धृतराष्ट्रः-
अर्जुने सैन्धवं याते भारद्वाजेन संवृताः
पाञ्चालाः कुरुभिस्सार्धं किमकुर्वत सञ्जय
सञ्जयः-
अपराह्णे महाराज सङ्ग्रामे रोमहर्षणे
पाञ्चालानां कुरूणां च द्रोणे युद्धमवर्तत
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः
अभ्यमुञ्चन्त गर्जन्तश्शरवर्षाणि भूरिशः
ततस्सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः
पाञ्चालानां कुरूणां च घोरो दैवासुरोपमः
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैस्सह
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः
प्रवमन्निशितान्बाणान्महेन्द्राशनिसन्निभान्
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महारथः
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्रमिव शम्बरः
तमापतन्तं सहसा व्यादितास्यमिवान्तकम्
वीरधन्वा महेष्वासस्त्वरमाणस्समभ्ययात्
युधिष्ठिरं महाराज जिगीषुं समुपस्थितम्
सहानीकं स्मयन्द्रोणो न्यवारयत तद्बली
नकुलं रभसा युद्धे पराक्रन्तं पराक्रमी
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो
सहदेवं तथाऽऽयान्तं दुर्मुखश्शत्रुकर्शनः
शरैरनेकसाहस्रैस्समवाकिरदाशुगैः
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववाकिरत्
शरैस्सुनिशितैरुग्रैः कम्पयन्वै मुहुर्मुहुः
द्रौपदेयान्नरव्याघ्रान्मुञ्चतस्सायकोत्तमान्
संरब्धान्रथिनां श्रेष्ठस्सौमदत्तिरवारयत्
भीमसेनमथायान्तं घोररूपो भयानकः
प्रत्यवारयदायान्तमार्श्यशृङ्गिर्महारथः
तयोस्समभवद्युद्धं नरराक्षसयोर्मृधे
यादृशं वै पुरावृत्तं रामरावणयोर्नृप
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्
आजघ्ने भरतश्रेष्ठस्सर्वमर्मसु भारत
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे
रोषितो भरतश्रेष्ठ कौन्तेयेन महात्मना
अदृश्यं समरे चक्रे राजानं सायकोत्तमैः
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्
ताञ्शरान्द्रोणमुक्तान्स्म शरवर्षेण पाण्डवः
न्यवारयत धर्मात्मा दर्शयन्हस्तलाघवम्
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे
चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः
अथैनं छिन्नधन्वानं त्वरमाणो महारथः
शरैरनेकसाहस्रैः पूरयामास सर्वतः
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम्
हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम्
ततस्तान्सायकांस्तत्र दोणमुक्तान्सहस्रशः
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्
छित्त्वा च ताञ्शरान्राजन्क्रोधसंरक्तलोचनः
शक्तिं जग्राह समरे गिरीणामपि दारिणीम्
हेमदण्डां महाघोषामष्टघण्टां भयावहाम्
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली
तां रणे सर्वभूतानि त्रासयन्तीमिव प्रभो
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे
स्वस्ति द्रोणाय सहसा सर्वसैन्यान्यथाब्रुवन्
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा
प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा
द्रोणानीकमनुप्राप्ता कालरात्रीव भारत
कन्येवोरगराजस्य दीप्तास्या पन्नगी यथा
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम्
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत
स विव्याध रणे द्रोणं पञ्चभिर्नतपर्वभिः
क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः
गदां चिक्षेप सहसा धर्मपुत्राय मारिष
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः
ते गदे सहसा मुक्ते समासाद्य परस्परम्
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष
चतुर्भिर्निशितैर्जघ्ने हयांस्तीक्ष्णैश्शरोत्तमैः
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम्
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः
हताश्वात्तद्रथात्तूर्णमवप्लुत्य युधिष्ठिरः
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ
विरथं तं समालोक्य व्यायुधं च विशेषतः
द्रोणो व्यमोहयच्छीघ्रं सर्वसैन्यानि चाभि भो
मुञ्चन्निषुगणांस्तीक्ष्णाल्ँलघुहस्तो दृढव्रतः
अभिदुद्राव राजानं सिंहो मृगमिवोन्मदम्
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना
हाहेति सहसा शब्दः पाण्डूनां समजायत
हृतो राजा हृतो राजा भारद्वाजेन मारिष
इत्यासीच्च महाञ्शब्दः पाण्डुसैन्यस्य सर्वतः
ततस्त्वरितमारुह्य सात्यकेश्च रथं नृप
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः