धृतराष्ट्रः-
सम्प्रमथ्य महत्सैन्यं यान्तं शैनेयमर्जुनम्
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय
कथं तेषां तदा युद्धे धृतिरासीत्तु सञ्जय
शैनेयचरितं दृष्ट्वा सङ्ग्रामे परमाद्भुतम्
किं नु वक्ष्यन्ति ते तत्र सैन्यमध्ये पराजिताः
कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महारथः
कथं च मम पुत्राणां जीवतं तत्र सञ्जय
शैनेयो हि ययौ जित्वा सर्वसैन्यानि संयुगे
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्
एकस्य बहुभिर्युद्धं शत्रुमध्ये महारथैः
विपरीतमहं मन्ये अल्पभाग्यान्सुतान्प्रति
यत्रावध्यन्त समरे सात्यकेन महात्मना
एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम्
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम
कृतवर्मादिभिश्शूरैर्यत्तैर्बहुभिराहवे
न शक्यस्समरे जेतुं निहनिष्यति मे सुतान्
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः
चकार तादृशं युद्धं शिनेर्नप्ता महायशाः
सञ्जयः-
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत
ते पुनस्सन्न्यवर्तन्त कृत्वा संशपथं मिथः
परां युद्धे मतिं कृत्वा तव पुत्रस्य शासनात्
त्रीणि वाजिसहस्राणि दुर्योधनपुरोगमाः
शका यवनकाम्भोजा दरदा बाह्लिकास्तथा
कुलिन्दास्तङ्कणाम्बष्ठाः पैशाचाश्च समन्दराः
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्
शूराः पञ्चशतं राजञ्शैनेयं समुपाद्रवन्
ततो रथसहस्रेण द्विसाहस्रैश्च वाजिभिः
नियुतैश्च पदात्योघैर्विविधायुधापाणिभिः
शरवर्षाणि वर्षन्तो विविधानि महारथाः
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत
दुश्शासनो महाराज सात्यकिं पर्यवारयत्
तत्राद्भुतमपश्याम शैनेयचरितं महत्
यदेको बहुभिस्सार्धमसम्भ्रान्तमयुध्यत
अवधीच्च रथानीकं द्विरदानां च तद्बलम्
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः
तत्र चक्रैर्विमथितैर्भग्नैश्च बहुधा रथैः
अक्षैश्च बहुधा च्छिन्नैरीषादण्डकबन्धुरैः
कुञ्जरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः
वर्मभिश्चापरैश्चैव व्यवकीर्णा वसुन्धरा
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत
गिरिरूपधरैश्चापि पतितैश्च महागजैः
म्लेच्छास्थितैर्महाराज भिन्नाञ्जनचयोपमैः
मृगैर्मन्द्रैश्च भद्रैश्च मृगमन्द्रैस्तथाऽपरैः
भद्रैर्मन्द्रमृगैश्चैव मृगभद्रैस्तथैव च
मन्दैर्मन्दमदैश्चैव तथा मन्दमृगैरपि
तत्र तत्र धरा कीर्णा शयानैः पर्वतोपमैः
अञ्जनस्य कुले जाता वामनस्य च भारत
सुप्रतीककुले जाता महापद्मकुले तथा
ऐरावतकुले जातास्तथाऽन्येषु कुलेषु च
जाता दन्तिवरा राजञ्शेरते बहवो हताः
वनायुजान्पार्वतीयान्काम्भोजारट्टबाह्लिकान्
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः
नानादेशसमुत्थांश्च पत्तिसङ्घान्सुजन्मनः
निजघ्ने सात्यकिस्तत्र शतशोऽथ सहस्रशः
तेषु प्रकाल्यमानेषु दस्यून्दुर्योधनोऽब्रवीत्
दुर्योधनः-
निवर्तध्वमधर्मज्ञा युध्यध्वं किं द्रुतेन वः
सञ्जयः-
ततस्तान्समरे योधान्पुत्रो दुश्शासनस्तव
पाषाणयोधिनश्शूरान्पार्वतीयानचोदयत्
दुश्शासनः-
अश्मयुद्धेष्वकुशलो नैतज्जानाति सात्त्वतः
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम्
तथैव कुरवस्सर्वे नाश्मयुद्धविशारदाः
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्त्वतः
