सञ्जयः-
अपराह्णे महाराज सङ्ग्रामस्सुमपद्यत
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः
शोणाश्वं रथमास्थाय नरवीरस्समाहितः
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम्
तव प्रियहिते युक्तो महेष्वासो महाबलः
चित्रपुङ्खैश्शितैर्बाणैरर्दयन्कलशोद्भवः
जघान सोमकान्राजन्सृञ्जयान्केकयानपि
वरान्वरान्हि योधानां विचिन्वन्निव भारत
चिक्रीड समरे राजन्भारद्वाजः प्रतापवान्
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः
भ्रातॄणां वीर पञ्चानां श्रेष्ठस्समरकर्कशः
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं चार्दयद्भृशम्
महामेघो यथा वृष्टिं विमुञ्चन्गन्धमादने
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान्
प्रेषयामास सङ्क्रुद्धस्सायकान्दश चाष्ट च
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान्
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत्
तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः
तान्दृष्ट्वा पततश्शीघ्रान्द्रोणचापच्युताञ्शरान्
अवारद्बृहत्क्षत्रस्तावद्भिर्निशितैश्शरैः
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
ततो द्रोणो महाराज केकयं वै विशेषयन्
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः
ब्रह्मेणैव महाबाहुराहवे समुदीरितम्
प्रतिहत्य तदस्त्रं तु भारद्वाजस्य संयुगे
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैश्शिलाशितैः
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत्
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम्
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा दृढम्
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे
द्रोणं विव्याध बाणैश्च स्वर्णपुङ्खैश्शिलाशितैः
सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत्
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष
व्यसृजद्विशिखांस्तीक्ष्णान्कैकेयस्य रथं प्रति
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्
व्यसृजत्सर्वतो बाणान्केकयस्य विमोहनात्
तमविध्यत्पृषत्केन द्रोणो राजन्स्तनान्तरे
भ्रातॄणां पञ्चमो ह्येष महाबलपराक्रमः
स गाढविद्धस्तेनाशु महाराजस्तनान्तरे
रथात्पुरुषशार्दूलस्म्भिन्नहृदयोऽपतत्
बृहत्क्षत्रे हते राजन्केकयानां महारथे
शैशुपालिस्सुसङ्क्रुद्धो यन्तारमिदमब्रवीत्
धृष्टकेतुः-
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम्
सञ्जयः-
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम्
द्रोणाय प्रापयामास काम्भोजैर्जवनैर्हयैः
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम्
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथद्विपम्
पुनरन्यैश्शरैस्तीक्ष्णैस्सुप्तं व्याघ्रं तुदन्निव
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च |
चिच्छेद राजन्बलिनो यतमानस्य संयुगे
अथान्यद्धनुरादाय शैशुपालिर्महारथः
विव्याध सायकैर्द्रोणं पुनस्सुनिशितैर्दृढम्
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः
अथैनं पञ्चविंशत्या सायकानां समाचिनोत्
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे
गदां चिक्षेप सम्भ्रान्तो भारद्वाजरथं प्रति
तामापतन्तीं सहसा घोररूपां भयावहाम्
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम्
शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत्
सा पपात गदा भूमौ भारद्वाजेन सादिता
रक्तमाल्याम्बरधरा तारेव नभसस्तदा
गदां विनिहतां दृष्ट्वा धृष्टकेतुर्महाबलः
तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम्
तोमरं च त्रिभिर्बाणैर्द्रोणश्छित्वा महामृधे
शक्तिं चिच्छेद दशधा कृतहस्तो महाबलः
ततोऽस्य विशिखं तीक्ष्णं वधार्थे वधकाङ्क्षिणः
प्रेषयामास समरे भारद्वाजः प्रतापवान्
स तस्य कवचं भित्त्वा हृदयं चामितौजसः
अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा
पतङ्गं ग्रसते चाषो यथा राजन् बुभुक्षितः
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत्
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित्
तमपि प्रहसन्द्रोणश्शरैर्निन्ये यमक्षयम्
महाव्याधो महारण्ये मृगशावं यथा बली
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत
जरासन्धसुतो वीरस्स्वरन्द्रोणमुपाद्रवत्
स तु द्रोणं महाराज च्छादयन्सायकैश्शितैः
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम्
जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम्
यो यो विधीयते खण्डस्तं तं द्रोणोऽन्तकोपमः
आदत्ते सर्वभूतानि प्राप्ते काले यथाऽन्तकः
ततो द्रोणो महाराज नाम विश्राव्य संयुगे
शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत्
ते तु नामाङ्किता बाणास्स्वर्णपुङ्खाश्शिलाशिताः
नरान्नागान्हयांश्चैव परलोकाय निन्यिरे
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः
समकम्पन्त पाञ्चाला गावश्शीतार्दिता इव
ततो निष्टानको घोरः पाण्डवानामजायत
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ
मोहिताश्शरजालेन भारद्वाजेन संयुगे
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः
चेदयश्च महाराज सृञ्जयास्सोमकास्तथा
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सवः
घ्नत द्रोणं घ्नत द्रोणमिति ते द्रोणमभ्ययुः
ते यतन्तो सर्वशक्ति व्यथन्तो महाद्युतिम्
निनीषन्तो युधि द्रोणं यमस्य सदनं प्रति
यतमानांस्तु ताञ्शूरान्भारद्वाजश्शिलीमुखैः
यमाय प्रेषयामास चेदिमुख्यान्विशेषतः
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः
पाञ्चालास्समकम्पन्त द्रोणसायकपीडिताः
प्राक्रोशन्भीमसेनस्तु धृष्टद्युम्नरथं प्रति
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष
भीमः-
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्
तथा हि युधि सङ्क्रुद्धो दहति क्षत्रियर्षभान्
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परन्तपः
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत्
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत
यथाबलं यथोत्साहं यथासत्वं महाद्युतिः
मोहयन्सर्वसैन्यानि द्रोणो हन्ति बलानि नः
सञ्जयः-
तस्य तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम्
तत्राधाय शरं तीक्ष्णं परघ्नं विमलं दृढम्
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत्
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम्
स भिन्नहृदयो वाहादपतन्मेदिनीतलम्
ततस्सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते
ततस्तु समरे वीरश्चेकितानो महारथः
स द्रोणं दशभिर्बाणैः प्रत्यविद्ध्यत्स्तनान्तरे
चतुर्भिस्सारथिं चास्य चतुर्भिश्चतुरो हयान्
तस्याचार्यष्षोडशभिरविध्यद्दक्षिणं भुजम्
ध्वजं षोडशभिर्बाणैर्यन्तारं चैव सप्तभिः
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः
समरे शरसंवीता भारद्वाजेन मारिष
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम्
तान्समेतान्रणे दृष्ट्वा चेदिपाञ्चालसृञ्जयान्
समन्ताद्द्रावयन्द्रोणो बह्वशो भतरतर्षभ
आकर्णपलितश्श्यामो वयसाऽशीतिकात्परः
रणे पर्यचरद्द्रोणो वृद्धष्षोडशवर्षवत्
अथ द्रोणं महाराज विचरन्तमभीतवत्
वज्रहस्तममन्यन्त शत्रवश्शत्रुसूदनम्
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृपः
द्रुपदः-
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः
यस्य लोभाद्विनिहतास्समरे क्षत्रियर्षभाः
शतशश्शेरते भूमौ निकृत्ता गोवृषा इव
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः
सञ्जयः-
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम्