सञ्जयः-
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम्
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वभिः
आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च
अथैनं छिन्नधन्वानं शितेन नतपर्वणा
विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम्
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव
व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम्
ततोऽपरेण भल्लेन पीतेन निशितेन च
जहार नृपतेः कायाच्छिरोऽज्वलितकुण्डलम्
तच्छिन्नं सहंसा तस्य शिरः कुञ्चितमूर्धजम्
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात्
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः
सहयोऽभ्यपतत्तूर्णं तावकं पाण्डुकारणात्
धृष्टकेतुमथाऽऽयान्तं द्रोणहेतोः पराक्रमी
वीरधन्वा महेष्वासो वारयामास भारत
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः
तावुभौ नरशार्दूलौ युयुधाते परस्परम्
महावने तीव्रमदौ वारणाविव यूथपौ
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ
तावुभौ नरशार्दूमौ पीडयन्तौ परस्परम्
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम्
वीरधन्वा ततः क्रुद्धो धृष्टकेतोश्शरासनम्
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत
तदुत्सृज्य धनुच्छिन्नं चैद्यो राजा महायशाः
शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम्
तां तु शक्तिं महावीर्यां महतीमथ भारत
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम्
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम्
तस्मिन्विनिहते वीरे त्रैगर्तानां महारथे
बलं तेऽभज्यत विभो पाण्डवेयैस्समन्ततः
सहदेवे ततष्षष्टिं सायकान्दुर्मुखोऽक्षिपत्
ननाद च महानादं तर्जयन्पाण्डवं रणे
माद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिश्शरैः
भ्राता भ्रातरमायत्तो विव्याध प्रहसन्निव
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत
दुर्मुखस्य तु भल्लेन च्छित्त्वा केतुं महाबलः
जघान चतुरो वाहांश्चतुर्भिर्निशितैश्शरैः
अथापरेण भल्लेन पीतेन परवीरहा
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः
सहदेवो रणे च्छित्त्वा तं च विव्याध पञ्चभिः
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा
आरुरोह रथं राजन्निरमित्रस्य भारत
सहदेवस्तु सङ्क्रुद्धो निरमित्रं महाहवे
जघान पृथुधारेण भल्लेन परवीरहा
स पपात रथोपस्थान्निरमित्रो जनेश्वरः
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्
हत्वा तं तु महाबाहुस्सहदेवो व्यरोचत
यथा दाशरथी रामः खरं हत्वा महाबलम्
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर
राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम्
नकुलस्ते सुतं वीरो विकर्णं पृथुलोचनम्
मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत्
सात्यकिं व्याघ्रदत्तस्तु शरैस्सन्नतपर्वभिः
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे
तान्निवार्य शराञ्शूरश्शैनेयः कृतहस्तवत्
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्
कुमारे निहते तस्मिन्मागधस्य सुते प्रभो
मागधास्सर्वतो यत्ता युयुधानमयोधयन्
विसृजन्तश्शरांश्चैव तोमरांश्च सहस्रशः
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि
अयोधयन्रणे वीरास्सात्वतं युद्धदुर्मदम्
तांस्तु सर्वान्स बलवान्सात्यकिर्युद्धदुर्मदः
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः
अभज्यत बलं विभो युयुधानशरार्दितम्
नाशयित्वा रणे सैन्यं त्वदीयांस्तु समन्ततः
विधुन्वानो धनुश्श्रेष्ठं व्यभ्राजत महायशाः
यथा दैत्यचमूं हत्वा शक्रो राजन्व्यरोचत
भज्यमानं बलं सर्वं सात्वतेन महात्मना
नाभ्यद्रवत युद्धाय त्रासितं दीर्घबाहुना
ततो द्रोणो भृशं क्रुद्धस्सहसोद्वृत्य चक्षुषी
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महारथः
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
ते पीडिता भृशं तेन रौद्रेण सहसा विभो
सम्मूढा नैव विविदुर्मृधे कृत्यं हि किञ्चन
नाकुलिश्च शतानीकस्सौमदत्तिं नरर्षभम्
द्वाभ्यां विद्ध्वाऽनदद्धृष्टश्शराभ्यां शत्रुतापनः
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः
विव्यधुस्समरे तूर्णं सौमदत्तिममर्षणम्
स तान्प्रति महाराज चिक्षेपे पञ्च सायकान्
एकैकं हृदि चाजघ्ने एकैकेन महायशाः
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना
परिवार्य रथैर्वीरं विव्यधुस्सायकैर्भृशम्
अार्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैश्शरैः
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः
ननाद बलवन्नादं विव्याध निशितैश्शरैः
यौधिष्ठिरो ध्वजं च्छित्त्वा तस्य भूमावपातयत्
नाकुलिश्चाथ यन्तारं रथनीडादपातयत्
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्
क्षुरप्रेण शिरो राजन्निचकर्त महाहवे
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम्
भासयत्तद्रणोद्देशं बालसूर्यसमप्रभम्
सौमदत्तेश्शिरो दृष्ट्वा निपतत्तन्महात्मनः
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा
अलम्बुसस्तु समरे भीमसेनं महाबलम्
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा
सम्प्रयुद्धौ ततो दृष्ट्वा तावुभौ भीमराक्षसौ
विस्मयस्सर्वभूतानां भयं चासीत्सुदारुणम्
आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैश्शरैः
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम्
तद्रक्षस्समरे विद्धं नादं कृत्वा भयावहम्
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः
स भीमं पञ्चभिर्विद्ध्वा शरैस्सन्नतपर्वभिः
भैमानुगाञ्जघानाशु रथांस्त्रिशदरिन्दम
पुनश्चतुश्शतान्हत्वा भीमं विव्याध पत्रिणा
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः
प्रतिलभ्य ततस्सञ्ज्ञां मारुतिः क्रोधमूर्च्छितः
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास भारत
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः
स विध्यमानस्समरे भीमचापच्युतैश्शरैः
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना
घोरं रूपमथो कृत्वा भीमसेनमभाषत
अलम्बुसः-
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली
परोक्षं मम तद्वृत्तं यन्मे भ्राता हतस्त्वया
सञ्जयः-
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा
महता शरवर्षेण भृशं तं समवाकिरत्
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा
आकाशं पूरयामास शरैस्सन्नतपर्वभिः
स वध्यमानो भीमेन निमेषाद्रथमास्थितः
जगाम धरणीं क्षुद्रः खं चैव सहसाऽगमत्
उच्चावचानि रूपाणि स चकार बहूनि च
उच्चावचास्तथा वाचो व्याजहार समन्ततः
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः
हयाश्च बहवो राजन्पत्तयश्च समन्ततः
रथेभ्यो रथिनस्तत्र पेतू राक्षससायकैः
शोणितोदां रथावर्तां हस्तिग्राहां ध्वजाकुलाम्
छत्रहंसां मज्जपङ्कां बाहुपन्नगसङ्कुलाम्
वहन्तीं सृञ्जयांश्चैव पाञ्चालानथ बाह्लिकान्
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्
तं तथा समरे राजन्विचरन्तमभीतवत्
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्
तावकानां तु सैन्यानां प्रहर्षस्समजायत
ततो वादित्रनिनदस्सुमहान्समजायत
प्रहर्षयन्रणे रक्षः पाणाडवांश्च व्यमोहयत्
तं श्रुत्वा निनदं घोरं तव सैन्येषु पाण्डवाः
नामृष्यन्त यथा नागास्तलशब्दं समीरितम्
ततः क्रोधाभिताम्राक्षो निर्दहन्निव भारत
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष
ततश्शरसहस्राणि प्रादुरासन्समन्ततः
तैश्शरैस्तव सैन्यस्य विद्रवस्सुमहानभूत्
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे
राक्षसस्य महामायां हत्वा राक्षसमार्दयत्
स वध्यमानो बहुधा भीमसेनेन राक्षसः
सन्त्यज्य संयुगे भीमं द्रोणानीकमथाव्रजत्
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना
अनादयन्सिंहनादैः पाण्डवास्सर्वतो दिशम्
अपूजयन्मारुतिं च संहृष्टांस्तं महाबलम्
प्रह्रादमिव दैतेया यथा शक्रं मरुद्गणाः