सञ्जयः-
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया
धर्मराजो महाराज स्वेनानीकेन संवृतः
प्रायाद्द्रोणरथप्रेक्षी युयुधानस्य पृष्ठतः
ततः पाञ्चालराजस्य पुत्रस्सङ्ग्रामदुर्मदः
प्रयाते माधवे राजन्निदं वचनमब्रवीत्
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः
वसुदामा-
आगच्छत प्रहरत द्रुतं विपरिधावत
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः
महारथा हि बहवो यतिष्यन्तेऽस्य निर्जये
सञ्जयः-
सेनापतिवचश्श्रुत्वा पाण्डवेयास्समन्ततः
अभ्युद्ययुर्महाराज तव सैन्यं समन्ततः
जहि प्रहर गृह्णीहि विध्य विद्रावयाद्रव
इति ब्रुवन्तो वेगेन समासेदुर्बलं तव
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः
युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः
ततश्शब्दो महानासीद्युयुधानरथं प्रति
प्रकम्पमाना महती तव पुत्रस्य वाहिनी
सात्वतेन महाराज शतधाऽभिव्यदीर्यत
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः
सप्तवीरान्महेष्वासानग्रानीकेष्वपोथयत्
ते जिता मृद्यमानाश्च प्रकृष्टा दीर्घबाहुना
आयोधनं जहुर्वीरा दृष्टा तमतिमानिनम्
रथैर्विमथिताक्षैश्च भग्नयन्त्रैश्च मारिष
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः
अनुकर्षैः पताकाभिश्शिरस्त्राणैस्सकुण्डलैः
बाहुभिश्चन्दनादिग्धैस्सकेयूरैर्विशां पते
हस्तिहस्तोपमैश्चापि भुजगाभोगसन्निभैः
ऊरुभिः पृथिवी च्छन्ना नराणां पृथिवीपते
शशाङ्कसदृशाकारैश्शिरोभिश्चारुकुण्डलैः
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी
गजैश्च बहुधा छिन्नैश्शयानैः पर्वतोपमैः
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः
उरश्छदैर्विचित्रैश्च व्यरोचन्त तुरङ्गमाः
गतसत्वा महीं प्राप्ताः प्रमृष्टा दीर्घबाहुना
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं तव
ततस्तेनैव मार्गेण येन यातो धनञ्जयः
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः
भारद्वाजं समासाद्य युयुधानस्तु मारिष
नात्यवर्तत संरुद्धो वेलामिव जलाशयः
निगृह्य तु रणे द्रोणो युयुधानं महारथम्
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः
रुक्मपुङ्खैश्शिलाधौतैः कङ्कबर्हिणवाजितैः
तं षड्भिस्सायकैर्द्रोणस्साश्वयन्तारमार्दयत्
स तं न ममृषे द्रोणं युयुधानो महारथः
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः
दशभिस्सप्तभिश्चान्यैष्षड्भिरष्टाभिरेव च
युयुधानः पुनर्द्रोणं विव्याध दशभिश्शरैः
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्
ध्वजमेकेन बाणेन युधि विव्याध मारिष
तं द्रोणस्साश्वयन्तारं सरथध्वजमाशुगैः
त्वरन्प्राच्छादयद्बाणैश्शलभानामिव व्रजैः
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः
प्राच्छादयदसम्भ्रान्तस्त्वरमाणो महारथः
द्रोणस्तु परमक्रुद्धस्सात्यकिं परवीरहा
अवाकिरच्छितैर्बाणैर्वासुदेवपराक्रमम्
तं तथा शरजालेन प्रच्छाद्य महता पुनः
द्रोणः प्रहस्य शैनेयमिदं वचनमब्रवीत्
द्रोणः-
तवाचार्यो रणं हित्वा यातः कापुरुषो यथा
योधयन्तं हि हित्वाऽसौ मां प्रदक्षिणतो बली
त्वं हि मे युध्यमानस्य जीवन्सत्यक मोक्ष्यसे
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्
सात्यकिः-
धनञ्जयस्य पदवीं धर्मराजस्य शासनात्
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्
सञ्जयः-
एवमुक्त्वा तु शैनेय आचार्यं परिवर्जयन्
प्रयातस्सहसा राजन्सारथिं चेदमब्रवीत्
सात्यकिः-
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे
यत्तो याहि रणे सूत शृणु चेदं वचोऽपरम्
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्
अभेद्यमरिभिर्वीरैस्सुमहद्भिर्महद्बलम्
