सञ्जयः-
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता
सुभद्रा-
हा पुत्रा मम मन्दायाः कथं संयुगमेयिवान्
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः
कथमिन्दीवराभासं सुदंष्ट्रं चारुलोचनम्
मुखं ते दृश्यते वत्स कुण्ठितं रणपांसुभिः
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं तनूदरम्
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्
भूतानि त्वां निरीक्षन्ते भूमौ चन्द्रमिवोदितम्
शयनीयं पुराऽध्युष्य स्पर्ध्यास्तरणसंवृतम्
भूमावद्य कथं शेषे विप्रविद्धविभूषणः
योऽन्वास्यसे पुरा वीर वरस्त्रीभिर्महाभुजः
कथमन्वास्यसे सोऽद्य शिवाभिः पतितो मृधे
यस्स्तूयसे पुरा हृष्टैस्सूतमागधवन्दिभिः
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्येत
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभि भो
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत्
यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः
अतृप्तदर्शना पुत्र दर्शने तव चानघ
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्
विशालाक्षं सुकेशान्तं चारुहासं सुगन्धि च
तव पुत्र कथं वक्त्रं भूयो द्रक्ष्यामि निर्व्रणम्
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मतः
धिग्बलं वृष्णिवीराणां पाञ्चालानां च धिग्बलम्
धिक्केकयांस्तथा मत्स्यांश्चेदिपाण्डवसृञ्जयान्
ये त्वां रणगतं वीरं नारक्षन्विनिपातितम्
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डवीधन्वनः
कथं त्वाऽतिरथं वीरं पश्याम्यद्य निपातितम्
अद्य पश्यामि पृथिवीं शून्यामिव गतद्विषम्
अभिमन्युमपश्यन्ती शोकव्याकुललोचना
साक्षान्मघवतः पौत्रं पुत्रं गाणडीवधन्वनः
स्वस्रीयं वासुदेवस्य तं गृध्राः पर्युपासते
हा दृष्टो वीर नष्टश्च स्वप्न रम्य इवासि मे
अहो सत्यं हि मानुष्यं जलबुद्बुदवच्चलम्
इमां ते तरुणीं भार्यां पुत्राधिभिरभिप्लुताम्
उत्तरामुत्तमां जात्या सुशीलां प्रिय भाषिणीम्
शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम्
सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम्
बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम्
बिम्बाधरोष्ठीमबलामभिमन्यो प्रहर्षय
त्वया विना कथं पुत्र जीर्णां पतितमानसाम्
इमां सन्धारयिष्यामि वृषभादिव धेनुकाम्
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक
विहाय फलकाले मां प्रगृद्धां तव दर्शने
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुस्तरा
यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्
अपराङ्मुखानां समरे तां गतिं व्रज पुत्रक
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः
वैदेशिकानां चाभिमतं ददतां या गतिर्भवेत्
ब्रह्मचर्येण यां यान्ति मुनयस्संशितव्रताः
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती
चरमाश्रमिणां पुण्यैस्सेवितानां पुरस्स्थितैः
दीनानुकम्पिनां या च सततं संविभागिनाम्
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि
अमोघातिथिनां चैव या च तां व्रज पुत्रक
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्
अनन्यदारसेवीनां तां गतिं व्रज पुत्रक
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः
अदारुणानां क्षमिणां या गतिस्तामवाप्नुहि
मधुमांसनिवृत्तानां मदाद्दम्भात्तथाऽनृतात्
परोपतापादन्यायात्तां गतिं व्रज पुत्रक
यज्वानस्सर्वधर्मज्ञा ज्ञानतृप्ता जितेन्द्रियाः
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक
सञ्जयः-
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा
विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्
श्रीभगवान्-
सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता
मानुशोचीस्सुभद्रे त्वं स्नुषां चाश्वासयोत्तराम्
उन्मत्तवत्तदा राजन्विसञ्ज्ञा पतिता क्षितौ
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः
ये चान्ये च कुले सन्तः पुरुषाणां वरानने
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः
सिक्त्वाऽम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः
सर्वे न तां गतिं यान्ति याऽभिमन्योर्यशस्विनः
कुर्याम तद्वयं कर्म कुर्युर्यत्सुहृदश्च नः
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः
सञ्जयः-
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्
पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः
ततोऽभ्यनुज्ञाय गृहं कृष्णं चान्यांश्च पार्थिवान्
विवेशान्तःपुरे राजा तेऽपि जग्मुस्स्वमालयम्
ततोऽर्जुनस्य शिबिरं प्रविश्याप्रतिमं भुवि
स्पृष्ट्वाऽम्भः पुण्डरीकाक्षस्स्थण्डिले शुभलक्षणे
सन्तस्तार शुभां शय्यां दर्भैर्वैदूर्यसन्निभैः
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः
ततस्स्पृष्टोदकं पार्थं विनीतपरिचारकम्
नैत्यकं दर्शयाञ्चक्रे नैशं त्रैयम्बकं बलिम्
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम्
अलङ्कृत्योपहारं च नैशमस्मै न्यवेदयत्
साधुसाध्विति गोविन्दः फल्गुनं प्रत्यभाषत
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम्
स्थापयित्वा ततो द्वास्थान्गोप्तॄंश्चात्तायुधान्नरान्
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम्
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन्
पार्थाय सर्वं भगवाञ्शोकदुःखापहं विधिम्
व्यदधात्पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम्
योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियङ्करः
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम्
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते
जनाः-
कष्टं हीदं व्यवसितं पाण्डवेनामितौजसा
पुत्रशोकाभिभूतेन प्रतिज्ञा महती कृता
भ्रातरश्चापि भूयिष्ठा मित्राणि विपुलानि च
धृतराष्ट्रस्य पुत्रेण सर्वतस्सन्निवेशिताः
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु जयी सुखी
स हत्वाऽरिगणं सङ्ख्ये पारयित्वा महाव्रतम्
यद्यस्ति सुकृतं किञ्चिदस्माकं हन्तु सैन्धवम्
जित्वा सर्वान्रिपून्पार्थस्त्रातु नोऽस्मान्महाभयात्
सृञ्जयः-
एवमाशंसमानास्ते केचित्तस्थुरुपश्रुतिम्
श्रुत्वा चेष्टं सुमनसो व्यक्तमाशंसिरे जयम्
भविता नः कथं कृत्यमिदमित्यब्रुवञ्जनाः
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति
न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि
महद्धि साहसं पार्थः कृतवाच्छोकमोहितः
धर्मपुत्रः कथं राजा करिष्यति सहानुगः
अर्जुने हि जयस्तेषामायत्तो जीवितानि च
यदि नस्सुकृतं किञ्चिद्यदि दत्तमथो हुतम्
फलेन तस्य सर्वस्य स जयत्वर्जुनो रिपून्
सञ्जयः-
एवं कथयतां तेषां जयमाशंसतामपि
कृच्छ्रेण सा महाराज रजनी ह्यत्यवर्तत
रजन्यामर्धयामायां प्रतिबुद्धो जनार्दनः
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत
श्रीभगवान्-
अर्जुनेन प्रतिज्ञातं पार्थेन हतबन्धुना
जयद्रथमहं हन्ता श्वोभूत इति दारुक
तत्तु दुर्योधनश्श्रुत्वा मन्त्रयिष्यति मन्त्रिभिः
यथा जयद्रथं पार्थो न हन्यादित्यसंशयम्
अक्षौहिण्यश्च तास्सर्वा रक्षिष्यन्ति न संशयः
द्रोणश्च सहपुत्रेण ये चान्ये प्रवरा रथाः
महावीर्यस्सहस्राक्षो दैत्यदानवसङ्घजित्
सोऽप्येनं नोत्सहेद्धन्तुं सङ्ख्ये द्रोणेन रक्षितम्
अहं तु श्वस्तथा कर्ता यथा कुन्तीसुतोऽर्जुनः
अप्राप्तेऽस्तं यथाऽऽदित्ये हन्ता पापं जयद्रथम्
न हि दारा न मित्राणि न पुत्रज्ञातयोऽपि वा
नान्यः कश्चित्प्रियतरो मर्त्यः पार्थाद्धनञ्जयात्
विनाऽर्जुनमिमं लोकं मुहूर्तमपि दारुक
नोत्सहे वीक्षितुं सूत सत्यमेव ब्रवीमि ते
अहं तु ध्वजिनीस्सर्वास्सहयास्सरथद्विपाः
अर्जुनार्थं हनिष्यामि सकर्णास्ससुयोधनाः॥
अद्य पश्यन्तु मे वीर्यं त्रयो लोका महामृधे
धनञ्जयार्थं समरे पराक्रान्तस्य दारुक
अद्य राजसहस्राणि राजपुत्रशतानि च
साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक
अद्य चक्रप्रमथितां द्रक्ष्यसि त्वं तु वाहिनीम्
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्
अद्य ज्ञास्यन्ति त्रिदशास्सासुरास्सचराचराः
वासुदेवस्य तां प्रीतिं पाण्डवेष्वनपायिनीम्
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः
यथा तु त्वं प्रभातायामस्यां निशि रथोत्तमम्
कल्पयित्वा समीपं मे आगच्छसि तथा कुरु
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुश्शरान्
आरोपय रथे सूत सर्वोपकरणानि च
स्थानं च कल्पतां तत्र रथोपस्थे ध्वजस्य मे
वैनतेयस्य वीरस्य समरेष्वभिशोभिनः
छन्नाञ्जाम्बूनदैर्जालैरर्कज्वलनसन्निभैः |
विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषय
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम्
श्रुत्वा भैरवमत्यर्थं जवेनैवोपयाहि माम्
श्वस्सदेवास्सगन्धर्वास्सयक्षाप्सरसोऽसुराः
ज्ञास्यन्ति लोकास्सर्वे मां सुहृदं सव्यसाचिनः
एकाह्नाऽहममर्षाच्च सर्वदुःखानि चाभि भो
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति
आशंसे स रणे तं तं तत्र तत्र हनिष्यति
दारुकः-
ध्रुव एव जयस्तस्य न तस्यास्ति पराजयः
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्
एवं चैतत्करिष्यामि यथा मामनुभाषसे
सुप्रभातामिमां रात्रिं जयार्थं विजयस्य च