सञ्जयः-
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः
मोचयामास तुरगान्विनुन्नान्कङ्कपत्रिभिः
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः
अदृष्टपूर्वं तद्दृष्ट्वा साधुवादास्समुत्थिताः
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः
नाशक्नुवन्नभिप्राप्तुं तदद्भुतमिवाभवत्
आपतत्सु रथौघेषु प्रभूतगजवाजिषु
न सम्भ्रमं तदा पार्थो गतवान्पुरुषर्षभः
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः
न चाव्यथत धर्मात्मा वासविः परवीरहा
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्
समन्तात्ग्रसते पार्थस्सरितस्सागरो यथा
अस्त्रवेगेन महता पार्थो बाहुबलेन च
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान्
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः
अपूजयन्महाराज कौरवाः परमाद्भुतम्
कौरवाः-
किञ्चाद्भुततरं लोके भविता चाथवाप्यभूत्
यदश्वान्पार्थगोविन्दौ पाययामासतू रणे
सञ्जयः-
भयं विपुलमस्मासु धत्तामति महारथौ
तेजो विदधतुश्चोग्रं यत्सैन्यं तावकं विभो
दधारैको रणे पार्थो वेलेवोद्वृत्तमिवार्णवम्
पार्थस्य शरसञ्छन्ने तस्मिन्वेश्मनि भारत
आकाशमिव सम्प्राप्य विचेरुस्तत्र पक्षिणः
न चैनं युधि तिष्ठन्तं तव सैन्येषु मारिष
अभ्यद्रवत सङ्क्रुद्धः पुमान्कश्चित्तु तावकः
सर्वे विमनसो भूत्वा तव योधा विशां पते
सम्प्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनञ्जयम्
अथोत्स्मयन्हृषीकेशस्स्त्रीमध्य इव भारत
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे विभो
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते
उपावृत्त्योत्थितानश्वान्पाणिभ्यां पुष्करेक्षणः
सम्मार्जयद्रणे राजन्पश्यतां सर्वयोधिनाम्
तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान्
सर्वाण्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान्
उपावृत्तान्यथाकामम् पाययामास वारि सः
ततो लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्
योजयामास संहृष्टः पुनरेव रथोत्तमे
स तं रथवरं शौरिस्सर्वशस्त्रभृतां वरः
समास्थाय महातेजास्सार्जुनः प्रययौ तदा
योजयित्वा हयांस्तत्र विधिदृष्टेन कर्मणा
रणे चचार गोविन्दस्तृणीकृत्य महारथान्
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्
विनिश्श्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः
घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक्
सैनिकाः-
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम्
क्रोशतां यतमानानामसंसक्तौ परन्तपौ
दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु
यथा दैवासुरे युद्धे तृणीकृत्य च दानवान्
इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ
सञ्जयः-
सैनिकाः-
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिका ब्रुवन्
त्वरध्वं कुरवस्सर्वे वधे कृष्णकिरीटिनोः
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे
सञ्जयः-
तत्र केचिन्महाराज समभाषन्त पार्थिवाः
अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम्
सैनिकाः-
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः
दुर्योधनापराधेन क्षत्रं कृत्स्नं च मेदिनी
सञ्जयः-
विलयं समनुप्राप्ता तच्च राजा न बुध्यते
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत
सैनिकाः-
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्
सञ्जयः-
ततश्शीघ्रतरं प्रायात्सैन्धवं प्रति पाण्डवः
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित्
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्
नाशक्नुवन्दारयितुं योधाः क्रुद्धमिवान्तकम्
विद्राव्य तु ततस्सैन्यं पाण्डवश्श्वेतवाहनः
यथा मृगगणान्सिंहस्सैन्धवार्थे व्यलोलयत्
गाहमानो ह्यनीकानि तूर्णमश्वानचोदयत्
बलाकवर्णं दाशार्हः पाञ्चजन्यं व्यनादयत्
कौन्तेयेनाग्रतस्सृष्टा न्यपतन्पृष्ठतश्शराः
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः
वातोद्धूतपताकान्तं रथं जलदनिस्वनम्
घोरं कपिध्वजं दृष्ट्वा विषण्णा बहवोऽभवन्
दिवाकरेऽथ रजसा सर्वतस्संवृते भृशम्
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम्
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्
बलेषु म्रियमाणेषु वीक्ष्य तं पुरुषर्षभम्
दुर्योधनोऽन्वयात्पार्थं त्वरमाणस्सहानुगः