धृतराष्ट्रः-
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय
सञ्जयः-
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्
रूपतो वर्णतश्चैव नामतश्च निबोध मे
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः
अनेकवर्णा विविधा ध्वजाः परमशोभनाः
ते ध्वजास्संवृतास्तेषां पताकाभिस्समन्ततः
नानावर्णविचित्राभिश्शोभन्ते सर्वतो दिशः
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः
नृत्यमानाः प्रदृश्यन्ते रङ्गमध्ये यथा स्त्रियः
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ
दोधूयमाना रथिनां शोभयन्ति महारथान्
सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत
स वानरध्वजो राजन्पताकाभिरलङ्कृतः
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत
ध्वजाग्रे प्रत्यपश्याम बालसूर्यसमप्रभम्
काञ्चनं पवनोद्धूतं शक्रध्वजसमद्युति
नन्दनं कौरवेयाणां द्रौणेर्लक्षणमुच्छ्रितम्
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे
खं चाहवे महाराज ददृशे पूरयन्निव
पताकी काञ्चनस्स्रग्वी ध्वजः कर्णस्य संयुगे
नृत्यतीव रथोपस्थे श्वसनेन समीरितः
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः
गोवृषो गौतमस्यासीत्कृपस्य च परिष्कृतः
स तेन भ्राजते राजन्गोवृषेण महारथः
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्
व्याहरन्निव चातिष्ठत्सेनाग्रमुपशोभयन्
तेन तस्य रथो भाति मयूरेण महात्मनः
यथा स्कन्दरथो राजेन्द्र मयूरेण विराजता
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव
सौवर्णीं प्रत्यपश्याम सीतामप्रतिमां शुभाम्
सा सीता राजते तस्य रथमास्थाय मारिष
सर्वबीजविरूढेव यथा सीता श्रिया वृता
वराहस्सिन्धुराजस्य राजतोऽभिविराजते
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः
शुशुभे केतुना तेन राजतेन जयद्रथः
यथा दैवासुरे युद्धे पुरा पूषा स्म शोभते
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः
ध्वजस्सूर्य इवाभाति रथे चात्र प्रदृश्यते
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते
राजसूये क्रतुश्रेष्ठे यथा यूपस्समुच्छ्रितः
यस्य तु महाराज राजते द्विरदो महान्
केतनः काञ्चनस्तत्र मयूखैरिव शोभितः
स ध्वजोऽशोभयत् सैन्यं ते भरतर्षभ
यथा श्वेतो महानागो देवराजचमूं तथा
नागो मणिमयो राज्ञो ध्वजः केतनसंवृतः
किङ्किणीशतनिर्ह्रादो भ्राञ्जैत्रे महारथे
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः
अदीव्यदर्जुनस्तेन हिमवानिव शम्भुना
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः
कार्मुकाण्याददुस्तूर्णमर्जुनार्थं परन्तपाः
तथैव धनुरायच्छत्पार्थश्शत्रुविनाशनम्
धनुस्तद्गाण्डीवं दिव्यं राजन्दुर्मन्त्रिते तव
तवापराधाद्राजेन्द्र बहुधा निहता नराः
नानादेशसमाहूतास्सहयास्सरथद्विपाः
तेषामासीद्व्यातिक्षेपो गर्जतामितरेतरम्
दुर्योधनमुखानां च पाण्डूनामृषभस्य च
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः
यदेको बहुभिस्सार्धं समागच्छदभीतवत्
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः
जिगीषुस्तान्रथश्रेष्ठान् जिघांसुश्च जयद्रथम्
ततोऽर्जुनो महाराज शरैर्मुक्तैस्सहस्रशः
अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः
ततस्तेऽपि महाबागास्सर्वे पार्थं महारथाः
अदृश्यं समरे चक्रुस्सायकौघैस्समन्ततः
संवृते नरसिंहे तैः कुरूणामृषभेऽर्जुने
महानासीत्समुद्भूतस्तस्य सैन्यस्य निस्स्वनः