सञ्जयः-
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम्
चारैः प्रवेदितस्त्रस्तस्समुत्थाय जयद्रथः
शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम्
मज्जमान इवागाधे विपुले शोकसागरे
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु
स तेषां नरदेवानां सकाशे पर्यदेवयत्
अभिमन्युपितुर्भीतस्सव्रीडो वाक्यमब्रवीत्
जयद्रथः-
पाण्डोः क्षेत्रे यस्तु जातश्शक्रेण किल कामिना
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्
स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया
अथवा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः
पार्थेन प्रार्थिवा वीरास्तद्दध्वं ममाभयम्
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः
दुश्शासनादयश्शक्तास्त्रातुमप्यन्तकार्दितम्
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः
प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम्
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना
तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः
तन्न देवा न गन्धर्वा नासुरा न च पन्नगाः
शक्नुवन्त्यन्यथा कर्तुं कुत एव नराधिपाः
तस्मान्मामनुजानीध्वं भद्रं वः पुरुषर्षभाः
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः
सञ्जयः-
एवं विलपमानं तं भयव्याकुलचेतसम्
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत्
दुर्योधनः-
न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभम्
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेत्पुमान्
एषां हि नरदेवानां मत्तमातङ्गगामिनाम्
सङ्घातमुपयातानामपि बिभ्येत्पुरन्दरः
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः
भूरिश्रवाश्शलश्शल्यो चित्रसेनो दुरासदः
पुरुमित्रो जयो भोजः काम्भोजो बाह्लिकः कृपः
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखस्सहः
दुश्शासनस्सुबाहुश्च कालिङ्गश्चाप्युदायुधः
विन्दानुविन्दावावन्त्यौ द्रौणिश्च सह सौबलः
मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः
इमे च त्वाऽभिगोप्स्यन्ति सैन्येन महता वृताः
त्वं चापि रथिनां श्रेष्ठस्स्वयं शूरोऽसि पार्थिवः
कथं च पाण्डवेयेभ्यो भयं पश्यसि सैन्धव
अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे
यत्ता योत्स्यन्ति मा भैषीस् सैन्धव व्येतु ते भयम्
सञ्जयः-
एवमाश्वासितो राज्ञा पुत्रेण तव सैन्धवः
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत्
उपसङ्गृह्य चरणौ द्रोणस्य स विशां पतिः
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः
अर्जुनस्यात्मनश्चार्थे विशेषं पर्यपृच्छत
जयद्रथः-
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने
ब्रवीतु भगवान्मह्यं विशेषं फल्गुनस्य च
विद्याविशेषमाचार्य ज्ञातुमिच्छामि तत्त्वतः
अर्जुनस्यात्मनश्चैव याथातत्त्वं ब्रवीमि मे
द्रोणः-
सममाचार्यकं तात तव चैवार्जुनस्य च
योगाद्दुःखोषितत्वाच्च तस्मात्त्वदधिकोऽर्जुनः
न तु ते बुद्धिसन्त्रासः पार्थात्कार्यः कथञ्चन
अहं हि रक्षिता तात भयात्त्वां श्वो न संशयः
न हि मद्बाणगुप्तस्य प्रभवन्त्यमरा अपि
विधास्यामि च तं व्यूहं यं पार्थो न तरिष्यति
तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय
पितृपैतामहं मार्गमनुयाहि महारथ
अधीता विधिवद्वेदा अग्नयस्सुहुतास्त्वया
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभवं भयम्
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु
भुजवीर्यार्जिताल्ँलोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः
अहं च सह पुत्रेण अध्रुवा इति लक्ष्यताम्
पर्यायेण वयं सर्वे कालेन बलिना हताः
परलोकं गमिष्यामस्स्वैस्स्वैः कर्मभिरन्विताः
तपस्तप्त्वा तु याल्ँलोकान्प्राप्नुवन्ति यशस्विनः
क्षत्रधर्माश्रिता वीराः क्षत्रियाः प्राप्नुवन्ति तान्
सञ्जयः-
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः
व्यपानुदद्भयं पार्थाद्युद्धाय च मनो दधे
ततः प्रहर्षस्सैन्यानां तस्य चासीद्विशां पते
वादित्राणां ध्वनिश्चोग्रस्सिंहनादरवैस्सह