श्रीभगवान्-
सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय
आपद्गतमिमं मन्ये नास्त्यत्र सदृशो रथः
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः
दृढहस्तश्चित्रयोधी धार्तराष्ट्रो महारथः
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान्
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ
अत्र नो द्यूतमायत्तं विजयायेतरस्य वा
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् |
एष मूलं ह्यनर्थानां पाण्डवानां महात्मनाम्
एष प्राप्तस्तवाक्षेपे पश्य साफल्यमात्मनः
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम्
यथैष जीवितं जह्यात्तथा कुरु धनञ्जय
ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान्
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानवाः
नोत्सहन्ते रणे जेतुं किमुतैकस्सुयोधनः
दिष्ट्या स समरे प्राप्तस्तव पार्थ रथान्तिकम्
जह्येनं त्वं महाबाहो यथा वृत्रं पुरन्दरः
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्
बहूनि सुनृशंसानि कृतान्येतेन मानद
युष्मासु पापमतिना अपापेष्वपि नित्यदा
तमनार्यं सदा क्षुद्र पुरुषं कामचारिणम्
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्
निकृत्या राज्यहरणं वनवासं च पाण्डव
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रमम्
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते
विघाते तव कार्यस्य दिष्ट्या च चरतेऽग्रतः
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह
दिष्ट्या हि सफलाः पार्थ सर्वे कामाश्च कामद
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्
वैरस्य दिष्ट्या सहजं मूलं छिन्धि दुरात्मनाम्
सञ्जय उवाच
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम
सर्वसैन्यमनादृत्य गच्छ यत्र सुयोधनः
येनैतद्दीर्घमध्वानं भुक्तं राज्यमकण्टकम्
ततोऽप्यस्य व्यतिक्रम्य च्छिन्द्यां मूर्धानमाहवे
अपि तस्या अनर्हायाः परिक्लेशस्य माधव
कृष्णायाश्शक्नुयां हन्तुं पदवीं कलहस्य च
अप्यहं तानि दुःखानि पूर्ववृत्तानि माधव
दुर्योधनं रणे हत्वा प्रतिमोक्ष्ये कथञ्चन
इत्येवंवादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान्
प्रेषयामासतुस्सङ्ख्ये प्रेप्सन्तौ तं नराधिपम्
तयोस्समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ
न चकार भयं प्राप्ते भये महति मारिष
तदस्य क्षत्रियाः कर्म सर्व एवाभ्यपूजयन्
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन्
ततस्सर्वस्य सैन्यस्य तावकस्य विशां पते
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्
आवारितस्तु कौन्तेयस्तव पुत्रेण संयुगे
संरम्भमगमद्भूयस्स च तस्मिन्परन्तपः
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ
अभ्यवैक्षन्त राजानो भीमवेगास्समन्ततः
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष
प्रहसन्नेव पुत्रस्ते योद्धुकामस्समाह्वयत्
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः
व्यक्रोशेतां महात्मानौ दध्मतुश्चाम्बुजोत्तमौ
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवस्तत्र सर्वशः
निराशास्समपद्यन्त पुत्रस्य तव जीविते
शोकमीयुः परं चैव कुरवस्सर्व एव हि
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्
तथा च दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ
हतो राजा हतो राजेत्यूचुरेव भयार्दिताः
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्
दुर्योधनः-
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे
सञ्जयः-
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्
दुर्योधनः-
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना
यद्बलं तव वीर्यं च केशवस्य तथैव च
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्
अस्मत्परोक्षं कर्माणि प्रवदन्त्यद्भुतानि ते
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय