सञ्जयः-
सुदक्षिणे हते राजन्वीरे चैव श्रुतायुधे
जवेनाभ्यद्रवन्पार्थं कुपितास्सैनिकास्तव
अभीषाहाश्शूरसेनाश्शिबयोऽथ वसातयः
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम्
तेषां षष्टिशतान्वर्यानहनत्पाण्डवश्शरैः
ते स्म भीताः पलायन्ते सिंहेनेवार्दिता गजाः
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन्
रणे सपत्नान्निघ्नन्तं वज्रहस्तमिवासुराः
तेषामापततां तूर्णं गाण्डीवप्रेषितैश्शरैः
उच्चकर्त शिरांस्युग्रो नालेभ्य इव पङ्कजान्
शिरोभिः प्रपतद्भिस्तैरन्तरिक्षं समावृतम्
अभ्रच्छायेव तत्रासीद्ध्वाङ्क्षगृध्रबलैः पुनः
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ
श्रुतायुश्चाश्रुतायुश्च धनञ्जयमयुध्यताम्
श्लाघिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ
तावेनं शरवर्षाभ्यां सव्यदक्षिणमस्यताम्
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ
तावर्जुनं सहस्रेण शराणां नतपर्वणाम्
पूरयामासतुः क्रुद्धौ तटाकं जलदौ यथा
श्रुतायुस्तु ततः क्रुद्धस्तोमरेण धनञ्जयम्
आजघान सुतीक्ष्णेन पीतेन निशितेन च
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
जगाम परमं मोहं मोहयन्केशवं रणे
एतस्मिन्नेव काले तु अश्रुतायुर्महाबलः
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्
क्षते क्षारं हि स ददौ पाण्डवस्य रणाजिरे
पार्थोऽपि भृशमाविद्धो ध्वजयष्टिमशिश्रियत्
ततस्सर्वस्य सैन्यस्य तावकस्य विशां पते
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम्
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतनम्
आश्वासयत हृद्याभिर्वाग्भिस्तत्र धनञ्जयम्
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम्
वासुदेवं च वार्ष्णेयं शरवर्षैस्समन्ततः
सचक्रकूबरं साश्वं सध्वजं स पताकिनम्
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्
प्रत्याश्वस्तस्तु बीभत्सुश्शनकैरिव भारत
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम्
शत्रू च प्रमुखे दृष्ट्वा दीप्यमानाविवानलौ
प्रादुश्चक्रे ततः पार्थः ऐन्द्रमस्त्रं महारथः
तस्मादासन्सहस्राणि शराणां नतपर्वणाम्
हत्वा तु तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान्
विचेरुराकाशगताः पार्थचापविनिस्सृताः
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः
प्रतस्थे तत्र तत्रैव योधयन्वै महारथान्
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ
श्रुतायुषश्च निधनं वधश्चैवाश्रुतायुषः
लोकविस्मापनमभूत्समुद्रस्येव शोषणम्
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान्
अत्यगाद्भारतीं सेनां निघ्नन्पार्थो रथान्वरान्
श्रुतायुषश्च निधनं प्रेक्ष्य चैवाश्रुतायुषः
नियुतायुर्हि सङ्क्रुद्धो दीर्घायुश्चैव भारत
पुत्रौ तयोरथ श्रेष्ठौ तौ प्रधावतुरर्जुनम्
किरन्तौ विविधान्बाणान्पितुर्व्यसनकर्शितौ
तावर्जुनो मुहूर्तेन शरैस्सन्नतपर्वभिः
अप्रेषयत्सुसङ्क्रुद्धो यमस्य सदनं प्रति
लोडयन्तमनीकानि द्विपं पद्मसरो यथा
नाशक्नुवन्धारयितुं पार्थं क्षत्रियपुङ्गवाः
अङ्गास्तु गजसङ्घैश्च पाण्डवं प्रत्यवारयन्
क्रुद्धास्सहस्रशो म्लेच्छाश्शिक्षिता हस्तिसादिनः
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा गणाः
तेषामापततां शीघ्रं गाण्डीवप्रेषितैश्शरैः
निचकर्त शिरांस्युग्रैः बाहूनपि च सायुधान्
तैश्शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः
बभौ कनकपाषाणैरुरगैरिव चावृता
बाहवो विशिखैश्छिन्नाश्शिरांस्युन्मथितानि च
च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः
शरैस्सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः
अदृश्यन्ताद्रयः काले गैरिकप्रस्रुता इव
निहताश्शेरते स्मान्ये बीभत्सोर्निशितैश्शरैः
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैश्शरैर्हताः
शोणितं निर्वमन्तश्च द्विपाः पार्थशराहताः
सहस्रशश्छिन्नगात्रास्सारोहास्सपदानुगाः
चुक्रुशुश्च निषेदुश्च बभ्रमुश्चापरे दिशः
भृशं त्रस्ताश्च बहवस्स्वानेव ममृदुर्गजाः
सोत्तरायुधिनश्चैव ये चान्ये तीक्ष्णसम्मताः
वसन्त्यसुरमायां ये सुघोरा घोरचक्षुषः
यवनाः पारदाश्चैव शकाश्चैव सहस्रशः
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः
ऊर्वाभिसारा दरदाः गरदाश्च सवाह्निकाः
ते न शक्यास्माख्यातुं वृताश्शतसहस्रशः
तेषां वृष्टिस्तथाऽप्यासीच्छलभानामिवायतिः
अभ्रच्छायामिव शरैस्सद्यः कृत्वा धनञ्जयः
मुण्डार्धमुण्डाञ्जटिलानशुचीन्नीलवाससः
म्लेच्छानशातयत्पार्थः पिशाचानस्त्रमायया
शरैस्तु शतशो विद्धास्ते सङ्घास्सङ्गचारिणः
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः
गजाश्वसादिनो म्लेच्छाः पत्तयश्च शरैर्हताः
बककङ्कवृकैः पीता वमन्तो रुधिरं हताः
पत्त्यश्वरथनागैश्च प्रच्छन्नां रथसङ्कुलाम्
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसन्निभाम्
अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम्
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे
तथाऽऽसीदाप्लुता धात्री रुधिरेण विशां पते
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान्
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः
शरैस्सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः
शेरते भूमिमासाद्य शैला वज्रहता इव
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः
प्रभिन्न इव मातङ्गो निघ्नन्नलवनं महत्
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोच्चयम्
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः
सेनारण्यं तव तथा कृष्णानिलसमीरितः
शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः
शून्यान्कुर्वन्रथोपस्थान्निघ्नन्पत्त्यश्वकुञ्जरान्
अनृत्यदिव सम्बाधे चापहस्तो धनञ्जयः
वज्रकल्पैश्शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्
ततः प्रावर्तत नदी शोणितस्य तरङ्गिणी
नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा
अस्थिशर्करसम्बाधा ध्वजवृक्षा रथह्रदा
सञ्छिन्नशीर्षपाषाणा हस्तिहस्तमहाग्रहा
योधगोमायुसङ्कीर्णा कबन्धशतसङ्कुला
मांसमज्जास्थिपङ्काढ्या हताश्वमकराकुला
उष्णीषफेनसञ्छन्ना शरघोरझषाकुला
रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम्
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः
तं श्रुतायुस्तथाऽम्बष्ठस्त्वरमाणोऽभ्यवारयत्
तस्यार्जुनश्शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो व्यतिक्रमत्
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः
आससाद रणे पार्थं केशवं च महारथम्
ततः सम्प्रहसन्वीरो गदामुद्यम्य भारत
रथमालम्ब्य गदया केशवं समताडयत्
गदया ताडितं दृष्ट्वा केशवं परवीरहा
अर्जुनो भृशसङ्क्रुद्धस्त्वम्बष्ठं प्रति भारत
शरैरनेकसाहस्रैस्सगदं गदिनां वरम्
छादयामास समरे मेघस्सूर्यमिवोदितम्
अथाऽपरैश्शरैश्चापि गदां तस्य महात्मनः
अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत्
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम्
अर्जुनं वासुदेवं च पुनः पुनरताडयत्
वासविस्तु क्षुरप्राभ्यां सगदावुद्यतौ भुजौ
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा
स पपात हतो राजन्वसुधामनुनादयन्
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः
अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत
रथानीकावगाढं च वारणाश्वशतैर्वृतम्
आददानं शरैः प्राणान् गजाश्वनरसादिनाम्
नान्वपश्याम बीभत्सुं घनैस्सूर्यमिवावृतम्