धृतराष्ट्रः-
यस्मिञ्जयाशा सततं पुत्राणां मम सञ्जय
तं दृष्ट्वा विमुखं यान्तं किं नु दुर्योधनोऽब्रवीत्
कर्णो पि समरे तात किमकार्षीदतः परम्
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्
सञ्जयः-
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः
क्रुद्धमातिरथिं दृष्ट्वा पुत्रास्तव विशां पते
भीमसेनममन्यन्त वैश्वानरमुखे हुतम्
चापशब्दं महत्कृत्वा तलशब्दं च भैरवम्
अभ्यवर्तत राधेयो भीमसेनरथं प्रति
पुनरेव तयो राजन्महानासीत्सुदारुणः
विमर्दस्सूतपुत्रस्य भीमस्य च विशां पते
सुसंरब्धौ महाबाहू परस्परवधैषिणौ
अन्योन्यमीक्षाञ्चक्राते दहन्ताविव लोचनैः
क्रोधरक्तेक्षणौ क्रुद्धौ निश्श्वसन्ताविवोरगौ
युद्धेन्योन्यं समासाद्य ततक्षतुररिन्दमौ
व्याघ्राविव सुसङ्क्रुद्धौ श्येनाविव च शीघ्रगौ
शरभाविव संरब्धौ युयुधाते परस्परम्
ततो भीमस्स्मरन्क्लेशानक्षद्यूते वनेऽपि च
विराटनगरे यच्च दुःखं प्राप्तमरिन्दमैः
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः
सततं च परिक्लेशान्सपुत्रेण कृतांस्त्वया
दग्धुमैच्छच्च यः कुन्तीं सहपुत्रामनागसीम्
कृष्णायाश्च सभामध्ये परिक्लेशं दुरात्मभिः
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव
पङ्के निपतिताः पार्थास्सर्वे षण्डतिला इति
समक्षं तव कौरव्य यदूचुस्तनयास्तदा
दासीभावेन कृष्णां च भोक्तुकामास्तवात्मजाः
यत्र प्रव्राजितान्पार्थान्कृष्णाजिननिवासिनः
परुषाण्युक्तवान्कर्णस्सभायां सन्निधौ तव
तृणीकृत्य च यत्पार्थान्सूतपुत्रो जजल्प ह
विषमस्थान्समस्थो हि संरम्भाद्गतचेतनः
बाल्यात्प्रभृति यानिस्युस्तानि दुःखानि चिन्तयन्
निरविद्यत धर्मात्मा जीवितेन वृकोदरः
एवं बहुविधान्घोरान्स्मरन्दीप्ताग्निसन्निभः
ततो विष्फार्य सुमहद्धेमपृष्ठं दुरासदम्
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात्
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति
भानुमद्भिश्शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम्
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान्
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः
महाराज महाबाहुर्महावेगैर्महारथम्
विव्याधाधिरथिर्भीमं नवभिर्निशितैश्शरैः
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभिः
अभ्यधावदसम्भ्रान्तस्सूतपुत्रं वृकोदरः
तमापतन्तं वेगेन रभसं पाण्डवं रणे
कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम्
ततः प्रध्माप्य जलजं भेरीशतविनादितम्
अक्षोभयद्बलं हर्षादुद्धूत इव सागरः
तदुद्धूतं बलं दृष्ट्वा रथनागाश्वपत्तिमत्
भीमः कर्णं समासाद्य च्छादयामास संयुगे
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्छरैः
ऋश्यवर्णान्हंसवर्णैर्वमिश्रान्वातरंहसः
आलोक्य तव पुत्राणां हाहाभूतमभूद्बलम्
ते हया बह्वशोभन्त मिश्रिता वातरंहसः
सितासिता महाराज यथा व्योम्नि बलाहकाः
संयत्तौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ
सन्त्रस्तास्समकम्पन्त त्वदीयानां महारथाः
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः
नालक्षयञ्जयं व्यक्तमेकस्यैकस्य वा रणे
तयोरथासीत्सम्मर्दस्सन्निकृष्टं महास्त्रयोः
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते
छादयन्तौ हि शत्रुघ्नावन्योन्यमपराजितौ
शरजालावृतं व्योम चक्राते शरवृष्टिभिः
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ
सुवर्णविकृतान्बाणान्विमुञ्चन्तावरिन्दमौ
भास्वरं व्योम चक्राते बहूल्काभिरिव प्रभो
ताभ्यां मुक्ताः प्रकाशन्ते कङ्कबर्हिणवाससः
पङ्क्त्यश्शरदि मत्तानां सारसानामिवाम्बरे
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम्
अतिभारममन्येतां भीमे कृष्णधनञ्जयौ
तत्रातिरथिभीमाभ्यां शरैर्मुक्तैर्दृढं हताः
इषुपातमतिक्रम्य पेतुरश्वा नरा द्विपाः
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः
ततः कृतो महाराज पुत्राणां ते जनक्षयः
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः
क्षणेन भूमिस्सञ्जज्ञे संवृता भरतर्षभ
आक्रीडमिव रुद्रस्य दक्षयज्ञनिबर्हणे