सञ्जयः-
सात्वतस्य रणे कर्म योद्धुं दृष्ट्वा महारथाः
अमृष्यमाणास्संयत्ताश्शैनेयं समुपाद्रवन्
ते किरन्तश्शरव्रातान्सर्वे यत्ताः प्रहारिणः
त्वरमाणा महाराज युयुधानमयोधयन्
तं द्रोणस्सप्तसप्तत्या जघान निशितैश्शरैः
दुर्मर्षणो द्वादशभिर्दुष्षहो दशभिश्शरैः
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः
विव्याध मार्गणैस्तूर्णं वामपार्श्वे स्तनान्तरे
दुर्मुखो दशभिर्बाणैस्तथा दुश्शासनोऽष्टभिः
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष
दुर्योधनश्च महता शरवर्षेण माधवम्
अपीडयन्रणे राजञ्शूराश्चान्ये महारथाः
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः
स तुद्यमानश्च तदा सर्वतः कुरुपुङ्गवैः
तान्प्रत्यविध्यद्वार्ष्णेयः पृथक्पृथगजिह्मगैः
सात्यकिः पुण्डरीकाक्षो ह्यस्त्रेषु परिनिष्ठितः
भारद्वाजं त्रिभिर्बाणैर्दुष्षहं दशभिश्शरैः
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः
दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम्
सत्यव्रतं च दशभिर्विजयं दशभिश्शरैः
दुर्योधनं त्रिभिर्विद्ध्वा सुपुङ्खैस्तिग्मतेजनैः
ततो रुक्माङ्गदं चापं विधून्वानो महारथः
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम्
राजानं सर्वलोकस्य सर्वलोकमहारथः
शरैरभ्यहनद्गाढं ततो युद्धमभूत्तयोः
विमुञ्चन्तौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान्
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा
सात्वतस्य च बाणौघैर्निर्विद्धस्तनयस्तव
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्
निर्भिन्नस्तु शरैस्तेन द्विषता क्षिप्रकारिणा
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम्
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्
विव्याध सात्यकिं तूर्णं सायकानां शतेन वै
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना
अमर्षवशमापन्नस्तव पुत्रमपीडयत्
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः
सात्त्वतं शरवर्षेण छादयामासुरञ्जसा
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्
नागं मणिमयं चैव शरैर्ध्वजमपातयत्
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैश्शरैः
सारथिं पातयामास क्षुरप्रेण महायशाः
एतस्मिन्नन्तरे वीरः कुरुराजं महाबलम्
अवारिकच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः
स वध्यमानस्समरे शैनेयस्य शरोत्तमैः
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः
हाहाभूतं जगत्सर्वं दृष्ट्वा राजानमाहवे
ग्रस्यमानं सात्त्वतेन राहुणेव निशाकरम्
तं तु शब्दं ततश्श्रुत्वा कृतवर्मा महारथः
अापतत्सहसा तत्र यत्रस्थो माधवः प्रभुः
विधून्वानो धनुश्श्रेष्ठं चोदयानश्च वाजिनः
भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम्
युयुधानो महाराज यन्तारमिदमब्रवीत्
सात्यकिः-
कृतवर्मा रथेनैष द्रुतमायाति मां वशी
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्
प्रयाहि सत्वरं सूत रथेन रथसत्तमम्
निहनिष्यामि तं सङ्ख्ये वृष्णिवीरमरिन्दमम्
सञ्जयः-
ततः प्रजविताश्वेन रथेन रथिनां वरः
आससाद रणे राजन् प्रतिमानं धनुष्मताम्
ततो गभस्तिमत्प्रख्यौ ज्वलिताविव पावकौ
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत्
निशितैस्सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः
चतुरश्च हयोदारांश्चतुर्भिस्सायकोत्तमैः
अविध्यत्साधु दान्तान्वै सैन्धवान्सात्वतस्य च
रुक्मध्वजो रुक्मपृष्ठं महद्विष्फार्य कार्मुकम्
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खैरवाकिरत्
ततोऽशीत्या शिनेः पौत्रः प्राहरत्कृतवर्मणे
त्वरिस्त्वरया युक्तो द्रष्टुकामो धनञ्जयम्
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
समकम्पत दुर्धर्षः क्षितिकम्पे यथाऽचलः
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिस्सारथिं शरैः
विव्याध निशितैर्बाणैस्सात्यकिः कृतवर्मणः
हताश्वसूते तु रथे स्थिताय शिनिपुङ्गवः
सुवर्णपुङ्खं विशिखं समादाय व्यपासृजत्
स भूयश्च महाघोरं सङ्क्रुद्धमिव पन्नगम्
प्रैषत्सात्यको बाणं हार्दिक्याय नरर्षभः
सोऽविशत्कृतवर्माणं यमदण्डोपमश्शरः
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत्
अगात्स दारयन्भूमिं रुधिरेण समुक्षितः
सञ्जातरुधिरोत्पीडस्सात्वतेनाभिपीडितः
प्रचलं धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे
स सिंहदंष्ट्रो जानुभ्यां संसन्नोऽमितविक्रमः
शरार्दितस्सात्यकिना रथोपस्थे नरर्षभः
सहस्रबाहोस्सदृशमक्षोभ्यमिव सागरम्
निवार्य कृतवर्माणं सात्यकिः प्रययौ बहिः
दिदृक्षुस्स हि वेगेन प्रायाद्यत्र धनञ्जयः
स शक्त्या क्षत्रियैस्तत्र निरुद्धो बलवत्तरः
युयुधे सात्वतो राजन्दिदृक्षुः पाण्डुनन्दनम्
खड्गशक्तिधनुःकीर्णां हताश्वरथकुञ्जराम्
प्रवृत्तरुधिरस्रोतां शतशः क्षत्रियर्षभैः
पश्यतां सर्वसैन्यानां शैनेयश्सत्रुकर्शनः
अत्यगाद्वाहिनीं भित्वा वृत्रहेवासुरीं चमूम्
समाश्वस्य हि हार्दिक्यो गृहीत्वाऽयन्महद्धनुः
तस्थौ तत्रैव समरे वारयानस्स पाण्डवान्