सञ्जयः-
व्यूढेषु तव सैन्येषु समुत्कृष्टेषु मारिष
नाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च
अनीकानां च संह्रादे वादित्राणां च निस्स्वने
प्रध्मापितेषु शङ्खेषु सन्नादे रोमहर्षणे
प्रगृहीतेषु शस्त्रेषु भारतेषु युयुत्सुषु
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत
बलानां वायसानां च पुरस्तात्सव्यसाचिनः
पिशितासृग्भुजां सङ्घाः प्रलीयन्ते सहस्रशः
मृगाश्च घोरसन्नादाः शिवाश्चाशिवदर्शनाः
दक्षिणेन प्रयातानामस्माकं नेदुरध्वनि
लोकक्षये महाराज यादृशास्तादृशा हि ते
अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्कास्सहस्रशः
चचाल च मही सर्वा भये घोरे समुत्थिते
विष्वग्वातास्सनीहारा नीचैश्शर्करकर्षिणः
ववुरायाति कौन्तेये सङ्ग्रामे समुपत्थिते
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा
ततो रथसहस्रेण द्विरदानां शतेन च
त्रिभिरश्वसहस्रैश्च पदातीनां शतैश्शतैः
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव
अग्रतस्सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्
दुर्मर्षणः-
अद्य गाण्डीवधन्वानं समरे युद्धदुर्मदम्
अहमावारयिष्यामि वेलेव मकरालयम्
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्
विषक्तं मयि दुर्धर्षं भिन्नं कुम्भमिवाश्मनि
सञ्जयः-
ततोऽर्जुनो महाराज महात्मा महतां पतिः
महारथसमाख्यातो महेष्वासो व्यवस्थितः
कक्षाग्निरिव दुस्स्पर्शस्सवज्र इव वासवः
दण्डपाणिरिवासह्यो मृत्युः कालप्रचोदितः
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव
युगान्ताग्निरिवार्चिष्मान्दिधक्षुस्स्थास्नुजङ्गमम्
क्रोधामर्षबलोपेतो निवातकवचान्तकः
युद्धे जेता स्थितस्सत्ये पारयिष्यन्महाव्रतम्
आमुक्तकवचः खड्गी जाम्बूनदकिरीटवान्
शुभ्रवर्माम्बरधरस्स्वङ्गदी चारुकुण्डलः
रथप्रवरमास्थाय नरो नारायणानुगः
विधून्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः
अग्रानीकस्य सोऽध्यर्ध इषुपाते धनञ्जयः
व्यवस्थाप्य रथं सज्जं शङ्खं प्रादध्मापयत् प्रभुः
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह वीर्यवान्
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा
तयोश्शङ्खप्रणादेन तव सैन्यं विशां पते
संहृष्टरोममुद्विग्नं महद्भयमभूत्तदा
यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिस्स्वनात्
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः
प्रसुस्रुवुश्शकृन्मूत्रं वाहनानि च सर्वशः
तथा प्रबलमुद्विग्नं महद्बलमभूत्तव
सीदन्ति स्म नरा राजञ्शङ्खशब्देन भारत
विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः
अकरोद्व्याददे चास्यं भीषयंस्तव सैनिकान्
ततश्शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैस्सह
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः
सिंहनादैस्समुत्क्रुष्टैस्समाहूय परस्परम्
तस्मिन् सुतुमुले शब्दे भीरूणां भयवर्धने
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः
अर्जुनः-
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणस्स्थितः
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्
सञ्जयः-
एवमुक्तो महाबाहुः केशवस्सव्यसाचिना
समचूचुददश्वांस्तान्यत्र दुर्मर्षणस्स्थितः
स सम्प्रहारस्तुमुलस्सम्प्रवृत्तस्सुदारुणः
एकस्य च बहूनां च कटुको रोमहर्षणः
शरवर्षेण महता पर्जन्य इव वृष्टिभिः
परानवाकिरत्पार्थः पर्वतानिव वारिदः
ते चापि रथिनस्सर्वे त्वरिताः कृतहस्तवत्
अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि
शिरांसि रथिनां पार्थः कायेभ्योऽपातयत्क्षितौ
उद्भ्रान्तनयनैर्वक्त्रैः अमर्षाद्भ्रुकुटीकृतैः
तथैव क्रोधचष्टिष्ठैरवाकीर्यत मेदिनी
पुण्डरीकवनानीव निरस्तानि समन्ततः
विनिकीर्णानि योधानां वदनानि चकाशिरे
सुवर्णचित्राभरणाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः
शिरसां पततां राजञ्शब्दोऽभूद्वसुधातले
कालेन परिपक्वानां तालानां पततामिव
कबन्ध उत्थितः कश्चिद्विष्फार्य सशरं धनुः
किञ्चित्सुनिशितं खड्गं भुजेनोद्यम्य तिष्ठति
गृहीत्वाऽन्यस्य केशेषु शिरो नृत्यति चापरः
पतितानि न जानन्ति शिरांसि पुरुषर्षभाः
अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगर्द्धिनः
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत
अयं पार्थः कुतः पार्थः पार्थोऽयमिति सर्वशः
तिष्ठ पार्थेहि मां पार्थ क्व यासीति च जल्पताम्
तव सैन्यस्थयोधानां पार्थभूतमिवाभवत्
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे
पार्थभूतममन्यन्त जनाः कालेन मोहिताः
निष्टनन्तो विरुधिरा विसञ्ज्ञा गाढवेदनाः
शयाना बहवो वीराः कीर्तयन्तश्च बान्धवान्
सभिण्डिपालास्सप्रासास्समुद्गरपरश्वथाः
सतोमरास्सनिर्व्यूहा सशरास्सशरासनाः
सहासिचर्मावरणास्सहस्ताभरणाङ्गदाः
महाभुजगसङ्काशा बाहवः परिघोपमाः
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः
वेगं कुर्वन्ति संरब्धा निकृत्तास्सव्यसाचिना
यो यस्स्म समरे पार्थं प्रतिसंरभते नरः
तस्य तस्यान्तको बाणश् शरीरमुपसर्पति
यत्तस्य यतमानस्य क्षिप्रमाक्षिपतश्शरान्
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्तापरे जनाः
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तदा
न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि
हस्तिनं हस्तियन्तारमश्वमश्वप्रयायिनम्
अभिनत्पाण्डवो बाणै रथिनं च ससारथिम्
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः
यथोदयानस्समये सूर्यो हन्ति महत्तमः
तथाऽर्जुनो महानीकं व्यधमत्कङ्कपत्रिभिः
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत
अादिकाले यथा भूमिर्विनिक्षिप्तमहीधरा
यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिस्सदा
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप
प्रहृतं द्रुतमाविग्नमतीव शरपीडितम्
मारुतेनेव महता मेघानीमुदीरितम्
प्रकाल्यमानं तत्सैन्यं नाशक्नोति स्म चेष्टितुम्
प्रतोदैश्चापकोटीभिः फीट्कारैस्साधुवादितैः
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे
शरैस्सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः
तव योधा महोत्साहा विभ्रान्तमनसस्तदा