सञ्जयः-
तां निशां भृशसन्तप्तौ निश्श्वसन्ताविवोरगौ
वासुदेवार्जुनौ वीरौ न स्वप्नमुपलेबतुः
नरनारायणौ क्रुद्धौ ज्ञात्वा देवास्सवासवाः
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति
ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः
सकबन्धस्तथाऽऽदित्ये परिघस्समदृश्यत
उल्काशन्यश्च निष्पेतुस्सनिर्घातास्सविद्युतः
चचाल चापि पृथिवी सशैलवनकानना
चुक्षुभुश्च महाराज सागरा मकरालयाः
प्रतिस्रोतःप्रवृत्तास्तु गन्तुं वै निम्नगास्तदा
गजाश्वनरनार्थं प्रवृत्तमधरोत्तरम्
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये
वाहनानि शकृन्मूत्रं मुञ्चन्ति च रुदन्ति च
दीनाश्च पार्थिवास्सर्वे नाशंसुर्जयमात्मनः
एवं सा व्यथिता सेना त्वदीया भरतर्षभ
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः
अर्जुनः-
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह
श्वश्रीस्नुषे भृशायस्ते विशोके कुरु माधव
साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो
सञ्जयः-
ततोऽर्जुनगृहं गत्वा वासुदेवस्सुदुर्मनाः
भगिनीं शोकसन्तप्तामाश्वासयत दुःखिताम्
श्रीभगवान्-
वार्ष्णेयि शोकं मा कार्षीः कुमारं प्रति सस्नुषा
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता
कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः
सदृशं मरणं ह्येतन्मा शोचीरात्मजस्य ते
दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम्
जित्वा च बहुशश्शत्रून्प्रेषयित्वा च मृत्यवे
गतः पुण्यकृताल्ँलोकान्सर्वकामदुहोऽक्षयान्
तपसा ब्रह्मचर्येण प्रज्ञया च श्रुतेन च
सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः
वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा
मा शुचस्तनयं भद्रे गतस्स परमां गतिम्
स्वाध्याययुक्तं ब्राह्मणी याचितारं गौर्वोढारं शीघ्रगन्तारमश्वा
दासं शूद्रा कर्मकारं तु वैश्या शूरं सूते त्वद्विधा राजपुत्री
ध्रुवं प्राप्स्यत्यसौ पापस्सैन्धवो बालघातकः
अधर्मस्यास्य तु फलं ससुहृद्गणबान्धवः
अस्यां निशायां व्युष्टायां निर्दयः पापकर्मकृत्
मोक्ष्यते न हि पार्थास्य प्रविष्टोऽप्यमरावतीम्
श्वश्शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम्
पद्भ्यां प्रमथितासि त्वं विशोका भव मा रुदः
क्षत्रधर्मं पुरस्कृत्य गतश्शूरस्सतां गतिम्
वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः
व्यूढोरस्को महाबाहुरनिवर्ती रिपुप्रणुत्
गतस्तव वरारोहे पुत्रस्स्वर्गं जहि ज्वम्
अनुजातः पितुः पक्षं मातृपक्षं च वीर्यवान्
सहस्रशो रिपून्हत्वा हतश्शूरो महारथः
आश्वासय वधूं भद्रे मा शुचः क्षत्रिया ह्यसि
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भवितासि हि
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्
यदि समनुजपन्नगाः पिशाचा रजनिचरास्सगणास्सुरासुराश्च
रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते