धृतराष्ट्रः-
तस्मिन्प्रभग्ने सैन्याग्रे हन्यमाने किरीटिना
के नु तत्रार्जुनं युद्धे वीराः प्रत्युदियाद्रथी
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः
द्रोणमाश्रित्य तिष्ठन्ति प्राकारमकुतोभयाः
सञ्जयः-
तथाऽर्जुनेन सम्भग्ने तस्मिंस्तव महाबले
हतवीरे हतोत्साहे पलायनकृतक्षणे
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः
न कश्चित्तत्र सङ्ग्रामे शशाकार्जुनमीक्षितुम्
ततस्तु शतशो राजन्दृष्ट्वा सैन्यं तथागतम्
दुश्शासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात्
सकाञ्चनविचित्रेण कवचेन समावृतः
जाम्बूनदशिरस्त्राणश्शूरस्तीव्रपराक्रमः
नागानीकेन महता ग्रसन्निव महीमिमाम्
दुश्शासनो महाराज सव्यसाचिनमावृणोत्
युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः
स मुहूर्तं प्रतिभयो दारुणस्समपद्यत
ह्रादेन गजघण्टानां ज्याक्षेपनिनदेन च
शङ्खतूर्यप्रणादेन निनदेन च दन्तिनाम्
द्यावापृथिव्योर्विवरं सान्तर्देशं समावृणोत्
तान्दृष्ट्वाऽपततो नागान्शिक्षितैस्साधु चोदितान्
गृहीतहस्तान्संरब्धान्सपक्षानिव पर्वतान्
सिंहनादेन महता नरसिंहो धनञ्जयः
तस्याचलघनप्रख्यं पताकाशतसङ्कुलम्
गजानीकममित्राणामभितो व्यधमच्छरैः
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्
किरीटी तद्गजानीकं प्राविशन्मकरो यथा
खमाश्रित इवादित्यः प्रतपन्युगसङ्क्षये
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः
खुरशब्देन चाश्वानां नेमिशब्देन तेन च
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च
देवदत्तस्य घोषेण गाण्डीवनिनदेन च
मन्दवेगतरा नागा बभूवुस्रस्तचेतसः
शरव्रातमये सत्रे वितते सव्यसाचिना
ते गजास्समसीदन्त मग्नाः पङ्कार्णवेष्विव
युगपच्च समाविष्टैश्शरैर्गाण्डीवधन्वनः
अनेकशतसाहस्रैर्द्रुमा मधुकरैरिव
पुङ्खावशिष्टैर्बहुभिश्शोणितोत्पीडवाहिनः
आरावं परमं कृत्वा सपताकायुधध्वजाः
सोत्तरायुधिनः पेतुश्छिन्नपक्षा इवाद्रयः
अपरे दन्तवेष्टेषु कुम्भेष्वक्षिकरेषु च
शरैस्समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः
गजस्कन्धगतानां च पुरुषाणां किरीटिना
छिद्यन्ते चोत्तमाङ्गानि भुल्लैस्सन्नतपर्वभिः
सकुण्डलानां पततां शिरसां धरणीतले
पद्मानामिव सम्पातैः पार्थश्चक्रे निवेदनम्
यन्त्रबद्धा विकवचा व्यंसाश्च रुधिरोक्षिताः
भ्रममाणेषु नागेषु मनुष्यास्तु ललम्बिरे
केचिदेकेन बाणेन सुमुक्तेन सुपत्रिणा
द्वौ त्रयश्च विनिर्भिन्ना निपेतुः पृथिवीतले
अपरे मदसंरब्धा मातङ्गाः पर्वतोपमाः
पेतुः पृथिव्यां निहता वज्ररुग्णा इवाचलाः
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः
सारोहा न्यपतन्नुर्व्यां द्रुमवन्त इवाचलाः
ततोऽर्जुनो भृशं क्रुद्धः प्रदहन्निव तेजसा
ववर्ष शरवर्षाणि योधानामनिवर्तिनाम्
मौर्वीं धनुर्ध्वजं चैव युगमक्षमवस्करम्
रथिनां कुट्टयामास भल्लैस्सन्नतपर्वभिः
न सन्दधानश्चापस्य न विमुञ्चन्न चोद्यमन्
मण्डलेनैव धनुषा नित्यं पार्थस्स्म दृश्यते
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले
उत्थितान्यगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले
सचापास्साङ्गुलित्राणास्सखड्गास्सगदा रणे
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः
अवस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः
निहतैर्वारणैरश्वैः क्षत्रियैश्च महाबलैः
अदृश्यत मही तत्र दारुणप्रियदर्शना
दुःशासनबलं सर्वं वध्यमानं किरीटिना
सम्प्राद्रवन्महाराज व्यथितं हतनायकम्
एवं बले द्रुते याति राजपुत्रं महारथम्
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्
अर्जुनः-
जीवितेन कथं गन्ता दुरुक्तं यावदद्य ते
तद्वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे
सञ्जयः-
एवमुक्त्वा ततो राजन्पार्थः पार्थिवमर्दनः
भृशं क्रुद्धो महाराज अविध्यत्तनयं तव
ततो दुःशासनस्त्रस्तस्सहानीकश्शरार्दितः
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात्
सञ्जयः-
दुःशासनबलं हत्वा सव्यसाची परन्तपः
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत्
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत्
अर्जुनः-
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे
तव प्रसादादिच्छामि प्रवेष्टं दुर्भिदां चमूम्
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च
धौम्यकृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते
अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ
तथाऽहमपि ते रक्ष्यस्सदैव द्विजसत्तम
सञ्जयः-
भवत्प्रसादादिच्छेयं सिन्धुराजानमाहवे
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो
एवमुक्तस्तदाऽऽचार्यः प्रत्युवाचार्जुनं स्मयन्
द्रोणः-
मामजित्वा न बीभत्सो शक्यो प्राप्तुं जयद्रथम्
सञ्जयः-
एतावदुक्त्वा तं द्रोणश्शरव्रातैरवाकिरत्
सरथाश्वध्वजं बाणैः प्रहरन् सहसारथिम्
ततोऽर्जुनश्शरव्रातान्द्रोणस्यावार्य सायकैः
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः
विव्याध च रणे द्रोणमनुमान्य विशाम्पते
क्षत्रधर्मं समास्थाय नवभिस्सायकोत्तमैः
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ
विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ
इयेष पाण्डवस्तस्य छेत्तुं बाणैश्शरासनम्
तस्य चिन्तयतस्त्वेव फल्गुनस्य महात्मनः
द्रोणश्शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान्
विव्याध च हयानस्य ध्वजं सारथिमेव च
अर्जुनं च शरैर्द्रोणस्स्मयमानोऽभ्यवाकिरत्
एतस्मिन्नन्तरे पार्थस्सज्यं कृत्वा महद्धनुः
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम्
गृहीत्वा षट्शतान्बाणान्मुमोचैकमिव द्रुतम्
पुनस्सप्तशतानन्यान्सहस्रं तिग्मतेजसः
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम्
तैस्सम्यगस्तैर्बलिना कृतिना चित्रयोधिना
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः
विसूताश्वध्वजाः पेतुस्सञ्छिन्नायुधजीविताः
रथिनो रथमुख्येभ्यस्सरथा बाणपीडिताः
चूर्णिताः क्षतसर्वाङ्गा वज्रानिलहुताशनैः
तुल्यरूपा द्विपाः पेतुर्गिर्यग्राम्बुदवर्ष्मणः
पेतुरश्वसहस्राणि प्रयुतान्यर्बुदानि च
हंसा हिमवतः पृष्ठे वारिविप्रहता इव
रथाश्वद्विपपत्त्योघास्सलिलौघा इवाद्भुताः
युगान्तादित्यरश्म्याभैः पाण्डवस्य शरैर्हताः
तत्पाण्डवादित्यशरांशुजालं कुरुप्रवीरान्युधि निष्टपन्तम्
स द्रोणमेघश्शरवृष्टिवेगैः प्राच्छादयन्मेघ इवार्करश्मीन्
अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना
वक्षस्यभ्याहनद्द्रोणो नाराचेन धनञ्जयम्
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाऽचलः
धैर्यमास्थाय बीभत्सुर्द्रोणं विव्याध सप्तभिः
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिश्शरैः
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः
प्रसक्तान्गच्छतोऽपश्यन् भारद्वाजस्य सायकान्
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम्
तेऽभ्ययुस्समरे राजन्वासुदेवधनञ्जयौ
द्रोणसृष्टास्सुबहवः कङ्कपत्रपरिच्छदाः
तत्राद्भुतमपश्याम शिलानामिव सर्पणम्
यद्द्रोणं तरसा पार्थो वृद्धं बालोऽपि नातरत्
चिन्तयामास वार्ष्णेयो दृष्ट्वा द्रोणस्य विक्रमम्
नातिवर्तिष्यते ह्येनं वेलामिव महार्णवः
ततः पार्थं समुद्विग्नं लक्ष्य चिन्तयतेऽच्युतः
द्रोणस्य चापि विक्रान्तं दृष्ट्वा मधुनिषूदनः
इत्यब्रवीद्वासुदेवो धनञ्जयमुदारधीः
श्रीभगवान्-
पार्थपार्थ महाबाहो न नः कालात्ययो भवेत्
द्रोणमुत्सृज्य गच्छामो ब्राह्मणोऽसौ गतक्लमः
सञ्जयः-
तं पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशवम्
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः
परिवृत्तश्च बीभत्सुर्गच्छन्नस्यञ्शिताञ्शरान्
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते
ननु नाम रणे शत्रूनजित्वा न प्रतिष्ठसे
अर्जुनः-
गुरुर्भवान्न मे शत्रुश्शिष्यः पुत्रसमोऽस्मि ते
न चास्ति स पुमाल्ँलोके यस्त्वां क्रुद्धमभिद्रवेत्
सञ्जयः-
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत्
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ
अन्वयातां महात्मानौ विशन्तं तावकीं चमूम्
ततो जयो महाराज कृतवर्मा च सात्वतः
काम्भोजश्च श्रुतायुश्च धनञ्जयमवारयन्
तेषां दशसहस्राणि रथानामनुयायिनाम्
अभीषाहाश्शूरसेनाश्शिबयोऽथ वसातयः
मच्छिल्लिका लिलिन्ध्राश्च केकया मद्रकास्तथा
नारायणाश्च गोपालाः काम्भोजानां च ये गणाः
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसम्मताः
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्
त्यजन्तं तुमुले प्राणान्सन्नद्धं चित्रयोधिनम्
गाहमानमनीकानि मातङ्गमिव यूथपम्
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन्
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
अन्योन्यं वै प्रार्थयतां योधानां जयगर्धिनाम्
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम्