सञ्जयः-
प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभम्
जवेनाभ्यपतन्द्रोणं महता निस्स्वनेन च
पाण्डवास्सोमकैस्सार्धं ततो युद्धमवर्तत
तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम्
पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम्
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम्
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः
सैन्यं तव कुरुश्रेष्ठ शरवर्षैरवाकिरन्
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्
पार्षतप्रमुखान्पार्थानभिवर्षाम सायकैः
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये
सेनाग्रे ते प्रकाशेते रुचिरे रत्नभूषिते
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके
नानाशस्त्रपुरोवातः पत्त्यश्वरथसंवृतः
गदाविद्युन्महारौद्रस्सङ्ग्रामजलदो महान्
भारद्वाजानिलोद्भूतश्शरधारासहस्रशः
अभ्यवर्षन्महारौद्रं पाण्डुसैन्याग्निमुत्थितम्
समुद्रमिव घर्मान्ते महाघोरो महानिलः
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्
बिभित्सन्तो रथानीकं वार्योघाः प्रबला इव
वारयामास तान्द्रोणो वार्योघानचलो यथा
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान्
पर्यवर्तन्त राजानः कुर्वाणास्तव शासनम्
महाबला रणे शूराः पाञ्चालानन्ववारयन्
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैस्सह
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम्
यथैव शरवर्षाणि द्रोणो वर्षति संयुगे
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत
सनिस्त्रिंशपुरोवातश्शक्तिप्रासर्ष्टिसंवृतः
ज्याविद्युच्चापनिर्ह्रादो धृष्टद्युम्नबलाहकः
शरधाराम्बुवर्षाणि व्यसृजत्सर्वतो दिशम्
निघ्नंस्तत्र नराश्वौघान्पातयामास वाहिनीम्
यं यमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्
तस्मात्तस्माच्छरैर्द्रोणमपाकर्षत पार्षतः
तथा तु यतमानस्य द्रोणस्य युधि मारिष
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत
भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः
सङ्घाते यतते द्रोणस्सैन्यस्य रथिनां वरः
व्यधमच्चास्य सैन्यानि धृष्टद्युम्नो महारथः
धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः
अगोपाः पशवोऽरण्ये बहुभिश्श्वापदैरिव
कालस्सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान्
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः
कुनृपस्य यथा राष्ट्रं व्याधिदुर्भिक्षतस्करैः
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी
अर्करश्मिविभिन्नेषु शस्त्रेषु कवचेषु च
चक्षूंषि प्रत्यहन्यन्त सैन्ये च रजसा वृते
त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः
मृद्नतस्तान्यनीकानि निघ्नतश्शात्रवान्रणे
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः
रथानागहयांश्चापि पत्तींश्चापि विशां पते
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः
पाण्डवानां तु सैन्येषु नास्ति राजन् स मानवः
अधारयत यो बाणान्द्रोणचापच्युतान्प्रभो
तत्पच्यमानमर्केण द्रोणसायकतापितम्
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत
वध्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः
शरैरग्निशिखाकारैर्दह्यते भरतर्षभ
तथैव पार्षतेनापि काल्यमानं बलं तव
विद्रुतं सर्वतः क्षीणं शुष्कं वनमिवाग्निना
वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः
त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः
तावकानां परेषां च युध्यतां भरतर्षभ
नासीत्कश्चिन्महाराज योऽजहात्संयुगं भयात्
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्
विविंशतिश्चित्रसेनो विकर्णश्च महारथः
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च पौरवः
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः
बाह्लीकराजस्तेजस्वी कुलपुत्रांस्तनुत्यजः
सहसेनस्सहामात्यो द्रौपदेयानवारयत्
शैब्यो गोपायनो राजा योधैर्दशशतोत्तरैः
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत्
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्
मद्राणामीश्वरश्शल्यो राजा राजानमावृणोत्
दुश्शासनस्त्ववस्थाप्य स्वमनीकममर्षणः
सात्यकिं प्रययौ क्रुद्धश्शूरो रथवरं युधि
तेनैव हस्त्यनीकेन सन्नद्धकवचध्वजः
चतुश्शतैर्महेष्वासैश्चेकितानमवारयम्
शकुनिस्तु सहानीको माद्रीपुत्राववारयत्
सगान्धारकैस्सप्तशतैश्चापशक्तिवरासिभिः
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि
शिखण्डिनं याज्ञसेनिं युवानममितौजसम्
बाह्लीकः प्रतिसंरब्धः पराक्रान्तमवारयत्
धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैस्सार्धं प्रभद्रकैः
आवन्त्यस्सह सौवीरैः क्रुद्धरूपमवारयत्
घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मकृत्
अलम्बुसोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महाबलः
सैन्येन महता युक्तः क्रुद्धरूपमवारयत्
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः
नीतिमन्तो महेष्वासास्सर्वशस्त्रविशारदाः
सैन्धवस्य रथस्यैव रक्षार्थं युयुधुस्तदा
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम
कुरूणां पाण्डवानां च यथा युद्धमवर्तत
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्
अयोधयन्ति रणे पार्था द्रोणानीकबिभित्सया
रक्षमाणस्स्वकं व्यूहं द्रोणोऽपि सह सैनिकैः
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः
विन्दानुविन्दावावन्त्यौ विराटं दशभिश्शरैः
अाजघ्नतू रणे क्रुद्धौ तव पुत्रहितैषिणौ
विराटश्च महाराज तावुभौ समरे स्थितौ
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ
तेषां समभवद्युद्धं दारुणं रोमहर्षणम्
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः
आजघ्ने विशिखैुरुग्रैर्घोरैर्मर्मास्थिभेदिभिः
बाह्लीको याज्ञसेनिं तु शरैस्सन्नतपर्वभिः
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः
तद्युद्धमभवद्घोरं शरशक्त्यष्टिसङ्कुलम्
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्
आवन्त्यौ भ्रातरौ शूरौ धृष्टद्युम्नमयुध्यताम्
साल्वकौ बोल्वकश्चोभौ यथा विष्णुं कृते युगे
तेषां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा
अभवत्संवृतं सर्वं न प्रज्ञायत किञ्चन
शैब्यो गोवायनो युद्धे काश्यपुत्रं महारथम्
सहसा योधयामास गजः प्रतिगजं यथा
बाह्लीकराजस्सङ्क्रुद्धो द्रौपदेयान्महारथान्
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे
अयोधयंस्ते च भृशं तं शरौघैस्समन्ततः
इन्द्रियाणि यथा देहं शश्वद्देहवतां वर
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुश्शासनस्तव
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्दशभिस्तथा
सोऽतिविद्धो बलवता महेष्वासेन धन्विना
ईषन्मूर्च्छां जगामाथ सात्यकिस्सत्यविक्रमः
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः
तावन्योन्यं दृढं विद्धा ह्यन्योन्यशरपीडितौ
रेजतुस्संयुगे राजन्पुष्पिताविव किंशुकौ
अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरातुरः
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव
ततस्तौ समरे शूरौ योधयन्तौ परस्परम्
ददृशुस्सर्वसैन्यानि शक्रजम्भौ यथा पुरा
शकुनिं रभसं युद्धे कृतवैरं च भारत
माद्रीपुत्रौ सुसङ्क्रुद्धौ शरैरर्दयतां भृशम्
तुमुलस्सुमहान्राजन्नवर्तत जनक्षयः
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः
रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः
य इमां पृथिवीं सर्वां दग्धुं राजन् समन्ततः
शकुनिः पाण्डुपुत्राभ्यां कृतस्स विमुखश्शरैः
नाभिजानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम्
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ
ववर्षतुः पुनर्बाणैर्यथा मेघौ महीधरम्
स वध्यमानो बहुभिश्शरैस्सन्नतपर्वभिः
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः
घटोत्कचस्तथा शूरो राक्षसं तमलम्बुसम्
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम्
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्
यादृशं हि पुरावृत्तं रामरावणयोर्मृधे
ततो युधिष्ठिरो राजा मद्रराजानमाहवे
विद्ध्वा पञ्चाशतैर्बाणैः पुनर्विव्याध सप्तभिः
ततः प्रववृते युद्धं तयोरत्यन्तमद्भुतम्
यथा पूर्वं महाराज शम्बरामरराजयोः
विविंशतिश्चित्रसेनो विकर्णश्च महारथः
अयोधयन्भीमसेनं महत्या सेनया वृताः