सञ्जयः-
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमैः
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः
किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः
तापयामास तत्सैन्यं देहं व्याधी रुजन्निव
अश्वो विद्धो रथो विद्धस्सारोहः पातितो गजः
छत्राणि चापविद्धानि रथाश्चक्रैर्विनाकृताः
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन
तेषामायच्छतां सङ्ख्ये परं पारमिवेच्छताम्
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः
तं द्रोणः पञ्चविंशत्या मर्मज्ञो मर्मभेदिभिः
अन्तेवासिनमाचार्यः पाण्डवं समपीडयत्
तं तु तूर्णतरं पार्थो द्रोणं सर्वशस्त्रभृतां वरम्
अभ्यधावदिषूनस्यन्निषुवेगविघातकान्
तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः
क्षरन्निव महामेघो वारिधारास्सहस्रशः
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः
अर्जुनश्शरवर्षं तच्छरवर्षेण वीर्यवान्
अवारयदसम्भ्रान्तो न त्वाचार्यमपीडयत्
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम्
विसृजन्तं शितान्बाणानवारयत तं युधि
अथ तौ वध्यमानौ तु द्रोणेन रथिसत्तमौ
अवर्जयेतां दुर्धर्षौ युगान्ताग्निमिवोल्बणम्
वर्जयन्निशितान्बाणान्द्रोणचापविनिस्सृतान्
किरीटमाली त्वरितो भोजानीकमथाविशत्
सोऽन्तरा कृतवर्माणं काम्भोजं च सुदक्षिणम्
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम्
ततो भोजो नरव्याघ्रं दुर्धर्षं कुरुसत्तमम्
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः
तमर्जुनश्शितेनाजौ राजन्विव्याध पत्रिणा
पुनर्बाणैस्त्रिभिश्चान्यैर्मोहयन्निव सात्वतम्
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम्
एकैकं पञ्चविंशत्या सायकानां समार्पयत्
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः
शरैरग्निशिखाकारैस्सङ्क्रुद्धाशीविषोपमैः
अथान्यद्धनुरादाय कृतवर्मा महाबलः
पञ्चभिस्सायकैस्तूर्णं विव्याधोरसि भारत
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम्
कार्षीस्सम्बन्धकं कृत्वा प्रमथ्यैनं व्रजाहितान्
ततस्स कृतवर्माणं महोयित्वाऽर्जुनश्शरैः
अभ्ययाज्जवनैरश्वैः काम्भोजानामनीकिनीम्
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः
तावविध्यत्ततो भोजस्सर्वपारशवैश्शरैः
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम्
तावप्येनं विविधतुर्दशभिर्दशभिश्शरैः
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्
तावन्ये धनुषी सज्ये कृत्वा भोजं विदेरतुः
तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम्
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा
धार्तराष्ट्रेष्वनीकेषु यतमानौ महारथौ
अनीकानि तु सम्मृद्धस्त्वरितश्श्वेतवाहनः
नावधीत्कृतवर्माणं प्राप्य चारिनिषूदनः
तं तु दृष्ट्वा तथाऽऽयान्तं शूरो राजा श्रुतायुधः
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम्
क्षुरप्रणे सुतीक्ष्णेन पार्थकेतुमताडयत्
तमर्जुनो नवत्या तु शराणां नतपर्वणाम्
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्
स तन्न ममृषे राजा पाण्डवेयस्य विक्रमम्
अथैनं सप्तसप्तत्या नाराचानां समार्पयत्
तस्यार्जुनो धनुश्छित्त्वा शरावापं च मारिष
आजघानोरसि क्रुद्धस्सप्तभिर्नतपर्वभिः
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततोऽर्जुनस्स्मयन्नेव श्रुतायुधमरिन्दमम्
शरैरनेकसाहस्रैः पोथयामास भारत
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महाबलः
विव्याध चैनं सप्तत्या नाराचानां महाबलः
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान्
वरुणस्यात्मजो वीरस्स तु राजा श्रुतायुधः
बेण्णा सा जननी यस्य शीततोया महानदी
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात्
बेण्णा-
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम
सञ्जयः-
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा
अस्त्रस्यास्य प्रभावेन व्येतु ते मानसो ज्वरः
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम्
यामासाद्य दुराधर्षस्सर्वलोके श्रुतायुधः
उवाच चैनं भगवान्पुनरेव जलेश्वरः
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति
न चाकरोत्स तद्वाक्यं काले प्राप्ते श्रुतायुधः
स तया वीरघातिन्या जनार्दनमताडयत्
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवाचलम्
ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ
विव्याध पाण्डवश्शीघ्रं जलेश्वरसुतस्य वै
स ज्वलन्ती महोल्केव समासाद्य जनार्दनम्
प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता
जघान च स्थितं सङ्ख्ये श्रुतायुधममर्षणम्
स पपात हतो भूमौ विशिरा विभुजो बली
सम्भग्न इव वातेन बहुशाखो वनस्पतिः
सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा
हत्वा श्रुतायुधं भीमा जगतीमन्वपद्यत
हाहाकारो महानासीत्सैन्यानां तव भारत
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमममर्षणम्
अयुध्यमानाय हि सा केशवाय नराधिप
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा
यथोक्तं वरुणेनाजौ तथा स निधनं गतः
व्यसुश्चाप्यपतद्भूमौ पश्यतां सर्वधन्विनाम्
पतमानस्स विबभौ वेण्णायास्सुपरियस्सुतः
सम्भग्न इव वातेन बहुशाखो वनस्पतिः
ततस्सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम्
ततः काम्भोजराजस्य पुत्रो वीरस्सुदक्षिणः
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम्
तस्य पार्थश्शरान्सप्त प्रेषयामास भारत
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम्
सोऽतिविद्धश्शरैरुग्रैर्गाण्डीवप्रेषितैर्मृधे
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष
भल्लाभ्यां पृथुतीक्ष्णाभ्यां तं च विव्याध पाण्डवः
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्
सर्वपारशवीं चैव शक्तिं शूरस्सुदक्षिणः
सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने
सा ज्वलन्ती महोल्केव समासाद्य महारथम्
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः
साश्वध्वजधनुस्सूतं विव्याधाचिन्त्यविक्रमः
रथं चान्यैस्सुबहुभिश्चक्रे विशकलं शरैः
सुदक्षिणं च काम्भोजं मोघसङ्कल्पविक्रमम्
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः
ततस्तौ तत्सरो गत्वा सूर्यमण्डलवर्चसम्
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः
नागमन्तर्जले घोरं ददृशातेऽच्युतार्जुनौ
पपाताभिमुखश्शूरो मुक्तयन्त्र इव ध्वजः
द्वितीयं चापरं नागं सहस्रशिरसं वरम्
गिरेश्शिखरजश्श्रीमान्सुशाखस्सुप्रतिष्ठितः
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम्
सम्भग्न इव वातेन कर्णिकारो हिमात्यये
ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली
विकीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम्
गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम्
शेते स्म निहतो भूमौ काम्भोजास्तरणो विभुः
अप्रमेयप्रमाणं तौ गत्वा सर्वात्मना भवम्
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ
पुत्रः काम्भोजराजस्य श्रीमान्पार्थेन पातितः
धनुर्बाणश्च शत्रुघ्नौ तद्द्वन्द्वं समपद्यत
शोचयन्सर्वभूतानि केशवं च सहार्जुनम्
ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्
ततस्सैन्यानि सर्वाणि व्यद्रवन्त सुतस्य ते
जग्मतुश्च महात्मानौ ददृशाते महात्मने
हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम्
ततः पार्श्वे वृषाङ्कस्य ब्रह्मचारी न्यवर्तत
पिङ्गाक्षस्तपसा श्रेष्ठो बलवान्नीललोहितः
स सङ्गृह्य धनुर्घोरं तस्थौ स्थानं समाहितः
व्यपाकर्षच्च विधिवत्सशरं धनुरुत्तमम्
तस्य पूर्णां च मुष्टिं च स्थानं चालक्ष्य पाण्डवः
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः
सरस्येव च तं बाणं मुमोचातिबलः पुनः
चिक्षेप च पुनर्वीरस्तस्मिन्सरसि तद्धनुः
ततः प्रीतं भवं ज्ञात्वा प्रीतिमानर्जुनस्तदा
वरमारण्यके दत्तं शङ्करस्य च दर्शनम्
मनसा चिन्तयामास तन्मे सम्पद्यतां भव
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः
तत्तु पाशुपतं घोरमवाप्यास्त्रं महेश्वरात्
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत
ततोऽर्जुनहृषीकैशौ पुनः पुनररिन्दमौ
ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम्
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ
तथा भवेनानुमतौ महासुरनिपातिनौ
इन्द्राविष्णू पुरा प्रीतौ जम्भस्य वधकाङ्क्षिणौ