सञ्जयः-
शैनेयमभ्यधावंस्ते ग्रावभिर्दृढहस्तवान्
म्लेच्छाः पिपासवः प्राज्ञा राजानमिव मन्त्रिणः
ततो गजशिशुप्रख्यैरुपलैश्शैलवासिनः
उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः
क्षेपणीभिस्तथाऽप्यन्ये सात्वतस्य वधैषिणः
चोदितास्तव पुत्रेण रुरुधुस्सर्वतोदिशम्
तेषामापततामेव शिलायुद्धं चिकीर्षताम्
सात्यकिः प्रतिसन्धाय त्रिशितान्प्राहिणोच्छरान्
पाषाणयोधिनश्शूरान् यतमानान्व्यवस्थितान्
तेऽभ्यघ्नञ्शतसाहस्रांस्तदद्भुतमिवाभवत्
तामश्मवृष्टिं तुमुलां पार्वतीयैस्समीरिताम्
बिभेदोरगसङ्काशैर्नाराचैश्शिनिपुङ्गवः
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः
प्रायस्सैन्यान्यविध्यन्त हाहाभूतानि मारिष
ततः पञ्चशतं शूरास्समुद्यतमहाशिलाः
निकृत्तबाहवो राजन्निपेतुर्धरणीतले
सात्वतस्य च भल्लेन निष्पिष्टैस्तैस्तथाऽद्रिभिः
न्यपतन्निहता म्लेच्छास्तत्र तत्र गतासवः
ते हन्यमानास्समरे सात्वतेन महात्मना
अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते
पाषाणयोधिनश्शूरान्यतमानान्व्यवस्थितान्
अवधीद्बहुसाहस्रास्तदद्भुतमिवाभवत्
ततः पुनर्बस्तमुखैरश्मवृष्टीस्समन्ततः
अधोबस्तैस्स्थूलबस्तैर्दरदैः खषतङ्कणैः
लम्बकैश्च कुणिन्दैश्च क्षिप्ताः क्षिप्ताश्च सात्यकिः
नाराचैः प्रतिविव्याध प्रेक्षमाणास्समन्ततः
अद्रीणां भिद्यमानानामन्तरिक्षे शितैश्शरैः
शब्देन प्राद्रवन्राजन् रथाश्वगजपत्तयः
अश्मचूर्णैरथाकीर्णा मनुष्याश्च वयांसि च
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशकैः
हतशिष्टास्सरुधिरा भिन्नमस्तकपिण्डिकाः
विभिन्नशिरसो राजन्दन्तैश्छिन्नैश्च दन्तिनः
निर्धूतैश्च करैर्नागा व्यङ्गाश्च शतशः कृताः
हत्वा पञ्चशतान्योधांस्तत्क्षणेनैव मारिष
व्यचरत्पृतनामध्ये शैनेयः कृतहस्तवत्
कुञ्जरास्सन्न्यवर्तन्त युयुधानेन मोहिताः
अश्मनां भिद्यमानानां सायकैश्श्रूयते ध्वनिः
पद्मपत्रेषुधाराणां पतन्तीनामिव ध्वनिः
ततश्शब्दस्समभवत्तव सैन्यस्य मारिष
माधवेनार्द्यमानस्य सागरस्येव दारुणः
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्
द्रोणः-
एष सूत रणे क्रुद्धस्सात्वतानां महारथः
दारयन्बहुधा सैन्यं रणे चरति कालवत्
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय
पाषाणयोधिभिर्नूनं युयुधानस्समागतः
तथा हि रथिनस्सर्वे ह्रियन्ते विद्रुतैर्हयैः
विशस्त्रकवचा रुग्णास्तत्रतत्र पतन्ति च
न शक्नुवन्ति यन्तारस्संयन्तुं तुमुले हयान्
सञ्जयः-
इत्येवं ब्र्रुवतो राजन् भारद्वाजस्य धीमतः
प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम्
द्रोणसारथिः-
आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः
पश्य योधान्रणे भग्नान्धावमानांस्ततस्ततः
इमे तु सहिताश्शूराः पाञ्चालाः पाण्डवैस्सह
त्वामेव हि जिघांसन्त आद्रवन्ते समन्ततः
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम
स्थाने वा गमने वाऽपि दूरं यातश्च सात्यकिः
सञ्जयः-
तथा तेनोच्यमानस्य भारद्वाजस्य मारिष
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान्
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः
ते वध्यमानास्समरे युयुधानेन तावकाः
यैस्तु दुश्शासनस्सार्धं रथं पूर्वं न्यवर्तयत्
ते भीतास्समकीर्यन्त सर्वे द्रोणरथं प्रति