सञ्जयः-
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
अदूरमन्वयुर्द्रोणं पाञ्चालास्सह सोमकैः
वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे
पक्षये जगतस्तीव्रे युगान्त इव भारत
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु
नापश्यच्छरणं कञ्चिद्धर्मराजो युधिष्ठिरः
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति
तत्र वीक्ष्य दिशस्सर्वास्सव्यसाचिदिदृक्षया
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम्
सोऽपश्यन्नरशार्दूलो वानरर्षभलक्षणम्
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्
ततश्शोकपरीताङ्गो धर्मराजो युधिष्ठिरः
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरोत्तमौ
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः
अचिन्तयन्महाबाहुश्शैनेयस्य रथं प्रति
युधिष्ठिरः-
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे
शैनेयस्सात्यकिस्सत्यो मित्राणामभयङ्करः
तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै
सात्यकिश्चापि मे ज्ञेयः पाण्डवश्च धनञ्जयः
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि
युयुधानमनन्विष्य लोको मां गर्हयिष्यति
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
लोके परमभीरुत्वात्सोऽहं पार्थं वृकोदरम्
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः
यथैव च मम प्रीतिरर्जुने शत्रुसूदने
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे
अतिभारे नियुक्तश्च मया शैनेयनन्दनः
स तु मित्रानुरोधेन गौरवाच्च महाबलः
प्रविष्टो भारतीं सेनां मकरस्सागरं यथा
असौ हि श्रूयते शब्दश्शूराणामनिवर्तिनाम्
मिथस्संयुध्यमानानां वृष्णिवीरेण धीमता
प्राप्तकालमहं मन्ये यानं भीमस्य तत्र तु
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः
गमनं रोचते व्यक्तं यत्र यातो महारथः
नासाध्यं भीमसेनस्य विद्यते भुवि किञ्चन
शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनः
स्वबाहुबलमाश्रित्य प्रतिव्यूहितुमञ्जसा
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः
वनवासान्निवृत्तास्स्म न च युद्धेषु निर्जिताः
प्रयातेन च भीमेन सात्वतं प्रति पाण्डवम्
नाथवन्तौ भवेतां तौ युधि सात्वतफल्गुनौ
कामं त्वशोचनीयौ तौ युधि शूरौ महारथौ
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ
अवश्यं तु मया कार्यमात्मनश्शोकनाशनम्
तस्माद्भीमं नियोक्ष्यामि सात्यकस्य पदानुगम्
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति
सञ्जयः-
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः
यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम्
धर्मराजवचश्श्रुत्वा सारथिर्हयकोविदः
रथं हेमपरिष्कारं भीमान्तिकमुदावहत्
भीमसेनरथं प्राप्य प्राप्तकालमनुस्मरन्
कश्मलं प्राविशद्राजा बहु तत्तत्समादिशत्
युधिष्ठिरः-
यस्सदेवान्सगन्धर्वान्सर्वांश्चैकरथोऽजयत्
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते
भीमः-
सञ्जयः-
ततोऽब्रवीत्तदा राजन्भीमसेनस्तथागतम्
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम्
पुरा दुःखान्वितानां हि भवान्भवति नो गतिः
उत्तिष्ठ धत्स्व कौन्तेय शाधि किं करवाणि ते
न ह्यसाध्यमकार्यं वा विद्यते मम मानद
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः
सञ्जयः-
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः
युधिष्ठिरः-
श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः
पूरितो वासुदेवेन संरब्धेन तरस्विना
नूनमद्य हतस्सङ्ख्ये भ्राता तव धनञ्जयः
तस्मिन्विनिहते नूनं युध्यते स्म जनार्दनः
यस्य सत्ववतो वीर्यमुपजीवन्ति पाण्डवाः
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः
स शूरस्सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम्
तस्य वै गमनं विद्म न च व्यावर्तनं पुनः
श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः
मम प्रियहितार्थं च शक्रलोकादिहागतः
वृद्धोपसेवी धृतिमान्कृतज्ञस्सत्यसङ्गरः
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः
प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने
प्रेषितस्सात्वतो वीरः फल्गुनस्य पदानुगः
तस्याभिगमनं जाने भीम नावर्तनं पुनः
तदिदं मम भद्रं ते शोकस्थानमरिन्दम
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात्
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्
तं विद्धि पुरुषव्याघ्रं सात्वतं च महाबलम्
स वै महारथं पश्चादनुयान्तं तवानुजम्
असम्पश्यन्महाबाहुमहं विन्दामि कश्मलम्
अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम्
दृष्ट्वा कुशलिनं पार्थं सैन्धवार्थे ससात्यकिम्
संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव
असौ हि पाञ्चजन्यस्य नदतश्श्रूयते स्वनः
क्रुद्धेन वासुदेवेन पूर्यमाणस्य पाण्डव
नूनं विनिहतश्शूरस्सव्यासाची परन्तपः
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः
न ह्यस्य प्रियकृत्कश्चिदन्यः पाण्डव विद्यते
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः
यस्य वीर्यवतो विर्यमुपजीवन्ति पाण्डवाः
त्वं तत्र गच्छ कौन्तेय यत्र यातस्स पल्गुनः
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे
वचनं मम धर्मज्ञ श्रेष्ठो भ्राता भवामि ते
न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यस्सात्यकिर्यथा
चिकीर्षुर्मत्प्रियं पार्थ स यातस्सव्यसाचिनः
पदवीं दुर्गमां घोरां भीरुभिश्चाकृतात्मभिः
भीमः-
ब्रह्मेशानेन्द्रवरुणानयद्यः पुरा रथः
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम्
तवाज्ञां शिरसा बिभ्रदेष गच्छामि मा शुचः
समेत्य तं रव्याघ्रं तव दास्यामि संविदम्
सञ्जयः-
एतावदुक्त्वा वचनं परिदाय युधिष्ठिरम्
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः
भीमः-
विदितं ते महाबाहो यथा द्रोणो महाबलः
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते
न च मे गमने कृत्यं तादृक्पार्षत विद्यते
यादृशं रक्षणे राज्ञः कार्यमादर्शितं हि नः
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे
तत्र यास्यामि यत्रासौ मुमूर्षुस्सैन्धवस्स्थितः
धर्मराजस्य वचने स्थातव्यमविशङ्कया
सोऽद्य यत्तो रणे तात परिरक्ष युधिष्ठिरम्
एतद्धि सर्वकृत्यानां परमं कृत्यमाहवे
सञ्जयः-
धृष्टद्युम्नः-
ततोऽब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्
ईप्सितेन महाबाहो गच्छ पार्थ यथासुखम्
ग्रहणं धर्मराजस्य प्रकरिष्यति संयुगे
सञ्जयः-
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवम्
अभिवाद्य कुरुश्रेष्ठं प्रययौ येन फल्गुनः
परिष्वक्तस्तु कौन्तेयो धर्मराजेन मारुतिः
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषश्शुभाः
भीमसेनो महाबाहुः कवची शुभलक्षणः
सगद्स्सतलत्राणस्सशरी रथिनां वरः
रथमारुह्य निर्युक्तं सर्वोपकरणान्वितम्
तस्य कार्ष्णायसं वर्म हेमराजिविभूषितम्
विबभौ सर्वतश्श्लिष्टस्सविद्युदिव तोयदः
पीतरक्तासितश्वेतैर्वासोभिर्वेष्टितेन सः
कण्ठसूत्रेण विबभौ सेन्द्रायुध इवाम्बुदः
प्रयाते तव सैन्यं तु भीमसेने युयुत्सया
पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते
तं श्रुत्वा निनदं घोरं त्रैलोक्यस्यापि भीषणम्
पुनर्भीमं महाबाहुं धर्मराजोऽभ्यभाषत
एष वृष्णिप्रवीरेण प्रध्मातः परमो भृशम्
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट्
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि
कुरुभिर्युध्यते वीरस्सर्वैः कृष्णो गदाधरः
नूनमार्या महत्कुन्ती पापं व्यसनदर्शनम्
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः
तद्भीम त्वरया युक्तो याहि यत्र धनञ्जयः
मुह्यन्तीव च मे सर्वा धनञ्जयदिदृक्षया
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात्
सञ्जयः-
गच्छ गच्छेति च पुनः भीमसेनमभाषत
स भृशं प्रेषितो भ्रात्रा भ्रात्रे भ्रातुः प्रियङ्करः
आहत्य दुन्दुभीन्सर्वान् शङ्खं प्रध्माप्य चासकृत्
नदित्वा सिंहनादं च ज्यां विष्फार्य पुनः पुनः
दर्शयन्घोरमात्मानममित्रान्सहसाऽभ्ययात्
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः
सुसंयत्ता विशोकेन मनोमारुतरंहसः
प्रययौ धनुरादाय ज्यां विमृज्य च पाणिना
विष्फारयन्धनुर्भीमस्सेनाग्रं समलोडयत्
