धृतराष्ट्रः-
भारद्वाजं कथं युद्धे युयुधानो व्यपोथयत्
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलमतीव मे
सञ्जयः-
शृणु राजन्महाश्चर्यं सङ्ग्रामं रोमहर्षणम्
द्रोणस्य पाण्डवैस्सार्धं युयुधानपुरोगमैः
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष
अभ्यद्रवत्स्वयं द्रोणस्सात्यकिं सत्यविक्रमम्
तमापतन्तं सहसा भारद्वाजं महारथम्
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितम्
अविष्यत्पञ्चभिस्तूर्णं हेमपुङ्खैश्शिलाशितैः
ते वर्म भित्त्वा सुदृढं द्विषद्रुधिरभोजनाः
अभ्ययुर्धरणीं राजन्वल्मीकमिव पन्नगाः
तं दीर्घबाहुस्सङ्क्रुद्धस्तोत्रार्दित इव द्विपः
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्
सात्यकिं नवभिर्बाणैर्यतमानमविध्यत
ततः क्रुद्धो महेष्वासो भूय एव महारथः
सात्वतं पीडयामास व्रातेन नतपर्वणाम्
स वध्यमानस्समरे भारद्वाजेन सात्यकिः
नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते
विषण्णवदनश्चापि युयुधानोऽभवन्नृप
भारद्वाजं रणे दृष्ट्वा विकिरन्तं शराञ्शितान्
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्
युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत
युधिष्ठिरः-
एष वृष्णिवरो वीरस्सात्यकिस्सत्यविक्रमः
ग्रस्यते युधि वीरेण आदित्य इव राहुणा
आगच्छताभिद्रवत सात्यकिर्यत्र युध्यते
सञ्जयः-
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः
युधिष्ठिरः-
द्रोणं वारय सुक्षिप्रं सात्यकिं मा वधीद्द्विजः
अभिद्रव द्रुतं द्रोणं किन्नु तिष्ठसि पार्षत
न पश्यसि भयं घोरं द्रोणान्नस्समुपस्थितम्
असौ द्रोणो महेष्वासो युयुधानेन संयुगे
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः
त्वं चापि तत्र संरब्धो युयुधानस्य कारणात्
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम्
सञ्जयः-
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डव
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात्
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम्
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम्
अतिथीनागतान्यद्वदासनेनोदकेन च
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः
आतिथेयं गृहं प्राप्य तर्प्यन्तेऽतिथयो यथा
भारद्वाजं च ते युद्धे नाशकन्प्रतिवीक्षितुम्
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो
तांस्तु सर्वान्महेष्वासान्द्रोणश्शस्त्रभृतां वरः
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान्
वध्यमाना रणे राजन्पाण्डवास्सृञ्जयास्तथा
त्रातारं नाध्यगच्छन्त पङ्के सन्ना यथा द्विपाः
तस्य द्रोणस्य दृश्यन्ते प्रभवन्तो महाशराः
गभस्तय इवार्कस्य प्रभवन्तस्समन्ततः
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः
महारथसमाख्याता धृष्टद्युम्नस्य सम्मताः
पाञ्चालेष्वथ शूरेषु केकयेषु च मानवाः
द्रोणं स्म ददृशुश्शूरं विनिघ्नन्तं वरान्वरान्
केकयानां शतं हत्वा विद्राव्य च समन्ततः
द्रोणस्तस्थौ महाराज व्यात्तानन इवान्तकः
पाञ्चालान्सृञ्जयान्मात्स्यान्केकयान्पाण्डवानपि
द्रोणोऽजयन्महाबाहुश्शतशोऽथ सहस्रशः
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः
वनौकसामिवारण्ये दह्यतां धूमकेतुना
देवादयः-
तत्र देवास्सगन्धर्वाः पितरश्चाब्रुवन्नृप
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च सकेकयाः
सञ्जयः-
तं तथा समरे द्रोणं निघ्नन्तं सायकै रणे
न चाप्यभिययुः केचिदपरे नैव विव्यधुः
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्स्वनम्
पूरिते वासुदेवेन शङ्खराजे महात्मना
युध्यमानेषु वीरेषु सैन्धवस्य च रक्षिषु
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति
गाण्डीवस्य च निर्घोषे विप्रनष्टे तथैव च
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः
न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट्
युधिष्ठिरः-
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः
व्यक्तमद्य विनश्यन्ति सर्वलोकमहारथाः
सञ्जयः-
श्रुत्वा तु निनदं घोरं पाञ्चजन्यस्य मारिष
चिन्तयित्वा भृशं राजा व्याकुलेनान्तरात्मना
अजताशत्रुश्शैनेयमभ्यभाषत सात्यकिम्
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम्
युधिष्ठिरः-
योऽयं धर्मः पुरा सृष्टस्सद्भिश्शैनेय शाश्वतः
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव
त्वत्तस्सुहृत्तमं कञ्चिन्नाभिजानामि सात्त्वत
प्रियः प्रीतमना नित्यं यश्च नित्यमनुव्रतः
स कार्ये साम्पराये वा नियोज्य इति मे मतिः
यथा हि केशवो नित्यं पाण्डवानां परायणम्
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः
त्वयि भारं समाधास्ये त्वयि तं वोढुमर्हसि
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे
कुरु कृच्छ्रे सहायार्थमर्जुनस्य महामृधे
त्वं हि सत्यव्रतश्शूरो मित्राणामभयङ्करः
लोके विख्यायसे शूर कर्मभिस्सत्यवागिति
यो हि शैनेय मित्रार्थे युध्यमानस्तनुं त्यजेत्
पृथिवीं च द्विजातिभ्यो यो दद्यात्सममेव तत्
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि
दीयमाना च बहुभिर्दास्यते च मुहुर्मही
न तु कश्चिद्रणे प्राणान्मित्रार्थे त्यक्तवानिह
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः
पृथिवीदानतस्तुल्यमधिकं वा फलं विभो
एक एव सदा कृष्णो मित्राणामभयङ्करः
रणे त्यजति च प्राणान्द्वितीयस्त्वं च सात्यके
शूरस्य युध्यमान्स्य युद्धात्प्रार्थयतो यशः
शूर एव सहायस्स्यान्नेतरः प्राकृतो जनः
ईदृशे हि परामर्दे वर्तमाने च माधव
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते
श्लाघयन्नेव कर्माणि विजस्तव माधव
मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत्
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः
प्राज्ञस्सर्वास्त्रविच्छूरो न च मुह्यति संयुगे
महोरस्को महास्कन्धो महाबाहुर्महाहनुः
महाबलो महावीर्यो महात्मा स महारथः
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे
सत्यकेन सहायेन प्रमथिष्याम्यहं कुरून्
अस्मदर्थं च राजेन्द्र सन्नह्येद्यदि केशवः
रामो वाऽप्यनिरुद्धो वा प्रद्युम्नो वा महारथः
गदो वा सारणो वाऽपि साम्बो वा सह वृष्णिभिः
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि
तथाऽप्येनं नरव्याघ्रं शैनेयं सत्यविक्रमम्
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्योहि तत्समः
इति द्वैतवने तात मामुवाच धनञ्जयः
परोक्षांस्त्वद्गुणांस्तथ्यान्कथयामास संसदि
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः
यच्चापि तीर्थं विचरन्नगच्छद्द्वारकां प्रति
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान्
तत्ते सौहार्दमस्मासु यथा शैनेय लक्षितम्
यथा त्वमस्मान्भजसे वर्तमानानुपद्रवे
सौहृदस्य च भक्तस्य सख्यस्याचार्यकस्य च
सम्भावनायाः पार्थस्य कुलीनत्वस्य माधव
सत्त्वस्य च महाबाहो अनुकम्पार्थमेव च
अनुरूपं महेष्वास कर्म कर्तुं त्वमर्हसि
सुयोधनो हि सहसा गतो द्रोणेन दंशितः
पूर्वमेव च यातास्ते कौरवाणां महारथाः
सुमहान्निनदश्चैव श्रूयते हि रणं प्रति
स शैनेय जवेनाशु गन्तुमर्हसि माधव
