सञ्जयः-
किरन्तं शरवर्षाणि रोषाद्द्रोणं महामृधे
वित्रासयन्तं तां सेनां कौन्तेयानां महीपते
दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान्भृशम्
घटोत्कचो महाबाहू रणायाभिजगाम ह
पिशाचवदनैर्युक्तं रथं काञ्चनभूषितम्
समास्थाय महाराज नानाप्रहरणैर्वृतम्
दंशितस्तपनीयेन कवचेन सुवर्चसा
भूषणैराचिताङ्गश्च नदन्निव च तोयदः
हैडिम्बेयस्सुसङ्क्रुद्धो द्रोणमभ्यद्रवद्बली
तमभ्यधावदायान्तं क्रुद्धरूपलम्बुसः
ऋक्षचर्मपरिक्षिप्तं रथमास्थाय दंशितः
रक्तोष्ठवदनः प्रांशुः कल्पवृक्ष इव स्थितः
क्षिपञ्छतघ्नीं विपुलां मुसलोपमतोमरान्
मुसुण्ठीर्बहुलाश्चैव त्रिशूलानपि पट्टसान्
कर्पराञ्छतधारांश्च पिनाकान्विविधांस्तथा
चक्राणि च क्षुरप्राणि क्षेपणीश्च कटङ्कटान्
नाराचान्विविधानस्यन्सकङ्कोलूकवायसान्
चिक्षेप धनुरादाय निनदन्भैरवान्रवान्
तं रौद्रं क्रूरमायान्तं दृष्ट्वा कालमिवागतम्
प्राद्रवद्भयसंविग्ना सा राजन्पाण्डुवाहिनी
सात्यकिस्तु रथव्याघ्रो दृष्ट्वा तं राक्षसं युधि
अभ्ययादमरप्रख्यो भ्रामयित्वा महद्धनुः
अभ्यद्रवच्च तद्रक्षस्तिष्ठतिष्ठेति चाब्रवीत्
अलम्बुसं राक्षसेन्द्रं सोऽस्त्रवर्षैरवाकिरत्
ततः पाण्डवसैन्यानि विद्रुतान्यथ भारत
निरीक्ष्याभ्यद्रवत्तूर्णं त्वरमाणो घटोत्कचः
चिक्षेप च गदाशक्तीस्तोमरानथ पट्टसान्
हेमचित्रत्सरूनुग्रान्खड्गानाकाशसप्रभान्
अन्योन्यमारादालोक्य राक्षसौ तौ महाबलौ
भैरवं नेदतुर्नादान्सतोयाविव तोयदौ
ततः प्रववृते युद्धं घोरं राक्षससिंहयोः
यादृगेव पुरा वृत्तं रामरावणयोर्मृधे
स शक्तीश्च पिनाकांश्च वज्रान्खड्गान्परश्वथान्
अन्योन्यमभिसङ्क्रुद्धौ तदा व्यसृजतामुभौ
आकृष्यमाणे धनुषि तयोर्बाहुबलेन च
यन्त्रेणेव तदा राजन्भृशं नादान्प्रचक्रतुः
अलम्बुसस्ततश्चक्रं कृतान्तज्वलनप्रभम्
घटोत्कचाय चिक्षेप यत्नमास्थाय वीर्यवान्
तद्भैमसेनिस्सम्प्रेक्ष्य चक्रं वेगवदन्तरे
गदया ताडयामास तद्दीर्णं शतधाऽभवत्
ततोऽग्निचूर्णैस्सहसा चक्रघातविनिस्सृतैः
दंशकैरिव सा सेना पतद्भिर्भृशसङ्कुला
ततः प्रतिहते चक्रे स वीरो रोषसङ्कुलः
प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा
ज्वलन्तीश्च किरन्तीश्च ज्वालामालास्समन्ततः
युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः
ताश्चापतन्तीस्सम्प्रेक्ष्य राक्षसस्य घटोत्कचः
अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः
शरवर्षं महाघोरं घटोत्कचरथं प्रति
तयोरप्रतिमं युद्धमासीद्राक्षससिंहयोः
मुञ्चतोर्विविधा मायाश्शक्रशम्बरयोरिव
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः
तथैव राक्षसो राजन्हैडिम्बिं युद्धदुर्मदम्
विद्ध्वा विद्ध्वाऽनदद्धृष्टः पूरयन्खं समन्ततः
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ
निर्विशेषमयुध्येतां मायाभिरितरेतरम्
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम्
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्
यां यां घटोत्कचो मायां माययाऽदर्शयद्युधि
तां तामलम्बुसो राजन्माययैवाभिजघ्निवान्
तं तथा युध्यमानं तु मायायुद्धविशारदम्
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः
तत एनं भृशं क्रुद्धास्सर्वतः परिवारिताः
अभ्यद्रवन्त संरब्धा भीमसेनादयो नृप
त एनं कोष्ठकीकृत्य रथवंशेन मारिष
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः
स विष्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम्
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च पञ्चभिः
नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं चकार ह
तं भीमसेनो नवभिस्सहदेवश्च पञ्चभिः
युधिष्ठिरश्शतेनैव राक्षसं प्रत्यविध्यत
नकुलश्च चतुष्षष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः
पुनर्विव्याध सप्तत्या ननाद च महाबलः
सोऽतिविद्धो महेष्वासैस्सर्वतस्तैर्महारथैः
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिश्शरैः
सङ्क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः
हैडिम्बो राक्षसश्रेष्ठश्शरैर्विव्याध सप्तभिः
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः
व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान्
ते शरा नतपर्वाणो भैमसेनिं विनिर्भिदुः
रुषिताः पन्नगा यद्वद्योधमुख्यान्महाबलान्
ततस्ते पाण्डवा राजन्समन्तान्निशितषश्शरैः
छादयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः
स विध्यमानस्समरे पाण्डवैर्जितकाशिभिः
नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः
घटोत्कचं महाराज शरवर्षैरवाकिरत्
दग्धाद्रिकूटसदृशं तमञ्जनचयोपमम्
घटोत्कचोऽप्यसम्भ्रान्तश्शरवर्षं महत्तरम्
अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन्
अलम्बुसवधाच्चोग्राद्घटोत्कचरथादपि
शराः प्रादुर्भवन्ति स्म द्विरेफा इव खादिशः
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर
न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः
अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः
अक्षमीषां युगं चैव चिच्छेद युधि ताडयन्
अवस्कन्द्य रथात्तूर्णं कैम्भीरिः क्रोधमूर्च्छितः
तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य सममेव च
मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसो दृढम्
अन्तर्हितो महाराज घटोत्कचमयोधयत्
अन्तर्धानगतं दृष्ट्वा तत्र तत्र घटोत्कचः
गदया ताडयामास वेगवत्या महाबलः
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः
अलम्बुसो राक्षसेन्द्रस्सहसा पक्षिराडिव
घटोत्कचोऽप्यसम्भ्रान्तः खड्गपाणिरथोत्पतत्
ततो वेगेन महता विवर्षिषुरिवाम्बुदः
तमापतन्तं सम्प्रेक्ष्य कैम्मीरी राक्षसोत्तमः
अभिदुद्राव वेगेन सिंहस्सिंहमिव स्थितम्
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा
अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ
अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः
शैलेनाभिहतस्येव शैलस्याभून्महास्वनः
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम्
चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः
वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव
ततस्सैन्यानि ददृशुस्तद्युद्धमतिदारुणम्
युद्धं तयो राक्षसयोरामिषे श्येनयोरिव
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ
तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः
उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ
ततो भ्राम्य तु तं खड्गं पाण्योः किम्मीरनन्दनः
चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि
पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम्
शीर्षाघातांसघातैश्च परस्परमथाहतौ
पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि
बललाघवसम्पन्नस्सम्पन्नो विक्रमेण च
भैमसेनिरथ क्रुद्धस्सर्वसैन्यस्य पश्यतः
असृक्क्षरितसर्वाङ्गश्चूर्णितास्थिविभूषणः
घटोत्कचेन निष्पिष्टो हतस्सालकटङ्कटः
पाण्डवानां ततस्सेना तं दृष्ट्वा विनिपातितम्
ननाद सुमहानादं हर्षवेगसमाप्लुता
ततस्तु निपपाताशु गतासुर्भुवि राक्षसः
शिखरं पर्वतस्येव वज्रवेगेन पातितम्
पतता तेन महता रथिनां दन्तिनां दश
तव सैन्ये महाराज निहतास्सुबृहत्तया
ततो घटोत्कचो हत्वा तद्रक्षो वृत्रसन्निभम्
पुनस्स रथमास्थाय विजिगीषुर्ननाद ह
ततस्सुमनसः पार्था हते तस्मिन्निशाचरे
चुक्रुशुस्सिंहनादांश्च वासांस्यादुधुवुश्च ह
तावकास्तु हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम्
हाहाकारमकुर्वन्त सैन्यानि च विशां पते
जनाश्चैनं ददृशिरे रक्षः कौतूहलान्विताः
यदृच्छया निपतितं भूमावङ्गारकं यथा
घटोत्कचस्तु तं हत्वा रक्षो बलवतां वरः
मुमोद बलवद्राजन्बलं हत्वेव वासवः
स पूज्यमानः पितृभिस्सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते
रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुसं पक्वमलम्बुसं यथा
ततो निनादस्सुमहान्समुत्थितस्सशङ्खनानाविधघोषनादवान्
निशम्य तं प्रत्यनदंस्तु कौरवास्ततो ध्वनिर्भुवनमनादयद्भृशम्
ततोऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम्
स्वकर्मावेदयन्मूर्ध्ना प्राञ्जलिर्निपपात ह
मूर्ध्न्युपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः
प्रीतोऽस्मीत्यब्रवीद्राजन्हर्षादुत्फुल्ललोचनः
घटोत्कचेन निष्पिष्टे हते सालकटङ्कटे
बभूवुर्मुदितास्सर्वे हते तस्मिन्निशाचरे