सञ्जयः-
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्
त्वरन्नेकरथेनैव बहु कृत्यं विचिन्तयन्
सरथस्तव पुत्रस्तु त्वरया परयाऽन्वितः
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान्
इह दृष्ट इतो नष्टस्सरथः प्राद्रवन्नृपः
मुहूर्तादिव पुत्रस्ते द्रोणमासाद्य मारिष
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः
दुर्योधनः-
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः
सम्प्राप्तास्सिन्धुराजस्य समीपमनिवारिताः
व्यायच्छन्ति च तत्रस्थास्सर्व एव महारथाः
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद
आश्चर्यभूतो लोकेऽस्मिन्समुद्रस्येव शोषणम्
निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च
तथैव भीमसेनेन लोकः संवदते भृशम्
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः
द्रोण
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्
यद्गतं गतमेवेह शेषं चिन्तय मानद
दुर्योधनः-
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्
तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम्
द्रोणः-
चिन्त्यं बहु महाराज कृत्यं यत्तत्तु मे शृणु
त्रयोऽपि समतिक्रान्ताः पाण्डवानां महारथाः
यावदेव बलं पश्चात्तावदेव पुरस्सरम्
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात्
गतौ च सैन्धवं वीरौ युयुधानवृकोदरौ
तत्र द्यूतं हि सम्भूतं यत्तच्छकुनिबुद्धिजम्
न सभायां जयो वृत्तो नापि तत्र पराजयः
इह नो ग्लहमानानामद्य तावज्जयाजयौ
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि
अक्षांस्तु मन्यमानस्स प्राक्शरास्ते दुरावराः
यत्र ते बहवस्तात ग्लहमाना व्यवस्थिताः
सेनां दुरोदरं विद्धि शरानक्षान्विशां पते
ग्लहं च सैन्धवं राजन्नत्र द्यूतं च निश्चयम्
सैन्धवे हि महद्द्यूतं समायत्तं परैस्सह
अत्र ते ध्रुवमायत्तो जयो वाऽजय एव वा
अत्र सर्वैर्महाराज त्यक्त्वा जीवितमात्मनः
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हसि
तत्र नो ग्लहमानानां ध्रुवं तात जयाजयौ
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्
तत्र याहि स्वयं शीघ्रं तान् स्म रक्षस्व रक्षिणः
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः
सञ्जयः-
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
बाह्येन सेनामभ्येत्य जग्मतुस्सव्यसाचिनम्
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा
पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम्
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह
ताभ्यां दुर्योधनः सार्धमकरोत्सङ्ख्यमुत्तमम्
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली
तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि
युधामन्युश्च पाञ्चाल्य उत्तमौजास्तथैव च
भित्त्वा पार्श्वेन सैन्यं तु प्रविष्टौ फल्गुनं प्रति
तौ समासादयद्वीरश्शरैः कायास्थिभेदिभिः
सप्तभिश्च युधामन्युं षड्भिश्चैवोत्तमौजसम्
तौ तं सुनिशितैर्बाणैरविध्येतां महारथौ
उत्तमौजास्तु भल्लेन चापं चिच्छेद वीर्यवान्
अथान्यत्सुमहातेजा धनुर्गृह्य महाबलः
छादयामास सङ्क्रुद्धः पाञ्चालौ कुरुनन्दनः
उत्तमौजास्तु सङ्क्रुद्धश्शरांस्त्रिशतमायतान्
वयसृजत्तव पुत्रस्य त्वरमाणस्स्तनान्तरे
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्यौत्तमौजसः
जघान चतुरोऽस्याश्वानुभौ तौ पार्ष्णिसारथी
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे
युधामन्युरथं शीघ्रमारुरोह परन्तपः
तं भ्रातुस्स रथं प्राप्य दुर्योधनहयाञ्शरैः
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा
युधामन्यू रथं शीघ्रं शरावापं च संयुगे
तथोत्तमौजास्सङ्क्रुद्धश् शरैर्हेमपरिष्कृतैः
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम्
हताश्वसूतात्सरथादवतीर्य महारथः
गदामादाय ते पुत्रः पाञ्चल्यावभ्यधावत
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम्
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ
ततस्स हेमचित्राङ्गं स्यन्दनप्रवरं गदी
सङ्क्रुद्धः पोथयामास साश्वसूतध्वजं नृप
एतदीदृशकं पुत्रस्तवाकार्षीज्जनाधिप
गदया गदिनां श्रेष्ठस्सर्वलोकमहारथः
भङ्क्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः
मद्रराजरथं तूर्णमारुरोह परन्तपः
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ
रथावन्यौ समास्थाय धनञ्जयमुपेयतुः