तं प्रयान्तं महाबाहुं पाञ्चालास्सहसोमकैः
पृष्ठतोऽनुययुश्शूरा मघवन्तमिवामराः
तं स सेना महाराज सोदर्याः पर्यवारयन्
दुःशासनश्चित्रसेनः कुण्डभेदी विविंशतिः
दुर्मुखो दुष्षहश्चैव विकर्णोऽथ शलस्तथा
विन्दानुविन्दौ सुमुखो दीर्घबाहुस्सुदर्शनः
वृन्दारकस्सुहस्तश्च सुषेणो दीर्घलोचनः
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः
विविधै रथिनां श्रेष्ठास्सहसैन्यैस्सहानुगैः
संयत्तास्समरे शूरा भीमसेनमुपाद्रवन्
तान्समीक्ष्य स कौन्तेयो भीमसेनः पराक्रमी
अभ्यद्रवत वेगेन सिंहः क्षुद्रमृगानिव
ते महास्त्राणि दिव्यानि तत्र वीरा व्यदर्शयन्
वारयन्तश्शरैस्तीक्ष्णैर्भीमसेनं महाहवे
स तैर्विद्धो महाराज भीमसेनो महाबलः
अग्रतस्स्यन्दनानीकं शरवर्षैरवाकिरत्
ते वध्यमानास्समरे तव पुत्रा महारथाः
भीमं भीमबलं युद्धे योधयंस्तु जयैषिणः
ततो दुश्शासनः क्रुद्धो रथशक्तिं विचिक्षिपे
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम्
आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम्
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत्
अथान्यैस्तु शितैर्बाणैस्सुषेणं दीर्घलोचनम्
कुण्डभेदिनमप्याशु त्रिभिस्त्रीन्यहनद्बली
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव शूराणां पश्यतामवधीत्पुनः
अभयं रौद्रकर्माणं दुर्विमोचनमेव च
त्रिभिस्त्रीन्यहनद्भीमः पुनरेव सुतांस्तव
हन्यमाना महाराज पुत्रास्तव बलीयसा
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन्
ततो विन्दानुविन्दौ तु सुशर्माणं च ते सुतम्
प्रहसन्नेव कौन्तेयश्शरैर्निन्ये यमक्षयम्
ततस्सुदर्शनं वीरं पुत्रं ते भरतर्षभ
विव्याध समरे तूर्णं स पपात ममार च
सोऽचिरेणैव कालेन तद्रथानीकमाशु वै
दिशस्सर्वास्समभ्यस्य व्यधमत्पाण्डुनन्दनः
ततो वै रथघोषेण गर्जितेन मृगा इव
वध्यमानास्तु समरे पुत्रास्तव विशां पते
प्राद्रवन्समरे राजन्भीमसेनभयार्दिताः
अन्वियाय तु कौन्तेयः पुत्राणां ते महद्बलम्
विव्याध समरे राजन्कौरवेयान्समन्ततः
वध्यमाना महाराज भीमसेनेन तावकाः
हित्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान्
तांस्तु निर्जित्य समरे भीमसेनो महाबलः
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः
महान्तं तलशब्दं च कृत्वा द्रोणान्तिकं ययौ
तमावारयदाचार्यो वेलेवोद्वृत्तमर्णवम्
तस्य द्रोणो रथं राजञ्छादयामास संयुगे
साश्वसूतध्वजं तूर्णं तदद्भुतमिवाभवत्
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव
द्रोणः-
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम्
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः
मामनिर्जित्य समरे शत्रुमद्य महाबल
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा
यदि ते सानुजः कृष्णः प्रविष्टोऽनुमते मम
भीमः करिष्यते पूजामित्युवाच वृकोदरम्
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया
सञ्जयः-
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमशेषतः
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणश्श्वसन्
भीमः-
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्
प्रविष्टस्स हि दुर्धर्षश्शक्रस्यापि विशेद्बलम्
येन त्वं परमां पूजां कुर्वता मानितो ह्यसि
नार्जुनोऽहं घृणी विप्र भीमसेनोऽस्मि ते रिपुः
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम्
इति मन्यामहे सर्वे भवन्तं प्रणतास्स्थिताः
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन
तदद्य विपरीतं ते वदतोऽस्मासु दृश्यते
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथाऽस्त्विह
एष ते सदृशं कर्म शत्रोर्भीमः करिष्यति
सञ्जयः-
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः
द्रोणायावासृजद्राजन्स रथादवपुप्लुवे
साश्वसूतध्वजं यानं द्रोणस्यापोथयद्गदा
तदद्भुतमपश्याम पाण्डवेयस्य विक्रमम्
द्रोणं तु विरथं कृत्वा भीमसेनो महाबलः
अभ्यवर्तत सैन्यानि तावकानि समन्ततः
स मृद्नंस्तरसा योधान्वायुर्वृक्षानिवौजसा
विचचार रणे राजन्वायुतुल्यपराक्रमः
निर्जितस्तु तदा तेन पाण्डवेन महात्मना
अन्यं तु रथमातिष्ठद्द्रोणः प्रहरतां वरः