सञ्जयः-
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान्
गतोदके सेतुबन्धो यादृक्तादृगयं तव
विलापो निष्फलो राजन्न तु शक्यमशोचितुम्
अनतिक्रमणीयो हि कृतान्तस्य कृतो विधिः
मा शुचो भरतश्रेष्ठ तवैवापनयो महान्
यदि त्वं हि पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम्
न्यवारयिष्यः प्रीतात्मा नाबविष्यज्जनक्षयः
युद्धकाले पुनः प्राप्ते तथैव भरतर्षभ
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत्
दुर्योधनं चाविधेयं बध्नीयास्त्वं पुरा यदि
अवेक्ष्य कौरवान्राजन्प्राप्स्यसे सुमहद्यशः
तत्ते बुद्धिव्यतीचारमुपलप्स्यन्ति तं जनाः
पाञ्चाला वृष्णयश्चैव ये चान्येऽपि नराधिपाः
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य राजसु
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत्
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम्
तत्ते विलपितं राजन् मया सर्वं निशामितम्
अर्थे निविशमानस्य विषमिश्रं यथा मधु
न तथा मन्यते कृष्णो न च राजा युधिष्ठिरः
न भीष्मो वै न च द्रोणो यथा त्वं मन्यसे नृप
व्यजानन्त यदा तु त्वां लुब्धं धर्मप्रवादिनम्
तदा प्रभृति कृष्णस्त्वां न तथा बहुमन्यते
अर्थे निविशमानांश्च पुरा पार्थानुपेक्षसे
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम्
पितृपैतामहं राज्यमपावृत्तं त्वयाऽनघ
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः
पाण्डुनाऽधिष्ठितं राज्यं कौरवाणां यशस्तथा
एतच्चाप्यधिकं भूयः पाण्डवैर्धर्मचारिभिः
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्
त्पैत्र्याद्धि भ्रंशिता राज्यात्त्वयैवामिषगृद्धिना
यत्पुनर्युद्धकाले तु पुत्रं गर्हयसे नृप
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे
चमूं विगाह्य पार्थानां क्षत्रिया जयकाङ्क्षिणः
यत्तां कृष्णार्जुनोपेतां ससत्यकवृकोदराम्
कोऽत्र तां प्रतियुध्येत चमूमन्यत्र कौरवात्
येषां गोप्ता गुडाकेशो येषां मन्त्री जनार्दनः
येषां च सात्यकिर्गोप्ता येषां योद्धा वृकोदरः
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः
यावत्तु शक्यते कर्तुमन्तरक्तैर्जनाधिप
क्षत्रधर्मरतैश्शूरैस्तावत्कुर्वन्ति कौरवाः
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्
कुरूणां पाण्डवैस्सार्धं तत्सर्वं शृणु तत्त्वतः
तस्यां निशायां व्युष्टायां द्रोणश्शस्त्रभृतां वरः
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः
शूराणां गर्जतां राजन्सङ्क्रुद्धानाम्मनीषिणाम्
श्रूयन्ते स्म गिरश्चात्र परस्परमवेक्षताम्
विष्फाल्य धनुरुद्यम्य केयूरमवमृज्य च
विनिश्श्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्
पीतानाकाशसङ्काशानसीनुच्चिक्षुपुर्जनाः
चरन्तस्त्वसिमार्गांश्च शरर्मार्गांश्च शिक्षिताः
दृश्यन्ते कुञ्जरैश्चान्ये वाजिभिश्च युयत्सवः
सघण्टाश्चन्दनादिग्धास्स्वर्णवज्रविभूषिताः
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ||
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः
चक्रुस्सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः
नानाप्रहरणैश्चान्ये नानारञ्जितवाससः
सङ्ग्राममनसश्शूरास्तत्र तत्र व्यवस्थिताः
क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः
क्व च ते सुहृदस्तेषामाह्वयानास्तदा रणे
ततश्शङ्खमुपाध्माय त्वरयन्वाजिनस्स्वयम्
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवशोभिषु
भारद्वाजो महाराज जयद्रथमथाब्रवीत्
द्रोणः-
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा
शतं चाश्वसहस्राणां रथानामयुतानि षट्
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश
पदातीनां सहस्राणां सहस्राण्यपि पञ्च च
योजनेषु त्रिमात्रासु मम सैन्यस्य पृष्ठतः
तत्र स्थितं न सोढुं त्वां अलं लोकास्सदेवताः
किं पुनः पाण्डवास्सर्वे समाश्वसिहि सैन्धव
सञ्जयः-
एवमुक्तस्समाश्वस्तस्सिन्धुराजो जयद्रथः
सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः
ते चैव सप्तसाहस्रास्त्द्विसाहस्राश्च सैन्धवाः
मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव
अग्रतस्सर्वसैन्यानां योत्स्यमानो व्यवस्थितः
ततो दुश्शासनश्चैव विकर्णश्च तवात्मजौ
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः
व्यूहस्स शकटो नाम भारद्वाजेन निर्मितः
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः
रथाश्वगजपत्त्योघैर्द्रोणेन विहितस्स्वयम्
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः
सूचीपद्मस्य मध्यस्थो दृढव्यूहो जयद्रथः
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः
अनन्तरं च काम्भोजो जलसन्धश्च वीर्यवान्
दुर्योधनस्सहामात्यास्तदनन्तरमेव च
ततश्शतसहस्राणि योधानानमनिवर्तिनाम्
व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणाम्
तेषां पृष्ठगतो राजन् बलेन महता वृतः
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः
नात्र तस्याभवद्भेदो जुगोपैनं ततस्स्वयम्
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः
तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान्
पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्
सिद्धचारणसङ्घानां विस्मयस्सुमहानभूत्
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्
सशैलसागरवनां नानाजनपदाकुलाम्
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिस्स्वनमद्भुताभ्ररूपम्
अहितहृदयभेदिनं महान्तं शकटमवेक्ष्य कृतं ननन्द राजा