सञ्जयः-
वर्तमाने महाराज सङ्ग्रामे रोमहर्षणे
व्याकुलेषु च सैन्येषु पीड्यमानेषु संयुगे
राधेयो भीममागच्छद्युद्धाय भरतर्षभ
यथा नागो वने नागं मत्तो मत्तमभिद्रवेत्
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः
धृतराष्ट्रः-
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ
अर्जुनस्य रथोपान्ते कीदृशस्सोऽभवद्रणः
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे
कथं भूयः स राधेयो भीममागान्महारथम्
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे
महारथसमाख्यातं पृथिव्यां प्रवरं रथम्
द्रोणभीष्मावतिक्रम्य धर्मपुत्रो युधिष्ठिरः
नान्यतो भयमादत्ते विना कर्णं धनुर्धरम्
भयान्न शेते सततं चिन्तयन्वै महारथम्
तं कथं सूतपुत्रं तु भीमोऽयुध्यत संयुगे
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः
कथं युध्यति भीमेन कुन्त्या वाक्यमनुस्मरन्
भीमो वा सूतपुत्रस्य स्मरन्वैरं पुरा कृतम्
अयुध्यत रणे शूरः कथं कर्णेन संयुगे
आशास्ते च सदा सूतपुत्रे दुर्योधनो मम
कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति
जयाशा यत्र मन्दस्य मम पुत्रस्य सञ्जय
स कथं भीमकर्माणं भीमसेनमयुध्यत
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः
तं सूततनयस्तात कथं भीममयोधयत्
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्
स्मरमाणः कथं भीमो युयुधे सूतसूनुना
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्
तं सूततनयं युद्धे कथं भीमोऽभ्ययोधयत्
यो जातः कुण्डलाभ्यां च कवचेन च वीर्यवान्
तं सूतपुत्रं समरे कथं भीमोऽभ्ययोधयत्
अस्त्रहेतोः पुरा तात भार्गवं समपूजयत्
तस्य प्रसादाद्ब्रह्मास्त्रं लब्धवांश्च भृगूत्तमात्
यथा तयोर्युद्धमभूद्यश्चैव विजयी तयोः
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय
सञ्जयः-
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ
तं प्रयान्तमनादृत्य राधेयः कङ्कपत्रिभिः
अभ्यवर्षन्महाराज मेघो वृष्ट्या यथाऽचलम्
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली
आजुहाव रणे यान्तं भीममातिरथिस्तदा
भीमसेनस्तदाह्वानं कर्णे नामर्षयद्युधि
अथ मण्डलमावृत्य सूतपुत्रमयोधयत्
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः
दंशितं द्वैरथे यत्तं सर्वशस्त्रभृतां वरम्
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षमी
तं च हत्वेतरान्सर्वान् हन्तुकामो महारथः
तस्मै व्यसृजदुग्राणि विविधानि परन्तपः
अमर्षी पाण्डवः क्रुद्धश्शरवर्षाणि मारिष
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहारथः
स यथावन्महाबाहुर्विद्यया वै सुपूजितः
आचार्यवन्महेष्वासः कर्णः पर्यपतद्रथी
संरम्भेण च युध्यन्तं भीमसेनं हसन्निव
अत्यमन्यत राधेयः कर्णो मानी वृकोदरम्
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः
तं भीमसेनस्सम्प्राप्तं वत्सदन्तैस्स्तनान्तरे
विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम्
सुतं तु सूतपुत्रस्य स्वर्णपुङ्खैर्निशितैश्शरैः
विमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिभिस्त्रिभिः
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः
विव्याधातिरतिर्वीरः पञ्चभिः पञ्चभिश्शरैः
ततो बाणमयं वर्षं भीमसेनरथं प्रति
कर्णेन विहितं राजन्निमेषार्धाददृश्यत
स रथस्सध्वजस्तस्य ससूतः पाण्डवस्य ह
प्राच्छाद्यत महाराज कर्णचापच्युतैश्शरैः
तं स कर्णश्चतुष्षष्ट्या विव्याध कवचं दृढम्
क्रुद्धश्चाभ्यहनत्पार्थं नाराचैर्मर्मभेदिभिः
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिस्सृतान्
समाश्लिष्यदसम्भ्रान्तस्सूतपुत्रं वृकोदरः
स कर्णचापप्रभवानिषूनाशीविषोपमान्
बिभ्रद्भीमो महाबाहुर्नाजगाम व्यथां रणे
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः
विव्याध समरे कर्णं भीमसेनः प्रतापवान्
अयत्नेनैव तं कर्णश्शरैरुपसमाकिरत्
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्
मृदुपूर्वं तु राधेयो भीममाजावयोधयत्
क्रुद्धो वै भीमसेनस्तु पूर्ववैरमनुस्मरन्
तं भीमसेनो नामृष्यदवमानममर्षितः
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित्
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे
सम्पेतुस्सर्वतो भीमाः कूजन्त इव पक्षिणः
हेमपुङ्खा महावेगा भीमसेनधनुश्च्युताः
अभ्यद्रवन्त राधेयं व्याघ्राः क्षुद्रमृगं यथा
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानस्समन्ततः
राजन्व्यसृजदुग्राणि शरवर्षाणि मारिष
तस्य तानशनिप्रख्यानिषून्समरशोभिनः
चिच्छेद बहुभिर्भल्लैरनवाप्तान्वृकोदरः
पुनश्च शरवर्षेण च्छादयामास भारत
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम्
तत्र भारत भीमं तु दृष्टवन्तस्तु सायकैः
समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव
हेमपुङ्खाञ्छिलाधौतान्कर्णचापच्युताञ्छरान्
दधार समरे वीरस्स्वरश्मीनिव भास्करः
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत
तपनीयनिभैः पुष्पैः पलाश इव कानने
तत्तु भीमो महाराजः कर्णस्य चरितं रणे
नामृष्यत महाराजः क्रोधादुद्वृत्य चक्षुषी
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः
अर्धमण्डलमावृत्य सूतपुत्रमपोथयत्
आपतन्नेव तं कर्णश्शरैरुपसमाकिरत्
उपसृत्य प्रहासेन तमाविध्यत्स्मयन्निव
तं विव्याध पुनर्भीष्षड्भिरष्टाभिरेव च
मर्मस्वमरविक्रान्तं सूतपुत्रं महारणे
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान्
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च
जघान त्वरितोऽश्वांश्च सूतं च त्वरितश्शरैः
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि
ते जग्मुर्धरणीं बाणाः कर्णं निर्भिद्य मारिष
यथा हि जलदं भित्त्वा राजन् सूर्यस्य रश्मयः
स वैक्लव्यं महत्प्राप्य च्छिन्नधन्वा शरार्दितः
तथा पुरुषमानी सन् लज्जामुत्सृज्य भारत
भीमसेनभयात्कर्णः प्रत्यपायाद्रथान्तरम्