सञ्जयः-
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे रोमहर्षणे
कौरवेयांस्त्रिधा भूतान्पाण्डवास्समुपाद्रवन्
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत
युधिष्ठिरस्सहानीकः कृतवर्माणमाहवे
किरन्स शरवर्षाणि रोचमान इवांशुमान्
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्
कुरूणां पाण्डवानां च क्रुद्धानामितरेतरम्
सङ्क्षये तु तथाभूते वर्तमाने महाभये
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्
द्रोणः पाञ्चालपुत्रेण बली बलवता सह
व्यपासृजत्कौघांस्तदद्भुतमिवाभवत्
पुण्डरीकवनानीव विध्वस्तानि समन्ततः
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः
विकीर्णानि च वीराणामनीकेषु समन्ततः
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च
सुवर्णचित्राभरणास्संसिक्ता रुधिरेण च
कोविदारा इवाभान्ति पुष्पितास्तत्र भारत
तावकास्समरे योधाः पाण्डवेयाश्च विक्षताः
तालमात्राणि चापानि विकर्षन्तो महारथाः
कुञ्जरांश्च नरानन्ये पातयन्ति स्म पत्रिभिः
असिचर्माणि चापानि शिरांसि कवचानि च
विप्रकीर्णानि दृश्यन्ते सम्प्रहारे महात्मनाम्
उत्थितान्यगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले
गृध्राः कङ्का बल्श्श्येना वायसा जम्बुकास्तथा
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम्
विलुम्पमानाः केशांश्च मज्जाश्च बहुधा नृप
कर्षन्तश्च शरीराणि शरीरावयवांस्तथा
नराश्वगजसङ्घानां शिरांसि च ततस्ततः
कृतास्त्रा रणशिक्षाभिर्दीक्षिताश्शरमालिनः
रणे जयं प्रार्थयाना भृशं युयुधिरे जनाः
असिमार्गान्बहुविधान्विचेरुश्चापरे रणे
यष्टिभिश्शक्तिभिः प्रासैश्शूलतोमरपट्टसैः
गदाभिः परिघैश्चान्यैर्व्यायतैश्च भुजैरपि
अन्योन्यं न्यहनत् क्रुद्धा युद्धरङ्गगता नराः
रथिनो रथिभिस्सार्धमश्वारोहाश्च सादिभिः
मातङ्गाश्चैव मातङ्गैः पदाताश्चैव पत्तिभिः
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च
वर्तमाने महायुद्धे निर्मर्यादे विशां पते
धृष्टद्युम्नो हयानश्वैर्द्रोणस्यामिश्रयत् स्वकैः
ते हयास्साध्वशोभन्त मिश्रिता वातरंहसः
पारावतसवर्णाश्च रक्तशोणाश्च मारिष
पारावतसवर्णास्ते रक्तशोणैर्विमिश्रिताः
हयाश्शुशुभिरे राजन्मेघा इव सविद्युतः
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम्
असिचर्माददे वीरो धनुरुत्सृज्य भारत
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा
ईषायास्समतिक्रम्य द्रोणस्य रथमाविशत्
अतिष्ठद्युगपालीषु युगसन्नहनेषु च
जघनांसेषु चाश्वानां तत्सैन्यं समपूजयन्
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः
न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत्
यथा श्येनस्य चरतो द्रुतामामिषगृद्धिनः
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः
ततश्शितशरेणास्य शतचन्द्रमपातयत्
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिश्शरैः
हयांश्चैव चतुष्षष्ट्या शराणां जघ्निवान्बली
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्
धृष्टद्युम्नाय चिक्षेप शचीपतिरिवाशनिम्
तं चतुर्दशभिर्बाणैर्बाणांश्चिच्छेद सात्यकिः
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्
सिंहेनेव मृगं ग्रस्तं नरसिंहेन संयुगे
द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चालस्य महाहवे
प्रमुखे त्वरितो द्रोणष्षड्विंशत्या समर्पयत्
ततो द्रोणं शिने्र्नप्ता ग्रसन्तमिव सृञ्जयान्
प्रत्यविध्यच्छितैर्बाणैष्षड्विंशत्या स्तनान्तरे
ततस्सर्वे रथात्तूर्णं पाञ्चाला जयगृद्धिनः
सात्वताभिसृते द्रोणे धृष्टद्युम्नमचोदयन्