धृतराष्ट्रः-
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते
तेन वृष्णिप्रवीरेण युयुधानेन संयुगे
अमर्षितो महेष्वासस्सर्वशस्त्रभृतां वरः
नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि
सञ्जयः-
सम्प्रस्रुतक्रोधविषो व्यादितास्य इवान्तकः
तीक्ष्णधारेषुदशनश्शितनाराचदंष्ट्रवान्
संरम्भामर्षताम्राक्षो महाहिरिव निश्वसन्
नरवीरः प्रमुदितैश्शोणैरश्वैर्महाजवैः
उत्पतद्भिरिवाकाशं पतद्भिरिव सर्वतः
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत्
शरपातमहावर्षं रथघोषबलाहकम्
कार्मुकैरावृतं राजन्नाराचबहुविद्युतम्
शक्तिखड्गाशनिधरं क्रोधवेगसमन्वितम्
द्रोणमेघमनावार्यं हयमारुतचोदितम्
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः
सात्यकिः-
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम्
आश्रयं धार्तराष्ट्राणां धर्मराजभयावहम्
सञ्जयः-
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्
आचार्यं राजपुत्राणां एवं युद्धाभिनन्दिनम्
एवमुक्तस्ततस्सूतस्सात्यकस्यावहद्रथम्
ततो रजतसङ्काशा माधवस्य हयोत्तमाः
द्रोणस्याभिमुखाश्शीघ्रमवहन्वातरंहसः
इषुजालावृतं घोरमन्धकारमनन्तकम्
अनाधृष्यमिवान्येषां शूराणामभवत्तदा
तयोश्शीघ्रास्त्रविदुषोर्द्रोणसात्यकयोस्तदा
नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः
प्रावृषीवेन्द्रमुक्तानामशनीनामिव स्वनः
नाराचैरतिविद्धानां शराणां रूपमाबभौ
आशीविषविदष्टानां सर्पाणामिव भारत
तयोर्ज्यातलनिर्घोषश्श्रूयते युध्यमानयोः
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव
उभौ तौ हि रथौ राजंस्ते चाश्वास्तौ च सारथी
रुक्मपुङ्खैश्शरैछन्नाश्चित्ररूपा बभुस्तदा
निर्मलानामजिह्मानां नाराचानां विशां पते
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः
उभयोः पतितेच्छत्रे पतितौ च महाध्वजौ
निकृन्ततोश्शरैस्तीक्ष्णैर्द्रोणसात्यकयोस्तदा
उभौ रुधिरसंसिक्तावुभौ च विजयैषिणौ
स्रवद्भिश्शोणितं गात्रैः प्रस्रुताविव वारणौ
अन्योन्यमभ्यविध्येतां जीवितान्तकरैश्शरैः
गर्जिताक्रुष्टसन्नादाश्शङ्खदुन्दुभिनिस्स्वनाः
उपारमन्महाराज व्याजहार न कश्चन
तुष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन्
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः
रथिनो हस्तियन्तारो हयारोहाः पदातयः
सर्वतः परिवार्योभौ प्रतताक्षा हि वीक्षिरे
हस्त्यनीकानि तिष्ठन्ति तथाऽनीकानि वाजिनाम्
तिष्ठन्ति रथवाहिन्यः प्रतिव्यूहे व्यवस्थिताः
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः
वैजयन्तीपताकाभिः परिस्तोभैश्च कम्बलैः
निर्मलैर्निशितैश्शस्त्रैर्हयानां च प्रकीर्णकैः
जातरूपमयीभिश्च राजतीभिश्च मूर्धनि
गजानां कुम्भमालाभिर्दन्तैश्च पृथिवी सदा
सबलाका सखद्योता सैरावतशतह्रदा
अदृश्यन्तोष्णपर्यन्ते मेघानामिव वागुरा
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिरास्तदा
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः
विमानास्थास्तदा देवा ब्रह्मसोमपुरोगमाः
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः
गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः।
गतप्रत्यागताक्षेपैश्चित्रैश्शस्त्रविघातनैः
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः
हस्तलाघवमस्त्रेषु दर्शयन्तौ महारथौ
अन्योन्यमतिशूरौ तौ समरे द्रोणसात्यकौ
ततो द्रोणस्य वार्ष्णेयो बाणांश्चिच्छेद संयुगे
पत्रिभिस्सुदृढैराशु धनुश्चैव महीमते
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः
तत आशु पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत
सज्यं सज्यं पुनश्चापं चिच्छेद निशिथैश्शरैः
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये
भीष्मे च पुरुषव्याघ्रे सात्यके चाशुविक्रमे
तं चास्य मनसा द्रोणः पूजयामास विक्रमम्
लाघवं वृष्णिवीरस्य वासवस्येव दृश्य सः
