सञ्जयः-
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः
पार्थाच्च भयमाशंसन्परित्यागान्महीपतेः
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः
न मां भीत इति ब्रूयात्प्रयान्तं फल्गुनं प्रति
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः
नातिव्यक्तमिवाभाष्य धर्मराजं महायशाः
शोकगद्गदया वाचा शोकोपहतचेतनः
यथेदानीमिति ध्यात्वा धर्मराजमथाब्रवीत्
सात्यकिः-
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते
यो मे प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर
तथा तवापि वचनं विशिष्टतरमेव मे
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ
तयोः प्रिये स्थितं चैव विद्धि मां राजसत्तम
त्वदाज्ञां शिरसाऽऽदाय पाण्डवार्थमहं प्रभो
भेत्स्यामि दुर्भिदं सैन्यं प्रयास्ये राजसत्तम
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्
तत्र यामि च यत्रासौ राजन्राजा जयद्रथः
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात्
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः
इतिस्त्रियोजनं मन्ये तमध्वानं विशां पते
यत्र तिष्ठति बीभत्सुर्जयद्रथवधोद्यतः
त्रियोजनगतस्यापि तत्र यास्याम्यहं पदम्
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः
आदिष्टश्च त्वया राजन्को न युध्येत मादृशः
अभिजानामि तं देशमितः पूर्णं त्रियोजनम्
यत्र तिष्ठति राजाऽसौ सैन्धवो बालघातकः
सागरप्रतिमं सैन्यं गर्जन्तमिव सागरम्
हुलशक्तिरथप्रासगदाशक्त्यष्टितोमरम्
इष्वासवरसम्बाधं क्षोभयित्वा व्रजाम्यहम्
यदेतत्कुञ्जरानीकं सहस्रमनुपश्यसि
कुलमाञ्जनकं नाम मत्ता हैमवतास्स्थिताः
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः
नागा नगनिभाश्चैव क्षरन्त इव तोयदाः
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः
अथ यान्रथिनो राजन्समन्तादनुपश्यसि
एते रुक्मरथा नाम राजपुत्रा महारथाः
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा
खड्गप्रहरणे युक्तास्सम्पाते चासिचर्मणोः
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्
नित्यं हि समरे राजन्जिगीषन्तो रणे स्थिताः
कर्णेन विहिता राजन्दुश्शासनमनुव्रताः
एतानेव रथोदारान् वासुदेवः प्रशंसति
सततं प्रियकामा हि कर्णस्यैते वशे स्थिताः
तस्यैव वचनाद्राजन्निवृत्ताश्श्वेतवाहनात्
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात्
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानिह
प्रेक्षसे वर्मसञ्छन्नान्किरातैस्समधिष्ठितान्
किरातराजो यान्प्रादाद्गृहीतस्सव्यसाचिना
अलङ्कृत्य तदा प्रेष्यानिच्छञ्जीवितमात्मनः
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्
एषामेते महावीर्याः किराता युद्धदुर्मदाः
हस्तिशिक्षावदाताश्च सर्वे चैवाग्नियोनयः
एते विनिर्जितास्सर्वे सङ्ग्रामे सव्यसाचिना
मदर्थं युध्यता यत्तास्सुयोधनवशे स्थिताः
एतान्हत्वा शरै राजन्किरातान्युद्धदुर्मदान्
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम्
एते हि सुमहानाग अञ्जनस्य कुलोद्भवाः
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः
जाम्बूनदमयैरेते भूषणैस्समलङ्कृताः
लब्धलक्षा रणे राजन्नैरावतसमा युधि
आस्थिता दस्युभिस्तीक्ष्णैश्शूरैरुत्तमपार्वतैः
कर्कशैः प्रवरैर्योधैः कांस्यायसतनुच्छदैः
सन्ति गोयोनयश्चात्र सन्ति वारणयोनयः
मक्षिकायोनयश्चान्ये तथा वानरयोनयः
अनीकमसतामेतद्धूमवर्णमुदीर्यते
म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम्
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम्
भीष्मं द्रोणं कृपं कर्णमावन्त्यमथ सैन्धवम्
द्रौणिं च सौमदत्तिं च पाण्डवानिति मन्यते
कृतार्थमथ चात्मानं मन्यते कालचोदितः
ते च सर्वे तु सम्प्राप्ता मम नाराचगोचरम्
न भविष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः
तेन सम्भाविता नित्यं परवीर्योपजीविना
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः
ये एते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः
एते दुर्वारणा नाम काम्भोजा यदि ते श्रुताः
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः
अक्षौहिण्यश्च संरब्धा धार्तराजाद्य भागशः
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः
तांस्त्वहं प्रतिधक्ष्यामि तृणानीव हुताशनः
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम्
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः
काम्भोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः
नानाशस्त्रसमावापैर्विविधान्तरभेदिभिः
किरातैश्च समेष्यामि विषकल्पप्रहारिभिः
पादातैस्सततं राजन्दुर्योधनहितैषिभिः
शकैश्चापि समेष्यामि शक्रतुल्यबलैस्सह
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः
तथाऽन्यैर्विविधैर्घोरैः कालकल्पैर्दुरासदैः
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः
त्रियोजनगतस्याहं पदवीं सव्यसाचिनः
यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम्
सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन्
अपराह्णं गते सूर्ये गमिष्यामि न संशयः
तस्मान्मे वाजिनो मुक्तान्विश्रान्ताश्च विचक्षणैः
उपावृत्तांश्च पीतांश्च पुनर्युञ्जन्तु मे रथे
सञ्जयः-
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च
रथे चास्थापयद्राजा शस्त्राणि विविधानि च
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः
रसवत्पाययामासुः पानं परमहर्षणम्
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान्
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः
तान्युक्तान्रूप्यवर्णाभान्विनीताञ्शीघ्रगामिनः
संहृष्टमनसो व्यग्रान्विधिवत्कल्पिते रथे
युक्ते ध्वजेन सिंहेन हेमकेसरमालिना
संवृते केतकैर्हैर्मैर्मणिविद्रुमचित्रितैः
पाण्डराभ्रप्रकाशाभिः पताकाभिरलङ्कृते
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे
योजयामास विधिवद्धेमभाण्डविभूषितान्
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियस्सखा
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः
ततस्स्नातश्शुचिर्भूत्वा कृतकौतुकमङ्गलः
स्नातकानां सहस्राणां प्रतिनिष्काण्यदापयत्
ततस्समधुपर्काम्भः पीत्वा कैरातकं मधु
लोहिताक्षो बभौ तत्र मदविह्वललोचनः
आलभ्य वीरः कांस्यं च हर्षेण महता वृतः
द्विगुणीकृततेजोभिः प्रज्वलन्निव पावकः
उत्सङ्गे धनुरादाय सशरं रथिनां वरः
आशीर्वादैः परिष्वक्तस्सात्यकिश्श्रीमतां वरः
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः
तेन मूर्धन्युपाघ्रातः कृतस्वस्त्ययनोऽपि च
आशिषो विपुलाश्श्रुत्वा धर्मराजमुखोद्गताः
हर्षेण महता युक्तस्त्वारुरोह रथोत्तमम्
ततस्ते वाजिनो हृष्टास्सुपुष्टा वातरंहसः
अाजानेया जैत्रमूहुर्विकुर्वाणाश्च सैन्धवाः
यथा शक्ररथं राजन्नूहुस्ते हरयः पुरा
तथैव भीमसेनोऽपि धर्मराजेन चोदितः
सत्यकेन सह प्रायादभिवाद्य युधिष्ठिरम्
सन्नद्धं त्वनुगच्छन्तं भीमं प्रेक्ष्य स सात्यकिः
अभिनन्द्याब्रवीद्वीरः प्रहर्षणमिदं वचः
सात्यकिः-
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्
आयत्यां च तदात्वे च श्रेयो राज्ञो हि रक्षणम्
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम्
सञ्जयः-
इत्युक्तस्सात्यकिं प्राह व्रज त्वं कार्यसिद्धये
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम
सात्यकिः-
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः
गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशमास्थितः
निमित्तानि च धन्यानि यथा भीम वदन्ति मे
निहते सैन्धवे पापे पाण्डवेन महात्मना
परिष्वजिष्ये राजानं धर्मात्मानं न संशयः
अप्रमादश्च ते कार्यो द्रोणं प्रति महारथम्
सञ्जयः-
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः
सम्प्रैक्षत्तावकं सैन्यं सिंहो मृगगणानिव
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप
भूय एवाभवन्मूढं असकृच्चाप्यकम्पत
ततः प्रयातस्सहसा तव सैन्यं स सात्यकिः
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात्