धृतराष्ट्रः-
एवं बहुगुणं सैन्यमेवं प्रविचितं बलम्
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय
नित्यं पूजितमस्माभिरभिकामं च नस्सदा
प्रौढमत्यद्भुताकारं पुरस्ताद्दृष्टविक्रमम्
नातिवृद्वमबालं च न कृशं न च पीवरम्
लघुवृत्तायतप्रायं सारयोधसमन्वितम्
आत्तसन्नाहसम्पन्नं बहुशस्त्रपरिग्रहम्
अस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्
आरोहे पर्यवस्कन्दे सरणे सोत्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्
चर्मनिस्त्रिंशयुद्धे च नियुद्धे च विशारदम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
न गोष्ठ्या नोपकारेण न सम्बन्धनिमित्ततः
नानाभृतं नान्यभृतं मम सैन्यं बभूव ह
कुलीनाभिजनोपेतं तुष्टपुष्टमनुद्धतम्
कृतमानोपचारं च यशस्वि च मनस्वि च
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः
लोकपालोपमैस्तात पालितं नरसत्तमैः
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः
अस्मानभिसृतैः कामात्सबलैस्सपदानुगैः
महोदधिमिवापूर्णमापगाभिस्समन्ततः
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम्
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरव्रातझषाकुलम्
ध्वजाग्रमणिसम्बाधं रत्नपट्टसुसंवृतम्
वाहनैः परिधावद्भिर्वायुवेगैर्विकल्पितम्
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम्
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे
सञ्जयैकरथेनैव युयुधाने च मामकम्
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि
सात्वते च रथोदारे मम सैन्यस्य सञ्जय
तौ तत्र समतिक्रान्तौ दृष्ट्वा वीरौ तरस्विनौ
सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्यैव गोचरम्
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः
दारुणैकायने काले कथं वा प्रतिपेदिरे
ग्रस्तान्हि कौरवान्मन्ये मृत्युना चाभिसङ्गतान्
विक्रमोऽपि रणे तेषां न तथा दृश्यतेऽद्य वै
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ
न च वारयिता कश्चिन्मम सैन्येऽस्ति सञ्जय
मृताश्च बहवो योधाः परीक्ष्यैव तु सञ्जय
वेतनेन यथायोगं प्रियवादेन चापरे
अकारणभृतस्तत्र मम सैन्ये न विद्यते
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्
न च योद्धाऽभवत्कश्चिन्मम सैन्येषु सञ्जय
अल्पदानभृतस्तात न कोऽप्यभृतकोऽपि वा
पूजितो हि यथाशक्त्या दानमानासनैर्मया
तथा पुत्रैश्च मे तात ज्ञातिभिश्च तथैव च
ते चावाप्य च सङ्ग्रामे निर्जितास्सव्यसाचिना
शैनेयेन च सम्मृष्टाः किमन्यद्भागधेयतः
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः
एकस्साधारणः पन्था रक्ष्येण सह रक्षिणाम्
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतस्स्थितम्
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत
सर्वशक्त्याऽधिकौ सेनां प्रविष्टौ रथिसत्तमौ
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः
दृष्ट्वा तु कृष्णं वार्ष्णेयमर्जुनार्थे व्यवस्थितम्
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च
द्रवतस्तु कुरून्दृष्ट्वा मन्ये शोचन्ति पुत्रकाः
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये
पलायनकृतोत्साहान्मन्ये शोचन्ति पुत्रकाः
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च
हतांश्च योधान्सन्दृश्य मन्ये शोचन्ति पुत्रकाः
व्यश्वनागरथान्दृष्ट्वा तत्र धीरान्सहस्रशः
धावतश्च रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः
विवीरांश्च रथेभाश्वान्विरथांश्च कृतान्नरान्
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः
द्रोणस्य समतिक्रान्तावनीकमपराजितौ
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः
सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाक्षतौ
ततः प्रविष्टे पृतनां शिनीनां प्रवरे रथे
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः
तथा द्रोणेन सहसा निगृहीतेषु पाण्डुषु
कथं युद्धमभूत्तेषा तन्ममाचक्ष्व सञ्जय
द्रोणो हि बलवान्श्रेष्ठः कृतास्त्रो दृढविक्रमः
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे
बद्धवैरास्तथा द्रोणे धनञ्जयवधैषिणः
भारद्वाजस्तथा तेषु दृढवैरो महाबलः
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय
सञ्जयः-
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्
सर्वलोकस्य तत्त्वज्ञस्सर्वलोकगुरुः प्रभुः
आर्तप्रलापांश्च बहून्मनुजाधिप सत्तम
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम्
शृणु युद्धं यथावृत्तं घोरं देवासुरोपमम्
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान्
दधारैको रणे पाण्डून्कृतवर्मा महारथः
यथोद्वृत्तं वारयते वेलेव सलिलार्णवम्
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यस्समवारयत्
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम्
यदेनं सहिताः पार्था नातिक्रामंस्तु संयुगे
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः
प्रदध्मौ वारिजं तत्र हर्षयन्सर्वपाण्डवान्
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः
नकुलस्तु शतेनैव हार्दिक्यं विव्यधुश्शरैः
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः
धृष्टद्युम्नस्त्रिभिर्बाणैः कृतवर्माणमर्पयत्
विराटः पञ्चदशभिर्द्रुपदश्चैव पञ्चभिः
शिखण्डी चैव हार्दिक्यं भित्त्वा पञ्चभिरायसैः
पुनर्विव्याध विंशत्या सायकानां हसन्निव
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान्
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध पञ्चभिः
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत्
अथैनं छिन्नधन्वानं त्वरमाणो महारथः
आजघानोरसि क्रुद्धस्सप्तत्या निशितैश्शरैः
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः
प्रचचाल रथोपस्थे क्षितिकम्पे यथाऽचलः
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः
विसृजन्तश्शरान्घोरान्कृतवर्माणमार्दयन्
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष
विव्यधुस्सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे
प्रतिलभ्य ततस्सञ्ज्ञां भीमसेनो महाबलः
शक्तिं जग्राह समरे स्वर्णदण्डामयस्मयीम्
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा
कृतवर्माणमभितः प्रज्वलन्ती ह्युपाद्रवत्
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त त्रिधा तदा
सा छिन्ना सहसा भूमौ शक्तिः कनकभूषणा
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम्
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत्
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन संयुगे
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाङ्कणे
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं त्वरान्वितः
आहत्य रभसो युद्धे तान्सर्वान्प्रत्यविध्यत
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्
तेऽपि तं प्रत्यविध्यन्त सप्तभिस्सप्तभिश्शरैः
शिखण्डिनः क्षुरप्रेण धनुश्छित्त्वा महारथः
पुनर्विव्याध समरे प्रहसन्निव सात्वतः
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम्
असिं जग्राह समरे शतचन्द्रं च भास्वरम्
भ्रामयित्वा ततश्चर्म चामीकरविभूषितम्
तमसिं प्रेषयामास कृतवर्मरथं प्रति
स तस्य सशरं चापं छित्त्वा राजन्महानसिः
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात्
एतस्मिन्नेव काले तु त्वरमाणा महारथाः
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च
धनुरन्यत्समादाय शिखण्डी तु महायशाः
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम्
ततः क्रुद्धो महाराज हृदिकस्यात्मसम्भवः
अभिदुद्राव वेगेन याज्ञसेनिं महारथम्
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः
विदर्शयन्बलं घोरं शार्दूल इव कुञ्जरम्
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ
समासदेतुरन्योन्यं शरसङ्घैररिन्दमौ
विधुन्वानौ धनुश्श्रेष्ठे सन्दधानौ च सायकान्
विसृजन्तौ च शतधा गभस्तीनिव भास्करौ
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव
कृतवर्मा सरभसं याज्ञसेनिं महारथम्
विद्ध्वेषुभिस्त्रिसप्तत्या पुनर्विव्याध सप्तभिः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
विसृज्य सशरं चापं मूर्च्छया च परिप्लुतः
तं विषण्णं रणे दृष्ट्वा तावका पुरुषर्षभ
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्
अपोवाह रणाद्यन्ता त्वरमाणो महारथम्
सादितं तु रथोपस्थे तत्र दृष्ट्वा शिखण्डिनम्
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
यदेकस्समरे पार्थान्वारयामास संयुगे
पार्थाञ्जित्वाऽजयच्चेदीन्पाञ्चालान्सृञ्जयानपि
केकयांश्च महावीर्यान्कृतवर्मा महारथः
ते वध्यमानास्समरे हार्दिक्येन स्म पाण्डवाः
इतश्चेतश्च धावन्तो न हि जग्मुर्धृतिं क्वचित्
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान्
हार्दिक्यस्समरेऽतिष्ठद्विधूम इव पावकः
ते द्राव्यमाणास्समरे हार्दिक्येन महारथाः
विमुखास्समपद्यन्त शरवृष्टिभिराहताः