सञ्जयः-
तथा तु सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्
तं प्रविष्टं शुभां कक्ष्यामभिवन्द्याग्रतस्स्थितम्
समुत्थायासनात्प्रेम्णा सस्वजे पाण्डवोऽर्जुनम्
मूर्ध्नि चैनमुपाघ्राय परिमृज्य च पाणिना
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत
युधिष्ठिरः-
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्तव जयो महान्
तादृग्रूपा हि ते च्छाया प्रसन्नश्च जनार्दनः
सञ्जयः-
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्
ततस्तत्कथयामास यथादृष्टं धनञ्जयः
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम्
ततश्शिरोभिरवनिं स्पृष्ट्वा सर्वे सुविस्मिताः
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्
अनुज्ञातास्ततस्सर्वे सुहृदो धर्मसूनुना
त्वरमाणास्सुसन्नद्धास्तुष्टा युद्धाय निर्ययुः
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ
जग्मतुस्सहितौ वीरावर्जुनस्य निवेशनम्
तत्र गत्वा हृषीकेशः कल्पयामास शास्त्रवित्
रथं महारथस्याजौ वानरर्षभलक्षणम्
स मेघसमनिर्घोषस्तप्तकाञ्चनभूषणः
बभौ रथवरः क्लृप्तश्शिशुर्दिवसकृद्यथा
ततः पुरुषशार्दूलस्सज्जं सर्वं न्यवेदयत्
रथं पुरुषसिंहस्य सध्वजं सपताकिनम्
स तु लोके वरः पुंसां किरीटी हेमवर्मधृक्
बाणी भाणासनी वाहं प्रदक्षिणमवर्तत
अथ विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः
स्तूयमानो जयाशीर्भिरारुरोहार्जुनो रथम्
जैत्रैस्साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः
विबभौ बहुलार्चिष्मान्मेराविव दिवाकरः
अन्वारूढौ ततः पार्थं तत्र गोविन्दसात्यकौ
शर्यातियज्ञं गच्छन्तं यथा च्यवनमश्विनौ
अथ जग्राह गोविन्दो रथरश्मीन्रथर्षभः
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः
स ताभ्यां शुशुभे पार्थो रथप्रवरमास्थितः
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी
सैन्धवस्य वधप्रेप्सुः प्रयातश्शत्रुपूगहा
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये
ततो वादित्रनिर्घोषैश्च मङ्गलैश्च शुभैस्स्तवैः
प्रयान्तमर्जुनं सङ्ख्ये मागधाश्चापि तुष्टुवुः
सजयाशीस्सुपुण्याहस्सूतमागधनिस्स्वनैः
युक्तो वादित्रघोषेण तेषां प्रीतिकरोऽभवत्
तमनुप्रवणो वायुः पुण्यगन्धश्शिवश्शुचिः
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन्
प्रादुरासन्निमित्तानि बहूनि विजयाय च
पाण्डवानां त्वदीयानां विपरीतानि मारिष
ततस्सम्प्रेक्ष्य तत्सर्वं विजयस्वं प्रदक्षिणम्
सैन्येषु सात्यकं सत्यमिदं वचनमब्रवीत्
अर्जुनः-
युयुधानाद्य मे युद्धे दृश्यते विजयो ध्रुवः
तथा हीमानि लिङ्गानि मनोज्ञानि भवन्ति मे
सोऽहं तत्र गमिष्यामि यत्र यातो जयद्रथः
गच्छ त्वं रक्ष राजानं त्वं हि तुल्यो मया रणे
यथैव च परं कृत्यं सैन्धवस्य वधे धृतम्
तथैव हि परं कृत्यं धर्मराजस्य रक्षणम्
स त्वमद्य महाबाहो राजानं परिपालय
यथैव हि मया गुप्तस्त्वया गुप्तस्तथा भवेत्
त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ
मय्यपेक्षा न कर्तव्या गोप्ताऽयं मम केशवः
राज्ञ एव परा गुप्तिः कार्या सात्यक सर्वदा
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम्
सञ्जयः-
एवमुक्तस्तु पार्थेन सात्यकः परवीरहा
तथेत्युक्त्वाऽगमत्तत्र यत्र राजा युधिष्ठिरः