सञ्जयः-
समुत्तीर्णं रथानीकं तमसो भास्करं यथा
विवारयिषुराचार्यश्शरवर्षैरवाकिरत्
पिबन्निव शरौघांस्तान्द्रोणचापपरिच्युतान्
सोऽभ्यवर्तत सोदर्यान्मोहयन्बलमायया
तं मृधे वेगमास्थाय परं परमधन्विनः
चोदितास्तव पुत्रेण सर्वतः पर्यवारयन्
तैर्वृतस्सर्वतो भीमः क्रोधेन प्रदहन्निव
उद्गृह्य स गदां तेभ्यश्शत्रुभ्यस्सहसा नदन्
अवासृजच्च वेगेन तान्मतान् प्रार्थयन्बली
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संशितात्मना
घोषेण महता राजन्पूरयन्ती दिशो दश
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान्
तामापतन्तीं वेगेन दृष्ट्वा तेजोभिसंवृताम्
प्राद्रवंस्तावकास्सर्वे नदन्तो भैरवान्रवान्
सिंहनादमसह्यं हि श्रुत्वा भीमस्य संयुगे
प्रापतंश्च नरास्त्रस्ता रथेभ्यो रथिनस्तदा
स तान्विद्राव्य कौन्तेयस्सर्वानेव महारथः
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम्
तथा तं विप्रकुर्वाणं रथयूथपयूथपम्
भारद्वाजो महाराज भीमसेनं समभ्ययात्
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः
अकरोत्सहसा नादं पाण्डूनामादधद्भयम्
तद्युद्धमासीत्सुमहद्धोरं देवासुरोपमम्
द्रोणस्य च महाराज भीमस्य च महात्मनः
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिस्सृतैः
वध्यन्ते समरे शूराश्शतशोऽथ सहस्रशः
ततो रथादवप्लुत्य वेगमास्थाय मध्यमम्
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात्
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया
तथा भीमो महाराजश्शरवर्षं समग्रहीत्
स वध्यमानस्समरे रथं द्रोणस्य मारिष
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः
द्रोणस्तु सहसा राजन्क्षिप्तो भीमेन संयुगे
ददृशे तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः
परिहृत्य रथं द्रोणश्चूर्णितं तं महीतले
रथमन्यं समारुह्य व्यूहद्वामथाययौ
तस्मिन्क्षणे स यन्ताऽस्य तूर्णमश्वानचोदयत्
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत्
ततस्स्वरथमास्थाय भीमसेनो महाबलः
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम्
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्
प्रमथ्य बहुधा राजन्भीमसेनस्समभ्यगात्
सन्त्रासयन्ननीकानि तलशब्देन पाण्डवः
अजयत्सर्वतस्सैन्यं शार्दूल इव गोकुलम्
भोजानीकमतिक्रम्य काम्भोजानां च वाहिनीम्
तथा म्लेच्छगणानन्यान्प्रययौ त्वरयान्वितः
सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं महारथम्
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम्
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः
सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम्
सैन्धवस्य वधार्थाय पराक्रान्तं पराक्रमी
अर्जुनं तं च दृष्ट्वा तु चुक्रोश महतो रवान्
तं तु तस्य महानादं पार्थश्शुश्राव नर्दतः
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव
वासुदेवार्जुनौ श्रुत्वा नादं तस्याभिगर्जतः
पुनः पुनः प्राणदतो दिदृक्षू तं वृकोदरम्
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत्
धनञ्जयस्य समरे जयमाशास्तवान्विभुः
तथा तु नर्दमाने वै भीमसेने मदोत्कटे
स्मितं कृत्वा महाबाहुर्धर्मराजो युधिष्ठिरः
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः
युधिष्ठिरः-
उक्तेन संविदं भीम कृतं गुरुवचस्तथा
न हि तेषां जयो युद्धे येषां द्वेष्टाऽसि पाण्डव
दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः
दिष्ट्या च कुशली वीरस्सात्वतस्सत्यविक्रमः
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः
यस्य बाहुबलं सर्वे जीवामस्संश्रिता वयम्
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः
निवातकवचा येन देवैरपि दुरासदाः
निर्जिता धनुषैकेन दिष्ट्या पार्थस्स जीवति
कौरवान्सहितान्सर्वान्गोधनार्थे समागतान्
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थस्स जीवति
कालकेयान्महेष्वासान्सहस्राणि चतुर्दश
योऽघ्नन्निमिषमात्रेण दिष्ट्या पार्थस्स जीवति
गन्धर्वराजं बलिनं दुर्योधनकृते च वै
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थस्स जीवति
किरीटमाली बलवाञ्छ्वेताश्वः कृष्णसारथिः
मम प्रियश्च यो नित्यं दिष्ट्या जीवति पाण्डवः
पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम्
जयद्रथवधान्वेषी प्रतिज्ञां कृतवांश्च यः
कच्चित्सैन्धवकं सङ्ख्ये पातयिष्यति फल्गुनः
कच्चित्तीर्णप्रतिज्ञं तं वासुदेवेन रक्षितम्
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम्
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः
नन्दयिष्यत्यमित्रांश्च फल्गुनेन निपातितः
अद्य दुर्योधनो धन्वी फल्गुनेन निपातितम्
दृष्ट्वा च सैन्धवं सङ्ख्ये शममस्मासु यास्यति
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे
भयाद्दुर्योधनो राजा शममस्मासु यास्यति
पदातिरथनागाश्वान्पातितान्धरणीतले
दृष्ट्वा दुर्योधनो मन्दः पश्चात्तापं करिष्यति
कच्चिद्भीष्मेण नो वैरमेकेनैवापयास्यति |
कच्चिच्छेषस्य रक्षार्थं सन्धास्यति सुयोधनः
सञ्जयः-
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव
कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत