धृतराष्ट्रः-
तथा तु नर्दमानं तं भीमसेनं महाबलम्
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन्
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे
गदामुद्यच्छमानस्य के वीराः पर्यवारयत्
न हि पश्याम्यहं युद्धे यस्तिष्ठेत्प्रमुखे रणे
रथं रथेन यो हन्ति कुञ्जरं कुञ्जरेण हि
कस्तस्य प्रमुखे स्थाता साक्षादपि शतक्रतुः
क्रुद्धस्य भीमसेनस्य पुत्रान्मम जिघांसतः
दुर्योधनहिते युक्तास्समतिष्ठन्त केऽग्रतः
भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोलपम्
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः
काल्यमान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे
कालेनेव प्रजास्सर्वाः के भीमं पर्यवारयन्
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्प्रधक्षतः
के वीराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय
सञ्जयः-
तथा तु नर्दमानं तं भीमसेनं महाबलम्
तुमुलेनैव शब्देन योद्धुं कर्णोऽभ्ययाद्बली
व्याक्षिपद्बलवच्चापमतिमात्रममर्षितः
शूरस्सुयुद्धमाकाङ्क्षन्दर्शयिष्यन्बली बलम्
प्रावेपन्निव गात्राणि कर्णभीमसमागमे
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम्
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे
खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः
पुनर्घोरेण श्ब्देन पाण्डवस्य महात्मनः
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
वाहनानि च महाराज बभूवुर्विमनांस्युत
प्रादुरासन्निमित्तानि घोराणि च बहूनि च
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम्
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्
विव्याध चास्य त्वरितस्सूतं पञ्चभिराशुगैः
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे
सायकानां चतुष्षष्ट्या क्षिप्रकारी वृकोदरः
तस्य कर्णो महेष्वासस्सायकांश्चतुरोऽक्षिपत्
असम्प्राप्तांस्तु तान्भीमस्सायकैरेव सायकान्
चिच्छेद बहुधा राजन्दर्शयन्हस्तलाघवम्
तं कर्णश्छादयामास शरव्रातैरनेकशः
सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः
विव्याध चैनं बहुभिस्सायकैर्नतपर्वभिः
अथान्यद्धनुरादाय सज्यं कृत्वा स सूतजः
विव्याध समरे भीमं भीमकर्मा महारथः
ततो भीमो भृशं क्रुद्धस्सायकान्नतपर्वणः
निजघानोरसि क्रुद्धस्सूतपुत्रस्य वेगितः
तैश्शरैर्विबभौ कर्ण उरोमध्यगतैस्तदा
महीधर इवोदग्रस्त्रिशृङ्गो भीमदर्शनः
तस्य सुस्राव रुधिरं विद्धस्य परमेषुभिः
गिरेः प्रस्रुतसानोस्तु यथा गैरिकजं रजः
किञ्चिद्विचलितः कर्णस्सम्प्रहाराभिपीडितः
ससायकं धनुः कृत्वा भीमं विव्याध मारिष
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः
सङ्छाद्यमानस्समरे कर्णेन दृढधन्विना
धनुर्ज्यामच्छिनत्तूर्णं कर्णस्य च महात्मनः
सारथिं चास्य भल्लेन रथनीडादपाहरत्
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः
हताश्वात्तु रथात्कर्णस्समाप्लुत्य विशां पते
स्यन्दनं वृषसेनस्य समारोहन्महाबलः
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्
ननाद बलवान्नादं पर्जन्यनिनदोपमम्
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः
कर्णं तु निर्जितं श्रुत्वा भीमसेनेन मारिष
सबाणशङ्खनिनदः पाण्डूनामभवन्नृप
शत्रुसेनाध्वनिं श्रुत्वा तावका व्यरुदन्भृशम्
गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमनादयत्
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दत
अश्रूयत तदा राजन्सर्वसैन्येषु मारिष
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ
मृदुपूर्वं तु राधेयः क्रोधपूर्वं च पाण्डवः
भीमोऽपि च महाराज वैकर्तनमुपाद्रवत्
आसुरे च महासैन्ये तारकं पावकिर्यथा
तयोरेवं महद्युद्धमभवद्भीमकर्णयोः
तं भीमसेनो महता शरवर्षेण वारयन्
विव्याध सारथिं चास्य हयांश्च चतुरः शरैः
ध्वजं चास्य पताकां च भल्लैस्सन्नतपर्वभिः
रथं च चक्ररक्षौ च भीमश्चिच्छेद मारिष
कर्णोऽपि रथिनां श्रेष्ठो भीमसेनेन कम्पितः
खड्गचर्मधरो राजन्भीममभ्यद्रवद्बली
भीमश्चिच्छेद खड्गं च चर्मणा सह मारिष
दुर्योधनः-
दृष्ट्वा कर्णं च पार्थेन बाधितं बहुभिश्शरैः
दुर्योधनो महाराज दुश्शलं प्रत्यभाषत
कर्णं कृच्छ्रगतं पश्य शीघ्रं यानं प्रयच्छ ह
सञ्जयः-
एवमुक्तस्ततो राज्ञा दुश्शलस्समुपाद्रवत्
दुश्शलस्य रथं कर्णश्चारुरोह महारथः
तौ पार्थस्सहसा गत्वा विव्याध दशभिश्शरैः
पुनश्च कर्णं विव्याध दुश्शलस्य शिरोऽहरत्
दुश्शलं निहतं दृष्ट्वा भीमसेनेन मारिष
तस्यैव धनुरादाय कर्णो विव्याध पाण्डवम्
अन्योन्यं समरे वीरौ युयुधाते महाबलौ
शत्रुघ्नौ शत्रुमध्ये तु बलवज्रभृताविव
भीमो विद्ध्वा हयांश्चैव सारथिं च पुनः पुनः
कर्णमभ्यद्रवत्पार्थः प्रहसंश्च महाबलः
ततो व्यायच्छमानस्य भीमसेनस्य संयुगे
तत्सैन्यं शकलीभूतं न प्राज्ञायत किञ्चन