश्वयन्तारमाशुगैः
दुर्जयं भिन्नमर्माणमनयद्यमसादनम्
बाढं हतं क्षितौ क्षुण्णं वेष्टमानमिवोरगम्
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम्
स तु तं विरथीकृत्य स्मरन्नत्यन्तवैरिणम्
समाचिनोद्बाणगणैश्शतघ्नीमिव शङ्कुभिः
तथा तु विरथः क्षुण्णश्छाद्यमानश्च सायकैः
न जहौ समरे भीमं क्रुद्धरूपं परन्तप
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः
रथमन्यं समास्थाय क्रुद्धो विव्याध पाण्डवम्
महागजाविवासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
अथ कर्णश्शरव्रातैर्भीमं बलवदर्पयत्
ननाद च महानादं पुनर्विव्याध चोरसि
भीमोऽपि दशभिस्तीक्ष्णैः प्रत्यविध्यदजिह्मगैः
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम्
कर्णस्तु नवभिर्भीमं विध्वा राजंस्तनान्तरे
ध्वजमेकेन विव्याध विशोकं च त्रिभिश्शरैः
प्रतिविव्याध तं पार्थस्त्रिषष्ट्या निशितैश्शरैः
तोत्रैरिव महानागं कशाभिरिव वाजिनम्
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना
सृक्विणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः
ततश्शरं महाराज सर्वकायावदारणम्
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम्
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः
ततश्शैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्
प्राहिणोत्सूतपुत्राय षडश्रामविचारयन्
तया जघानातिरथेस्सदश्वान्साधुवाहिनः
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान्
धनुर्गृहीत्वा स पुनः क्षुराभ्यां भरतर्षभ
ध्वजमातिरथेश्छित्त्वा सूतमप्यवधीच्छरैः
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम्
विष्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम्
विरथं रथिनां श्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे
दुर्योधनस्तदा राजन्नभ्यभाषत दुर्मुखम्
दुर्योधनः-
एष दुर्मुख राधेयो भीमेन विरथीकृतः
तं रथेन नरश्रेष्ठ सम्पादय महारथम्
सञ्जयः-
ततो दुर्योधनवचश्श्रुत्वा भारत दुर्मुखः
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम्
भीमसेनः प्रहृष्टोऽभूत्सृक्विणी चापि लेलिहन्
ततः कर्णं महाराज वारयित्वा शिलीमुखैः
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः
सुमुखैर्दुर्मुखं भीमश्शरैर्निन्ये यमक्षयम्
ततस्तमेवाधिरथिस्स्यन्दनं दुर्मुखे हते
आस्थितः प्रययौ राजन्दीप्यमान इवानलः
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्
उष्णमार्तं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत
तस्मिंस्तु विवरे राजन्नाराचान्गृध्रवाससः
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश
ते तस्य कवचं भित्त्वा महोरसक्स्य चाप्युरः
हेमपुङ्खा व्यराजन्त द्योतयन्तो दिशो दश
तेऽपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः
क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः
ते मतधिनीं प्रसर्पन्तश्शोभन्ते रुधिरोक्षिताः
अर्धप्रविष्टास्संरब्धा बिलानीव महोरगाः
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषणैः
चतुर्दशभिरायत्तो नाराचैरविचारयन्
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः
विदार्य प्राविशन्भूमिं क्रौञ्चं पत्ररथा इव
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम्
अस्तं गच्छन्तमादित्यं प्राविश्न्त इवांशवः
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः
सुस्राव रुधिरं भूरि पर्वतस्सलिलं यथा
स भीमस्त्रिभिरायत्तस्सूतपुत्रं पतत्रिभिः
सुपर्णपुङ्खैर्विव्याध सारथिं चास्य सप्तभिः
स विह्वलो महाराज कर्णो भीमशराहतः
प्राद्रवज्जवनैरश्वै रणं हित्वा महारथः
भीमसेनस्तु विष्फार्य चापं रुक्माङ्गदं दृढम्
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः