सञ्जयः-
एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैश्शरैः
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे
प्रतोदं चास्य बाणेन च्छित्त्वा भूमावपातयत्
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैश्शिलाशितैः
अविध्यत्तूर्णमव्यग्रो देहाद्भ्रश्यन्त वर्मणः
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च
प्राहिणोन्निशितान्बाणांस्ते ह्यभ्रश्यन्त वर्मणः
अष्टाविंशच्छितान्बाणांस्तान्वै प्रेक्ष्य स निष्फलान्
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः
श्रीभगवान्-
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः
पश्य गाण्डीवतो बाणांस्तथैव भरतर्षभ
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव
विधेर्वशादयं कालः प्राप्तस्स्यादद्य पश्चिमः
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्
सङ्ग्रामे पततो व्यर्थान् दुर्योधनरथं प्रति
वज्राशनिसमा घोराः परकायावभेदिनः
शराः कुर्वन्ति ते पार्थ पार्थिवेऽद्य विडम्बनाम्
अर्जुनः-
द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निवेशितम्
अन्ते विहितमस्त्राणामेतत्कवचधारणम्
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात्
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन
अपि वज्रेण गोविन्द स्वयं मघवता युधि
जानंस्त्वमपि वै कृष्ण मां वै मोहयसे कथम्
यद्वृत्तं त्रिषु लोकेषु वर्तते यच्च केशव
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव
न त्विदं वेद तत्कश्चिद्यथा त्वं मधुसूदन
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम्
यत्तत्र विहितं कार्यं नैष तद्वेत्ति माधव
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम्
पश्य बाह्वोर्बलं मे मेऽद्य धनुषश्च जनार्दन
पराजयिष्ये कौरव्यं कवचेनाभिरक्षितम्
इदमप्यङ्गिराः प्रादात्सुरेशायास्त्रमुत्तमम्
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम्
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्
नैव गोप्स्यति दुर्बुद्धिं वर्म बाणहतं मया
सञ्जयः-
एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत्
विकृष्यमाणानेवैतान्धनुर्मध्यगताञ्शरान्
तानस्यास्त्रेण चिच्छेद द्रौणिस्सर्वास्त्रघातिना
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना
न्यवेदयत्केशवाय विस्मितश्श्वेतवाहनः
अर्जुनः-
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन
अस्त्रं मामेव हन्याद्धि पश्याद्यास्त्रबलं मम
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः
शरैरविध्यत रणे त्वरयाऽऽशीविषोपमैः
भूय एवाभ्यवर्षच्च स रणे कृष्णपाण्डवौ
शरवर्षेण महता ततोऽहृष्यन्त तावकाः
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तदा
ततः क्रुद्धो रणे पार्थस्सृक्विणी परिलेलिहन्
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्
ततोऽस्य निशितैर्बाणैर्ज्वलनार्कानिलोपमैः
हयांश्चकार निर्देहांस्तथोभौ पार्ष्णिसारथी
धनुरस्याच्छिनत्क्षिप्रं हस्तावापं च वीर्यवान्
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्
आविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः
समुत्पेतुः परीप्सन्तो धनञ्जयशरार्दितम्
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः
पदात्योघाश्च संरब्धाः परिवव्रुर्धनञ्जयम्
अथ नार्जुनगोविन्दौ रथो वाऽपि व्यदृश्यत
अस्त्रवर्षेण महता शरौघैश्चापि संवृताः
ततोऽर्जुनोऽस्त्रवर्षेण व्यधमत्तां वरूथिनीम्
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्
स रथस्स्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्
श्रीभगवान्-
धनुर्विष्फारयात्यर्थमहं प्रध्मामि चाम्बुजम्
सञ्जयः-
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्
महता शरवर्षेण तलशब्देन चार्जुनः
तेन शब्देन महता सर्वसैन्येषु पार्थिवाः
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः
रजसा ध्वस्तपक्ष्माक्षः प्रस्विन्नवदनो भृशम्
तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिस्सृतेन
नादेन सासुरवियत्सुरलोकपालमुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्
तस्य शङ्खस्य नादेन धनुषो निस्स्वनेन च
निस्सत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः
तैर्विमुक्तो रथो रेजे वाय्वीरित इवानलः
जयद्रथस्य गोप्तारस्ततः क्षुब्धास्सहानुगाः
ते दृष्ट्वा सहसा पार्थं गोप्तारस्सैन्धवस्य तु
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम्
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्स्वनैः
प्रादुश्चक्रुर्महात्मानस्सिंहनादरवानपि
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्
प्रदध्मतुश्शङ्खवरौ वासुदेवधनञ्जयौ
तेन शब्देन महता पूरितेयं वसुन्धरा
सशैला सार्णवद्वीपा सपाताला विशां पते
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशिताः
अभ्यद्रवन्युधां श्रेष्ठास्तदद्भुतमिवाभवत्