तुष्टुवुर्लाघवं तस्य देवास्साग्निपुरोगमाः
सिद्धचारणसङ्घाश्च साधु साध्विति चुक्रुशुः
न तस्य लघुतामन्येऽलक्षयञ्शीघ्रकारिणः
देवास्तु युयुधानस्य गन्धर्वाश्च विशां पते
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत्
अथाऽन्यद्धनुरादाय द्रोणश्शस्त्रभृतां वरः
युयुधानं नरव्याघ्रं योधयामास भारत
तस्यास्त्राण्यस्त्रमायाभिः प्रहसञ्छिनिपुङ्गवः
निजघ्ने निशितैर्बाणैस्तदद्भुतमिवाभवत्
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे
युक्तं योगेन योगज्ञाः पूजयन्ति स्म तावकाः
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः
असम्भ्रान्तस्तदाचार्यो योधयत्यरिसूदनः
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः
आग्नेयं युयुधानस्य दिव्यमस्त्रमुदैरयत्
तदाग्नेयं महाराज रिपुघ्नमुपलक्ष्य सः
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत्
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ
न चेरुश्च तदाऽऽकाशे भूतान्याकाशगान्यपि
अस्त्रे ते वारुणाग्नेये यदा बाणैस्समाहिते
न तदा व्यभिषज्येते व्यावर्तदथ भास्करः
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः
नकुलस्सहदेवश्च पर्यरक्षन्त सात्यकिम्
धृष्टद्युम्नमुखैस्सार्धं विराटः सकेकयैस्सह
मत्स्यास्साल्वेयसेनाश्च द्रोणमभ्ययुरञ्जसा
दुश्शासनं पुरस्कृत्य राजपुत्रास्सहस्रशः
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम्
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् |
रजसा संवृते लोके शरजालसमाकुले
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत
तेनान्तरेण पार्थस्तु रणे जित्वा महारथान्
अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान्
वर्तमाने तदा युद्धे द्रोणस्य सह पाण्डुभिः
परिवर्तमान आदित्ये तत्र सूर्ये च रश्मिभिः
रजसा कीर्यमाणाश्च मन्दीभूताश्च कौरवाः
तिष्ठतां युध्यमानानां पुनरावर्ततामपि
जयतां भज्यमानानां जगाम तदहश्शनैः
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः
रथमार्गप्रमाणं तु कौन्तेयो निशितैश्शरैः
चकार यं च पन्थानं ययौ तेन जनार्दनः
यत्र यत्र रथो याति पाण्डवस्य महात्मनः
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्
उत्तमाधममध्यानि मण्डलानि विदर्शयन्
ते नु नामाङ्किता बाणाः कालज्वलनसन्निभाः
स्नायुबद्धास्सुपर्वाणः पृथवः प्रियदर्शनाः
वैणवायस्मयशरास्स्वायता विविधाननाः
रुधिरं विहगैस्सार्धं प्राणिनां पपुराहवे
रथे स्थितोऽग्रतः क्रोशे यानस्यत्यर्जुनश्शरान्
रथे क्रोशमतिक्रान्ते पतन्तो घ्नन्ति शात्रवान्
तार्क्ष्यमारुतरंहोभिर्वाजिभिस्साधुवाहिभिः
यथाऽगच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत्
न तथा गच्छति रथस्तपनस्य विशां पते
न शक्रस्य न रुद्रस्य न च वैश्रवणस्य च
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः
प्रविश्य तु रणे राजन्केशवः परवीरहा
सेनामध्ये हयांस्तूर्णं चोदयामास भारत
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः
कृच्छ्रेण रथमूहुस्ते क्षुत्पिपासासमन्विताः
क्षताश्च बहुभिश्शस्त्रैर्युद्धशौण्डैरनेकशः
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः
हतानां वाजिनागानां रथानां च नरैस्सह
उपरिष्टादतिक्रान्ताश्शैलाभानां सहस्रशः
श्रमेण महता युक्तास्ते हया वातरंहसः
मन्दवेगगता राजन्संवृत्तास्तत्र संयुगे
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप
सहसैन्यौ तमार्च्छेतां पाण्डवं श्रान्तवाहनम्
तावर्जुनं चतुष्षष्ट्या सप्तत्या च जनार्दनम्
शराणां च शतेनाश्वानविध्येतां मुदाऽन्वितौ
तावर्जुनो महाराज नवभिर्नतपर्वभिः
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्
छादयेतां सुसंरब्धौ सिंहनादं च चक्रतुः
तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः
चिच्छेद समरे तूर्णं भूय एव धनञ्जयः
अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ
अथान्ये धनुषी राजन्प्रगृह्य समरे तथा
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुश्शरैः
तौ तु शस्त्रभृतां श्रेष्ठश्शरैस्सन्ताड्य भारत
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः
अथान्यैर्दशभिस्तूर्णं हेमपुङ्खैश्शिलाशितैः
जघानाश्वांस्तथा सूतं पार्ष्णिं च सपदानुगम्
ज्येष्ठस्य तु क्षुरप्रेण शिरः कायान्न्यकृन्तत
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान्
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः
अभ्यद्रवत्स सङ्ग्रामे भ्रातुर्वधमनुस्मरन्
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः
अनुविन्दस्स गदया ललाटे मधुसूदनम्
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्
तत्रार्जुनश्शरैष्षड्भिर्ग्रीवां पादौ भुजौ शिरः
निचकर्त स तु च्छिन्नः पपाताद्रिचयो यथा
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तश्शतशश्शरान्
तानर्जुनश्शरैस्तूर्णं निहत्य भरतर्षभ
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये
तयोस्सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः
विबभौ जलदान्हित्वा दिवाकर इवोदितः
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः
अभ्यद्रवन्त पार्थं च समन्ताद्भरतर्षभ
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्
सिंहनादेन महता सर्वतः पर्यवारयन्
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्
अर्जुनः-
शरार्दिताश्च क्लान्ताश्च हया दूरे च सैन्धवः
किमिहानन्तरं कार्यं श्लाघिष्ठं तव रोचते
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमस्सदा
भवन्नेत्रा रणे शत्रून्विजेष्यन्ति हि पाण्डवाः
मम त्वनन्तरं कृत्यं यदेतत्त्वं निबोध मे
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव
सञ्जयः-
श्रीभगवान्-
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्
ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम्
अर्जुनः-
अह हि वारयिष्यामि सर्वसैन्यानि केशव
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्
सञ्जयः-
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम्
य एनं रथवंशेन महता पर्यवारयन्
विकर्षन्तश्च ते चापन् विसृजन्तश्च सायकान्
विचित्राणि च शस्त्राणि क्रुद्धास्तत्र व्यदर्शयन्
छादयन्तश्शरैः पार्थं मेघा इव दिवाकरम्
अद्रवंश्चापि वेगेन क्षत्रिया भरतर्षभम्
रथसिंहं रथोदारास्सिंहं मत्ता इव द्विपाः
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत
यत्क्रुद्धो बहुलास्सेनास्सर्वतः पर्यवारयन्
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽभिभूः
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत्
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते
सङ्घर्षेण महार्चिष्मान्पावकस्समजायत
तत्र तैश्च महेष्वासैश्श्वसद्भिश्शोणितोक्षितैः
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत
शरोर्मिणं गजावर्तं अश्वनक्रं दुरत्ययम्
पदातिमत्स्यमुद्भूतं शङ्खदुन्दुभिनिस्स्वनम्
असङ्ख्येयमपारं च रजोनीरमतीव च
उष्णीषकमठच्छन्नं पताकाफेनमालिनम्
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्
वेलाभूतस्तदा पार्थः पत्रिभिस्समवारयत्
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम्
असम्भ्रान्तो महाबाहुमर्जुनं वाक्यमब्रवीत्
श्रीभगवान्-
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्
सञ्जयः-
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्
अभिहत्यार्जुनश्चक्रे वाजिपानं सरश्शुभम्
शरवंशं शरस्थूणं शराच्छादनमद्भुतम्
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत्
ततः प्रहस्य गोविन्दस्साधुसाध्वित्यथाब्रवीत्
शरवेश्मनि पार्थेन कृते तस्मिन्महारणे