सञ्जयः-
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
वासुदेवो महाबुद्धिर्धनञ्जयमभाषत
श्रीभगवान्-
भ्रातॄणां पार्थिवानां च त्वया मध्ये प्रतिश्रुतम्
सैन्धवं श्वोऽस्मि हन्तेति तत्साहसमिदं कृतम्
असम्मन्त्र्य मया सार्धमतिभारोऽयमुद्यतः
कथं तु सर्वलोकस्य नापहास्या भवेमहि
धार्तराष्ट्रस्य शिबिरे ये तु प्रणिहिताश्चराः
त इमे समनुप्राप्ताः प्रवृत्तिं कथयन्ति नः
संश्रुते सिन्धुराजस्य वधे गाण्डीवधन्वना
सिंहनादस्सवादित्रस्सुमहानिह तैश्श्रुतः
तेन शब्देन वित्रस्ता धार्तराष्ट्रास्सबान्धवाः
नाकस्मात्सिंहनादोऽयमिति सर्वे व्यवस्थिताः
सुमहांश्चात्र सम्बाधः कौरवाणां महाभुज
आसीन्नराश्वपत्तीनां रथघोषश्च भैरवः
अभिमन्योर्वधं श्रुत्वा भृशमार्तो धनञ्जयः
रात्रौ निर्यास्यति क्रोधादिति सर्वे व्यवस्थिताः
तैश्चारेभ्य इयं कृत्स्ना श्रुता सत्यवतस्तव
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन
ततो विचेतसस्सर्वे त्रस्ताः क्षुभितमानसाः
आसन्सुयोधनामात्यास्स च राजा जयद्रथः
अथोत्थाय सहामात्यैर्दीनस्स्वशिबिरात्किल
अायात्सौवीरसिन्धूनामीश्वरो राजसंसदम्
सम्मन्त्र्य काले सामात्य आत्मनश्श्रेयसीं क्रियाम्
सुयोधनमिदं वाक्यमुक्तवान्राजसंसदि
जयद्रथः-
मामसौ पुत्रहन्तेति श्वोऽभियास्यति माऽर्जुनः
प्रतिश्रुतश्च सेनाया मध्ये तेन वधो मम
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः
उत्सहन्तेऽन्यथा कर्तुं यदुक्तं सव्यसाचिना
ते मां रक्षत सङ्ग्रामे मूर्ध्नि मा वो धनञ्जयः
पादं कृत्वाऽऽप्नुयाल्लक्ष्मीं युक्तं प्रतिविधीयताम्
अथ रक्षा न मे सम्यक्क्रियते कुरुनन्दन
अनुजानीहि मां राजन्यास्यामि स्वगृहानहम्
श्रीभगवन्-
अवाक्शिरास्त्वेवमुक्तो विमनास्ससुयोधनः
तप्ताभिशप्तवत्पार्थ ध्यानमेवान्वपद्यत
तमार्तमभिसम्प्रेक्ष्य राजा स किल सैन्धवः
साम्नैवात्महितं वाक्यं सापेक्षमिदमुक्तवान्
जयद्रथः-
नाहं पश्यामि भवतां तथा राजन्धनुर्धरम्
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महामृधे
वासुदेवसहायस्य गाण्डीवं धुन्वतो रणे
अर्जुनस्याग्रतो योद्धुं विभियादपि देवराट्
महेश्वरोऽपि पार्थेन श्रूयते युधि तोषितः
पदातिना महावीर्यो गिरौ हैमवतते तदा
दानवानां सहस्राणि हिरण्यपुरवासिनाम्
जघानैकरथेनैव देवराजप्रचोदितः
समायुक्तो हि कौन्तेयो वासुदेवेन धीमता
सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महाभुज
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे
श्रीभगवान्-
स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन
संविधानं च विहितं मन्त्रयित्वा नरर्षभैः
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन कल्पितः
पद्मकर्णिकमध्यस्थस्सूचीपाशे जयद्रथः
स्थास्यते रक्षितो वीरैस्सिन्धुराड्युद्धदुर्मदैः
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथा रथे
अविषह्यतमास्त्वेते निश्चिताः पार्थ षड्रथाः
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा
मन्त्रयिष्याम भूयस्तु भूतिमात्महिताय वै
मन्त्रज्ञैस्सचिवैस्सार्धं सुहृद्भिः कार्यसिद्धये
अर्जुनः-
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान्
तेषां वीर्यं ममार्धेन न तुल्यमिति मे मतिः
अस्त्रैरस्त्राण्यहं तेषां मिषतां मधुसूदन
पश्यतस्ते निहन्तास्मि यदि ते वज्रधारिणः
द्रोणस्य मिषतश्चाहं सगणस्य विपश्चितः
मूर्धानं सिन्धुराजस्य छेत्स्यामि निशितैश्शरैः
यस्य साध्याश्च रुद्राश्च साश्विनौ वसुभिस्सह
मरुतश्च महेन्द्रेण विश्वे देवास्तथाऽसुराः
पितरस्सिद्धगन्धर्वास्सुपर्णास्सागराद्रयः
द्यौर्वियत्पृथिवी चैव दिशश्च सदिगीश्वराः
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च
त्रातारस्सिन्धुराजस्य भविष्यन्ति जनार्दन
एभिर्बाणैश्च निहतं मया द्रक्ष्यसि संयुगे
सत्येन ते शपे कृष्ण तथैव धनुरालभे
यस्य गोप्ता महेष्वासो द्रोणः पापस्य दुर्मतेः
तमेव प्रथमं द्रोणमभियास्यामि संयुगे
तस्मिन्युद्धमिदं बद्धं मन्यते यत्सुयोधनः
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम्
द्रष्टा श्वोऽसि महेष्वासान्रथिनस्तिग्मतेजसः
मया निपातितान्सङ्ख्ये वज्रैरिव गिरिव्रजान्
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्
पतद्भ्यः पतितेभ्यश्च मया न्यस्तैश्शितैश्शरैः
गाण्डीवप्रभवा बाणा मनोऽनिलसमा जवे
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः
शक्राद्भीष्मात्कृपाद्द्रोणाद्देवाद्रुद्राच्च यन्मया
उपात्तमस्त्रं यद्घोरं द्रष्टारो युधि शत्रवः
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
मया द्रक्ष्यसि सर्वेषां सैन्धवस्याभिरक्षिणाम्
शरवेगसमुत्कृत्तैश्शिरोभिश्चारुकुण्डलैः
मया द्रक्ष्यसि विस्तीर्णां कीर्यमाणां च मेदिनीम्
क्रव्यादांस्तर्पयिष्यामि शातयिष्यामि शात्रवान्
सुहृदो नन्दयिष्यामि क्षुद्रं हत्वा जयद्रथम्
बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः
मया सैन्धवको राजा हतस्स्वास्त्रासयिष्यति
सर्वे क्षीरान्नभोक्तारः पापाचारा नराधमाः
मया सराजका बाणैशाछिन्ना नश्यन्ति सैन्धवाः
तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः
नान्यं धनुर्धरं लोके मंस्यते मत्समं भुवि
गाण्डीवं च धनुर्दिव्यं योद्धारं च धनञ्जयम्
यन्तारं च हृषीकेशं कोऽतिवर्तेत संयुगे
यथा हि लक्ष्म वै चन्द्रे समुद्रे च यथा जलम्
एवमेतां प्रतिज्ञां मे ध्रुवां विद्धि जनार्दन
माऽवमंस्था ममास्त्राणि माऽवमंस्थाश्च गाण्डिवम्
मावमंस्था इमौ बाहू माऽवमंस्था धनञ्जयम्
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं जनार्दन
त्वं तु यन्ता हृषीकेश किं न स्यादजितं मया
यथा हि यात्वा सङ्ग्रामं न जितो वै जयामि च
तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम्
ध्रुवं वै ब्राह्मणे ब्रह्म ध्रुवं साधुषु सन्नतिः
श्रीर्ध्रुवाऽपि च दक्षेषु ध्रुवो नारायणे जयः
त्वं च माधव सर्वं तत्तथा प्रतिविधास्यसि
यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम्
सञ्जयः-
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना
सन्दिदेशार्जुनो विद्वान्वासविः केशवं प्रभुम्
अर्जुनः-
यथा प्रभातां रजनीं कल्पितस्स्याद्रथोत्तमः
तथा कार्यं त्वया कृष्ण प्रतिज्ञा स्याद्यथा ध्रुवा