भीमसेनो वयं चैव समस्तास्सहसैनिकाः
द्रोणमावारयिष्यामो यदि त्वां प्रतियोत्स्यते
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे
महांश्च तुमुलश्शब्दो दीर्यमाणा च भारती
महावातसमुद्धूतस्समुद्र इव पर्वसु
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना
रथैश्च परिधावद्भिर्मनुष्यगजवाजिभिः
सैन्यं रजस्समुद्भूतमेतत्सम्प्रति दृश्यते
संवृतस्सिन्धुसौवीरैर्नखरप्रासयोधिभिः
अत्यन्तोपचितैश्शूरैः फल्गुनः परवीरहा
नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः
शरशक्तिध्वजवरं हयनागसमाकुलम्
पश्यैतद्धार्तराष्ट्राणामनीकं च दुरासदम्
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः
सादिनां द्रवतां शब्दं शृणु कम्पयतां महीम्
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः
बहुत्वं हि नरव्याघ्र देवेन्द्रमपि दूषयेत्
अपर्यन्ते बले मग्नः प्रजह्यादपि जीवितम्
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः
सर्वथा समनुप्राप्तस्स कृच्छ्रं बत जीवितुम्
अभ्रश्यामो गुडाकेशो दर्शनीयश्च पाण्डवः
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम्
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा
कुरूणां सुमहत्सैन्यं सागरप्रतिमं शुभम्
एक एव च बीभत्सुः प्रविष्टस्तत्र भारतीम्
अविषह्यां महावेगैस्सुरैरपि महामृधे
न च मे वर्तते बुद्धिर्युद्धेऽन्यत्र धनञ्जयात्
द्रोणो हि सहसा युद्धे मम पीडयते बलम्
प्रत्यक्षं ते महाबाहो यथा स चरति द्विजः
युगपत्समेतानां कार्याणां त्वं विचक्षणः
महार्थं लघुसंयुक्तमीहसे कच्चिदच्युत
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम्
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान्
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते
किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम्
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम्
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा रथाः
तादृशस्येदृशे काले मादृशैरभिनोदितः
सुहृदो वै सुहृत्कृत्ये परमास्थाय विक्रमम्
सुहृदः पदमन्विच्छन्न व्यधेत कथञ्चन
ननु सत्यक वृष्णीनां द्वावेवातिरथौ स्मृतौ
प्रद्युम्नश्च महाबाहुस्त्वं च सत्यक विश्रुतः
अस्त्रे नारायणसमस्सङ्कर्षणसमो बले
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि
भीष्मद्रोणावतिक्रान्तं सर्वयुद्धविशारदम्
त्वामद्य पुरुषास्सर्वे लोके नित्यं प्रचक्षते
सदेवासुरगन्धर्वान्सकिन्नरमहोरगान्
योधयेत्स जगत्सर्वं विजयेत रिपून्बहून्
इति ब्रुवन्ति लोकेषु जनास्तव गुणान्सदा
समागमेषु जल्पन्ति पृथगेव च सर्वदा
नासाध्यं विद्यते लोके सात्यकस्येति माधव
तत्त्वां यदिह वक्ष्यामि तत्कुरुष्व नरर्षभ
सम्भावना हि पार्थस्य मम भीमस्य चोभयोः
नान्यथा तन्महाबाहो सम्प्रकर्तुमिहार्हसि
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत्
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम्
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम्
एष भीरूगतो मार्गो नैव दाशार्हसेवितः
अर्जुनस्ते गुरुर्वृत्तो धर्मात्मा शिनिपुङ्गव
वासुदेवो गुरुश्चैव अर्जुनस्य तवैव च
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम्
माऽवमंस्था वचो मेऽद्य गुरोस्तव गुरोर्ह्यहम्
वासुदेवमतं चैतन्मम चैवार्जुनस्य च
व्यक्तं ब्रवीमि वार्ष्णेय याहि यत्र धनञ्जयः
एतद्वचनमास्थाय मम सत्यपराक्रम
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः
यथार्हमात्मनः कर्म रणे सात्वत दर्शय