सञ्जयः-
धार्तराष्ट्रस्य तं मन्त्रं स्मरन्नेव धनञ्जयः
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः
तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम्
आससाद महातेजा ज्वलन्वै गरुडध्वजः
प्रत्युत्थानं च कृष्णस्य सर्वावस्थासु फल्गुनः
न लोपयति धर्मात्मा भक्त्या प्रेम्णा च नित्यशः
प्रत्युत्थाय स गोविन्दं स्वं तस्मै चासनं ददौ
नासने च तथा बुद्धिं बीभत्सुर्व्यदधात्स्वयम्
ततः कृष्णो महातेजा जानँल्लोकस्य निश्चयम्
कुन्तीपुत्रमिदं वाक्यमासीनस्स्थितमब्रवीत्
श्रीभगवान्-
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः
कालस्सर्वाणि भूतानि नियच्छति भवाभवे
किमर्थं च विषादस्ते तद्ब्रूहि द्विपदां वर
न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान्
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि
सञ्जयः-
तथोक्तो वासुदेवेन बीभत्सुरपराजितः
बभाषे हि तदा विद्वानिदं वचनमर्थवत्
अर्जुनः-
मया प्रतिज्ञा महती जयद्रथवधे कृता
श्वो हन्तास्मि दुरात्मानं पुत्रघ्नमिति केशव
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत
पृष्ठतस्सैन्धवः कार्यस्सर्वैर्गुप्तो महारथैः
दश चैका तथा कृष्ण अक्षौहिण्यस्सुदुर्जयाः
प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः
दुःखापायस्य मे वीर विकाङ्क्षा परिवर्तते
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम्
सञ्जयः-
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखस्समवस्थितः
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे धृतः
श्रीभगवान्-
पार्थ पाशुपतं नाम महास्त्रं तत्सनातनम्
येन दैत्या मृधे सर्वे निहताश्शूलपाणिना
यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम्
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम्
तं देवं मनसा ध्यायन् जोषमास्स्व धनञ्जय
ततस्तस्य प्रसादात्त्वं भक्त्या प्राप्स्यसि तन्महत्
सञ्जयः-
ततः कृष्णवचश्श्रुत्वा संस्पृश्याम्भो धनञ्जयः
भूमावासीत्समापन्नो जगाम मनसा शिवम्
ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम्
ज्योतिर्भिश्च समाकीर्णं सिद्धगन्धर्वसेवितम्
वायुवेगगतिः पार्थः खं भेजे सहमाधवः
केशवेन गृहीतस्स दक्षिणे विभुना भुजे
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान्
उदीच्यां दिशि धर्मात्मा सोपश्यच्छ्वेतपर्वतम्
कुबेरस्य विहारं च नलिनीं पद्मभूषिताम्
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम्
सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोदकाम्
सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम्
पुण्याश्रमवतीं रम्यां मनोज्ञां द्विजशोभिताम्
मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान्
हेमरूप्यमयैश्शृङ्गैर्नानौषधिविभूषितान्
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान्
स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम्
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्
ब्रह्मतुङ्गनदीं चान्यां नानाजनपदानपि
सुशृङ्गं शतशृङ्गं च शय्यानागं तथैव च
पुण्यमश्वशिरस्थानं स्थानमाथर्वणस्य च
वृषदंशं च शैलेन्द्रं महामन्दरमेव च
अप्सरोभिस्समाकीर्णं विहारैश्चोपशोभितम्
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः
शुभैः प्रस्रवणैर्जुष्टां हेमधातुविभूषिताम्
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम्
समुद्रांश्चाद्भुताकारानपश्यन्सुबहुलाद्भुतान्
वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन्
विस्मितस्सह कृष्णेन क्षिप्तो बाण इवात्यगात्
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्
प्रेक्षते स्म तदा पार्थो ज्वलन्तमिव पर्वतम्
समापन्नस्तु तं देशं शैलाग्रे समवस्थितम्
तपोनित्यं महात्मानमपश्यद्वानरध्वजम् ||
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा
शूलिनं जटिलं शीर्णवल्कलाजिनवाससम्
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम्
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरम्
गीतवादित्रसंवादैस्तालनर्तनलासितैः
वग्लितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम्
स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः
गोप्तारं सर्वलोकानामिष्वासवरमच्युतम्
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम्
लोकादिं विश्वकर्माणमजमीशानमव्ययम्
मनसः परमं योनिं खं वायुं ज्योतिषां निधिम्
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्
देवदानवयक्षाणां मनुष्याणां च शासकम्
योगिनां परमं ब्रह्म व्यक्तं वेदविदां निधिम्
परावरस्य स्रष्टारं प्रतिहर्तारमेव च
कालकेयं महात्मानं शक्रसूर्यगुणोदयम्
ववन्दतुस्तदा कृष्णौ वाङ्मनोबुद्धिकर्मभिः
यं प्रपश्यन्ति विद्वांसस्सूक्ष्माध्यात्मनिदर्शनात्
तमजं कारणात्मानं जग्मतुश्शरणं भवम्
अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत
ज्ञात्वैवं सर्वलोकादिं भूतं भव्यं भवत्प्रभुम्
शरण्यं शरणं देवमीशानं परमेश्वरम्
जगाम जगतां नाथमर्जुनस्सजनार्दनः
ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ
सुप्रसन्नमनाश्शर्व उवाच प्रहसन्निव
श्रीशिवः-
स्वागतं वां नरव्याघ्रौ विक्लवं च न तिष्ठताम्
किं च वामीप्सितं वीरौ मनसा क्षिप्रमुच्यताम्
केन कार्येण सम्प्राप्तौ युवां तत्साधने रतौ
व्रियतामात्मनश्श्रेयस्तत्सर्वं च ददानि वाम्
सञ्जयः-
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली
वासुदेवार्जुनौ शर्वं तुष्टावतुरविह्वलौ
कृष्णार्जुनौ-
नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यमुग्राय च कपर्दिने
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे
विलोहिताय धूम्राय व्यालयज्ञोपवीतिने
महादेवाय भीमाय त्र्यम्बकाय शिवाय च
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने
नित्यं नीलशिखण्डाय शूलिने दैत्यघातिने
होत्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे
तपसे तप्यमानाय ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
नमो नमोऽस्तु सेव्याय भूतानां प्रभवे सदा
अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा
ब्रह्मवक्त्राय कान्ताय शङ्कराय शिवाय च
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः
नमो विश्वस्य पतये पत्तीनां पतये नमः
नमः सहस्रशिरसे सहस्रभुजमन्यवे
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे
नमो हिरण्यवर्णाय हिरण्यकवचाय च
नमोऽस्तु देवदेवाय महाभूतधराय च
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो
सञ्जयः-
एवं स्तुत्वा महादेवं वासुदेवस्सहार्जुनः
अर्जुनाय ददौ बुद्धिं तस्मिन्नस्त्रे यदीप्सितम्
ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम्
ददर्शोत्फुल्लनयनस्समस्तं तेजसां निधिम्
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः
ददर्श त्र्यम्बकाभ्याशे वासुदेवे निवेदितम्
ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम्
ततः पार्थस्य विज्ञाय वरार्थं वचनं विभुः
वासुदेवार्जुनौ वीरौ स्मयमानोऽभ्यभाषत
श्रीशिवः-
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ
तत्र मे तद्धनुर्दिव्यं शराश्च निहिताश्शुभाः
येन देवारयस्सर्वे मया युधि निषूदिताः
तद्वामेतद्द्वयं कृष्णौ तदिहानयत द्रुतम्
सञ्जयः-
तथेत्युक्त्वा तु तं देवं शर्वं पारिषदैस्सह
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतायुतम्
निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम्
तज्जग्मतुरसम्भ्रान्तौ नरनारायणावृषी