अस्यानन्तरतद्बाह्लीकानां महद्बलम्
तदनन्तरमेवैतद्दाक्षिणात्यं महद्बलम्
बाह्लिकाभ्याशसंयुक्तं कर्णस्यापि महद्बलम्
अन्योन्येन च सैन्यानि भिन्नान्येतानि सारथे
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्
मध्यमं जवमास्थाय वह मामत्र सारथे
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः
दाक्षिणात्याश्च बहवस्सूतपुत्रपुरोगमाः
हस्त्यश्वरथसम्बाधं यत्रानीकं विलोक्यते
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्
ततश्शक्यो महाव्यूहो भेत्तुं स सहसा रणे
तं देशं त्वरिता यामो मृद्नन्तो युधि शात्रवान्
तत्रैते सम्प्रहृष्टत्वान्नास्मान्प्रति युयुत्सवः
अयुध्यमानो बहुभिरेकं प्राप्य सुदुर्बलम्
बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम्
सव्यतो याहि यत्रोग्रं कर्णस्य सुमहद्बलम्
यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः
एतान्विजित्य सङ्ग्रामे ततो यामो धनञ्जयम्
सञ्जयः-
युयुधानवचश्श्रुत्वा युयुधानस्य सारथिः
यथोक्तमगमद्राजन्वर्जयन्द्रोणमाहवे
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशितान्शरान्
युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम्
स च सैन्यं महद्भित्त्वा दाक्षिणात्यबलं च तत्
कर्णस्य सैन्यं सुमहदभिहत्य शितैश्शरैः
प्राविशन्महतीं सेनामपर्यन्तां स सात्यकिः
सात्यको हि ततस्सैन्यं द्रावयन्स समन्ततः
विद्रुते तु बले तस्मिन् भग्ने भारत भारते
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्
तमापतन्तं विशिखैष्षड्भिराहत्य सात्यकिः
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्
ततः पुनष्षोडशभिर्नतपर्वभिराशुगैः
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः
सात्वतेन महाराज कृतवर्मा न चक्षमे
स वत्सदन्तं सन्धाय जिह्मगानलसन्निभम्
आयम्य राजन्नाकर्णं विव्याधोरसि सात्यकिम्
स तस्य देहावरणं भित्त्वा देहं च सायकेः
स पत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः
अथास्य बहुभिर्बाणैराच्छिनत्परमास्त्रवित्
स मार्गणगणं चापं कृतवर्मा महारथः
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमः
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धस्स्तनान्तरे
ततः प्रकीर्णे धनुषि शक्त्या शक्तिमतां वरः
अभ्यघ्नद्दक्षिणं बाहुं सात्यकिः कृतवर्मणः
ततोऽन्यत्सुदृढं वीरो धनुरादाय वीर्यवान्
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः
सरथं कृतवर्माणं सायकैः पर्यवाकिरत्
छादयित्वा रणे राजन्हार्दिक्यं तु स सात्यकिः
अथास्य भल्लेन शिरस्सारथेस्समकृन्तत
स पपात हतस्सूतो हार्दिक्यस्य महारथात्
ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम्
अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम्
तस्थौ शरधनुष्पाणिस्तत्सैन्यं प्रत्यपूजयत्
स मुहूर्तमिवाश्वास्य सदश्वानभ्यचूचुदत्
व्यपेतभीरमित्राणामादधत्सुमहद्भयम्
सात्यकिं नाभ्ययात्तस्मात्स तु भीममुपाद्रवत्
युयुधानोऽपि राजेन्द्र भोजानीकमतिक्रमन्
प्रययौ त्वरितस्तूर्णं काम्भोजानां महाचमूम्
स तत्र बहुभिश्शूरैस्सन्निरुद्धो महारथैः
न चचाल महाराज सात्यकिस्सत्यविक्रमः
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः
न्यवारयन्त सङ्क्रुद्धाः पाञ्चाला वै बृहत्तमाः
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा
यतमानांस्तु तान्सर्वान्द्विषतो गतचेतसः
अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत्
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे
अतिष्ठन्नाहवे वीराः प्रतीप्सन्तो महद्यशः
हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम्