सञ्जयः-
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः
भारद्वाजश्शरव्रातैर्मर्मभिद्भिरवाकिरत्
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्
पश्यतां सर्वसैन्यानां बलिवासवयोरिव
प्रावर्तत महारौद्रस्सङ्ग्रामो रोमहर्षणः
शेनेयस्य च राजेन्द्र भारद्वाजस्य चोभयोः
ततो द्रोणश्शिनेः पौत्रं सर्वपारशवैश्शरैः
त्रिभिराशीविषाकारैर्ललाटे समविध्यत
तैर्ललाटार्पितैर्बाणैर्युयुधानो विशां पते
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः
ततोऽस्य बाणानपरानिन्द्राशनिसमप्रभान्
अन्तरे चान्तरप्रेक्षी द्रोणश्चिक्षेप संयुगे
विमुक्तान्द्रोणचापाच्च दाशार्हो द्रवतश्शरान्
द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित्
तामस्य लघुतां द्रोणस्समवेक्ष्य विशां पते
प्रहस्य सहसाऽविध्यद्विंशत्या शिनिपुङ्गवम्
पुनः पञ्चशता षष्ट्या सहस्रेण शतेन च
लघुतां युयुधानस्य लाघवेन व्यशोषयन्
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः
तथैव युयुधानेन सृष्टाश्शतसहस्रशः
अवाकिरन्त द्रोणस्य रथं रुधिरभोजनाः
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ
सात्यकिस्तु ततो द्रोणं नवभिः कङ्कपत्रिभिः
आजघान भृशं क्रुद्धो ध्वजं च निशितैस्त्रिभिः
सारथिं च शतेनैव भारद्वाजस्य पश्यतः
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः
सप्तत्या सात्यकिं विद्ध्वा तुरङ्गांश्च त्रिभिस्त्रिभिः
ध्वजमेकेन विव्याध माधवस्य रथे स्थितम्
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा
धनुश्चिच्छेद समरे माधवस्य महात्मनः
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत्
तामापतन्तीं सहसा पट्टनद्धामयस्मयीम्
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः
अथान्यद्धनुरादाय सात्यकिस्सत्यविक्रमः
विव्याध विवरे राजन्भारद्वाजं शिलीमुखैः
विध्वा विध्वा रणे द्रोणं सिंहनादं विमुञ्चति
तं वै न ममृषे द्रोणस्सिंहनादं महात्मनः
ततश्शक्तिं रणे द्रोणो रुक्मदण्डामयस्मयीम्
तरसा प्रेषयामास माधवस्य रथं प्रति
अनासाद्य तु शैनेयं सा शक्तिः कालचोदता
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्
मुमोह सारथिस्तस्य रथशक्त्या समाहतः
स रथोपस्थमास्थाय मुहूर्तं समलीयत
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम्
ततश्शरशतेनैव युयुधानो महारथः
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते
तस्य द्रोणश्शरान्पञ्च प्रेषयामास भारत
ते तस्य कवचं भित्त्वा पपुश्शोणितमाहवे
निर्विद्धस्स शरैर्घोरैरयुयुधानश्चुकोप ह
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि
अश्वानद्रावयद्बाणैर्हतसूतान्महात्मनः
स रथो व्यचरत्सङ्ख्ये मण्डलानि सहस्रशः
शुशुभे राजतो राजन्भ्राजमान इवांशुमान्
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत
इति स्म चुक्रुशुस्सर्वे राजपुत्रास्सराजकाः
ते सात्यकिमपास्याशु राजन्युधि महारथाः
यतो द्रोणस्ततस्सर्वे सहसा समुपाद्रवन्
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान्
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम्
व्यूहस्याथ पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः
वातायमानैस्तैरश्वैर्हृतो वार्ष्णेयपीडितैः
पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान्
शैनेये नाकरोद्यत्नं व्यूहमेव ररक्ष सः
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव
तस्थौ क्रोधाग्निसन्दीप्तः कालसूर्य इवोदितः
द्रोणं तु जित्वा पुरुषप्रवीरस्तथैव हार्दिक्यमुखांस्त्वदीयान्
प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुङ्गवाग्र्य
सात्यकिः-
निमित्तमात्रं वयमत्र सूत दग्धारयः केशवफल्गुनाभ्याम्
हतान्निहन्तास्मि किरीटमालिना ह्यहं सभिमस्सह पार्षतेन
सञ्जयः-
तमेवमुक्त्वा शिनिपुङ्गवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा
किरन्समन्तात्सशरान्बलीयसस्समापतच्छयेन इवामिषाशया
तं यान्तमश्वैश्शशिशङ्खवर्णैर्विगाहमानं पुरुषप्रवीरम्
नाशक्नुवन्धारयितुं समन्तादादित्यरश्मिप्रतिमं रथाग्र्यम्
असह्यविक्रान्तमशक्नुवंस्ते सर्वे गणा भारत सत्त्ववन्तम्
सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये
अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी
सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य
तयोरभूद्भारतसम्प्रहारः सुदारुणस्तं समतिप्रशंसन्
योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः
शरैस्सुतीक्ष्णैश्शतशोऽन्वविध्यत्सुदर्शनस्सात्वतमुग्रमाजौ
अनागतानेव च तान्पृषत्कांश्चिच्छेद भाणैश्शिनिपुङ्गवोऽपि
तथैव शक्रप्रतिमोऽपि सात्यकिस्सुदर्शनाय क्षिपति स्म सायकान्
द्विधा त्रिधा तानकरोत्सुदर्शनश्शरोत्तमैस्स्यन्दनवर्यविष्ठितः
सम्प्रेक्ष्य बाणान्निहतांस्तदानीं सुदर्शनस्सात्यकिबाणवेगैः
क्रोधाद्दिधक्षन्निव तिग्मतेजाश्शरानमुञ्चत्तपनीयपुङ्खान्
पुनस्स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैस्सुपुङ्खैः
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुश्शरीरम्
पुनश्च तस्यावनिपालपुत्रस्सन्धाय बाणैरपरैर्ज्वलद्भिः
आजघ्निवांस्तान्रजतप्रकाशांश्चतुर्भिरश्वांश्चतुरः प्रसह्य
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः
सुदर्शनस्येषुभिराशुकारी हयान्निहत्याशु ननाद नादान्
अथास्य सूतस्य शिरो निकृत्य भल्लेन वज्राशनिसन्निभेन
सुदर्शनस्यास्य शितेन वीरः क्षुरेण चिच्छेद शिरः प्रसह्य
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निपपात देहात्
यथा पुरा वज्रधरेण कृत्तं बलस्य शीर्षं महदुग्ररूपम्
निहत्य तं पार्थिवमुग्ररूपं सङ्ख्ये मधूनामृषभस्तरस्वी
मुदा महत्याऽभियुतो महात्मा महाहवे शक्र इवामरेशः
ततः प्रयातोऽर्जुनमेव वीरो निवार्य सैन्यं तव मार्गणौघैः
सदश्वयुक्तेन रथेन नृत्यल्ँलोकान्विसिष्मापयिषुर्नृवीरः
तत्तस्य ते विस्मापयनीयमग्र्यमपूजयन्योधवरास्त्वदीयाः
यान्वर्तमानानिषुगोचरेऽरीन्ददाह बाणैर्हुतभुग्यथैव