धृतराष्ट्रः-
अथ संशप्तकैस्सार्धं युध्यमाने धनञ्जये
अभिमन्यौ हते चापि बाले बलवतां वरे
महर्षिसत्तमे याते युधिष्ठिरपुरोगमाः
पाण्डवाः किमथाऽकार्षुश्शोकेन हतचेतसः
कथं संशप्तकेभ्यो वा निवृत्तो वानरध्वजः
केन वा कथितस्तस्य प्रशान्तस्सुतपावकः
एतन्मे शंस तत्त्वेन सर्वमेवेह सञ्जय
सञ्जयः-
शृणु राजन्यथा तेभ्यो निवृत्तः कृष्णसारथिः
ततस्सर्वाणि सैन्यानि दहन्कृष्णगतिर्यथा
सम्प्रयातेऽस्तमादित्ये सन्ध्याकाल उपस्थिते
अयातस्यात्मशिबिरं निमित्तैरघशंसिभिः
यच्चासीन्मानसं तस्य यच्च कृष्णेन भाषितम्
यथा च कथितस्तस्य निहतस्सुतपावकः
विस्तरेणैव मे सर्वं ब्रुवतश्शृणु मारिष
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये
आदित्येऽस्तं गते श्रीमान्सन्ध्याकाल उपस्थिते
व्यपयातेषु सैन्येषु वासाय भरतर्षभः
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः
आयात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत
अर्जुनः-
किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव
स्यन्दन्तेऽङ्गान्यनिष्टानि गात्रैस्सीदामि चाच्युत
अनिष्टं चैव मे क्लिष्टं हृदयान्नापसर्पति
भूम्यां दिवि तथाऽत्युग्रा उत्पातास्त्रासयन्ति माम्
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः
अपि स्वस्ति भवेद्राज्ञस्सामात्यस्य गुरोर्मम
श्रीभगवान्-
व्यक्तं शिवं सहभ्रातुर्धर्मराजस्य पाण्डव
मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति
सञ्जयः-
ततस्सन्ध्यामुपास्यैव वीरौ वीरावसादने
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ
ततस्स्वशिबिरं प्राप्तौ हतामित्रौ हतद्विषौ
वासुदेवार्जुनौ चैव कृत्वा कर्म सुदुष्करम्
ध्वस्ताकारमिवालेख्यं संवीक्ष्य शिबिरं स्वकम्
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्तदा
अर्जुनः-
नाद्य नर्दन्ति तूर्याणि मङ्गलानि जनार्दन
मिश्रा दुन्दुभिनिर्घोषैश्शङ्खाश्चाडम्बरैस्सह
वीणा न साधु वाद्यन्ते शम्यातालस्वनैस्सह
मङ्गलानि च गीतानि नाद्य गान्ति पठन्ति च
स्तुतिमङ्गलसंयुक्ता ममानीकेषु वर्तिनः
योधाश्चापि च मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम्
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव
न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम्
अपि पाञ्चालराजस्य विराटस्य च मानद
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत
न च माऽभ्येति सौभद्रः प्रहृष्टैर्भ्रातृभिस्सह
रणादायान्तमुचितं प्रत्युद्याति हसन्निव
सञ्जयः-
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च दुःखितान्नष्टचेतसः
अपश्यंस्तत्र सौभद्रमिदं वचनमब्रवीत्
अर्जुनः-
मुखवर्णोऽप्रसन्नो वस्सर्वेषामेव दृश्यते
न चाभिमन्युं पश्यामि न च मामभिनन्दथ
श्रुतो यथा मे द्रोणेन पद्मव्यूहो विनिर्मितः
न च वस्तस्य भेत्ताऽस्ति अभिमन्युमृते शिशुम्
नोपदिष्टश्च मे तस्य भित्वाऽनीकस्य निर्गमः
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः
भित्त्वाऽनीकं नरव्याघ्रः परेषां बहुभिर्युधि
कच्चिन्न निहतश्शेते सौभद्रः परवीरहा
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः
सुकुमारं महोत्साहं वासवस्यात्मजात्मजम्
सदा मम प्रियं ब्रूत कथमायोधने हतः
वार्ष्णेयदयितं शूरं मया सततलालितम्
अम्बायाश्च प्रियं नित्यं कोवधीत्कालचोदितः
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः
सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्
महोत्साहं महावीर्यं दीर्घराजीवलोचनम्
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम्
स्मिताभिभाषिणं दान्तं गुरुप्रेष्यकरं सदा
बालं चाबालकर्माणं प्रियोद्यं वीतमत्सरम्
भक्तानुकम्पिनं दान्तं न च दीनानुसारिणम्
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम्
युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम्
स्वेषां प्रियहिते युक्तं पितॄणां जयगर्द्धिनम्
न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम्
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्
सुनसं सुललाटं तं सुभ्र्वक्षिदशनस्मितम्
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम्
अशृण्वतस्स्वनं तस्य का शान्तिर्हृदयस्य मे
रूपं चाप्रतिरूपं तत्त्रिदशैरपि दुर्लभम्
अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे
अभिवादनदक्षं तं पितॄणां वचने रतम्
नह्यहं यदि पश्यामि का शान्तिर्हृदयस्य मे
सुकुमारस्सदा वीरो महार्हशयनोचितः
भूमावनाथवच्छेते नूनं नाथवतां वरः
शयानं समुपासन्ते यं पुरा परमस्त्रियः
तमद्य विप्रविद्धाङ्गमुपासन्तेऽशिवाश्शिवाः
यः पुरा बोध्यते सुप्तस्सूतमागधवन्दिभिः
तमद्य बोधयिष्यन्ति श्वापदा विकृतैः स्वरैः
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्
नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने
मन्दपुण्यस्य कालेन यथा मे नीयसे बलात्
साऽद्य संयमनी नूनं सतां सुकृतिनां गतिः
स्वभाभिमण्डिता रम्या त्वयाऽत्यर्थं विराजिता
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम्
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्
सञ्जयः-
एवं विलप्य बहुलं भिन्ना नौरिव सागरे
दुःखेन महताऽविष्टो युधिष्ठिरमभाषत
अर्जुनः-
कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति
सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दनः
स्वर्गतोऽभिमुखस्सङ्ख्ये युध्यमानो महारथैः
स नूनं बहुभिर्युक्तैर्युध्यमानो महारथैः
असहायस्सहायार्थं मामनुध्यातवान्ध्रुवम्
पीड्यमानश्शरैर्बालस्तात साध्वभिधाव माम्
इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः
अथवा मत्प्रसूतश्च स्वस्रीयो माधवस्य च
सुभद्रायां च सम्भूतस्स चैवं वक्तुमर्हति
वज्रायसाश्मभिस्तुल्यं हृदयं सुदृढं मम
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति
नूनं स पातितश्शेते धरण्यां रुधिरोक्षितः
शोभयन्मेदिनीं गात्रैभूम्यां चन्द्र इवोदितः
श्रुत्वा निपतितं शूरमनघं कृतलाघवम्
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती
द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम्
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम्
किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम्
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे
सिंहवन्नदथ प्रीताश्शोककाल उपस्थिते
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्
सञ्जयः-
इति तान्परिभाषन्वै कुन्त्याः पुत्रो महाद्युतिः
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः
श्रीभगवान्-
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम
अधक्ष्यं तानहं सर्वांस्तत्र क्रूरान्महारथान्
सञ्जयः
निगृह्य वासुदेवस्तं शोकाधिभिरभिप्लुतम्
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम्
श्रीभगवान्-
सर्वेषामेव पन्था वै शूराणां कुरुनन्दन
क्षत्रियाणां विशेषेण येषां नश्शस्त्रजीविका
एषा वै युध्यमानानां शूराणां कुरुनन्दन
विहिता धर्मशास्त्रज्ञैर्गतिर्मतिमतां वर
ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम्
गतः पुण्यकृताँल्लोकानभिमन्युर्न संशयः
एतद्वै सर्ववीराणां काङ्क्षितं भरतर्षभ
सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति भारत
स तु वीरान्रणे हत्वा राजपुत्रान्महारथान्
वीराणां काङ्क्षितं मृत्युं प्राप्नोत्यभिमुखो रणे
मा शुचो नृवरश्रेष्ठ एवमेव पुरातनः
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः
इमे ते भ्रातरस्सर्वे दीना वै भ्रातृवत्सलाः
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव
एतान् वै वचसा साम्ना समाश्वासय मानद
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि
सञ्जयः-
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थस्सगद्गदम्
अर्जुनः-
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः
अभिमन्युर्यथा वृत्तश्श्रोतुमिच्छाम्यहं तथा
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया
क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः
यद्येवमहमज्ञास्यमशक्तान्मम रक्षणे
सूनोः पाण्डवपाञ्चालानगोप्स्यं तं महारणे
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम्
सौभद्रो निधनं नीतः कदर्थीकृत्य वः परैः
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः
यत्राभिमन्युः समरे पश्यतां वो निपातितः
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान्
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान्
आहोस्विद्भूषणार्थानि वर्मपत्रायुधानि च
वाचश्च वदतां सत्सु मम पुत्रमरक्षताम्
सञ्जयः-
एवमुक्त्वा ततो वाक्यमतिष्ठद्वै वरासिमान्
न संशक्ष्यन्ति बीभत्सुः केचन प्रीतिवीक्षितुम्
तमन्तकमिवायान्तं निःश्वसन्तं पुनः पुनः
महेन्द्रमिव तिष्ठन्तं वज्रोद्यतमहाभुजम्
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा
न भाषितुं शक्नुवन्ति द्रष्टुं वाऽपि तदाऽर्जुनम्
अन्यत्र वासुदेवाद्धि ज्येष्ठाद्वै पाण्डुनन्दनात्
सर्वावस्थास्वपि हितावर्जुनस्य मनोनुगौ
बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः
ततस्तं पुत्रशोकेन भृशं पीडितमानसम्
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत्
युधिष्ठिरः-
त्वयि याते महाबाहो संशप्तकवधं प्रति
यतते राजभिस्सार्धमाचार्यो ग्रहणे मम
व्यूढानीकं ततो द्रोणं यतमानं महामृधे
प्रतिव्यूह्य सहानीकाः प्रत्यरुध्म वयं बलम्
स वार्यमाणस्सङ्ग्रामे मयि चापि सुरक्षिते
अस्मानप्यहनत्क्रुद्धः पीडयन्निशितैश्शरैः
निपीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः
प्रतिवीक्षितुमप्याजौ भेत्तुं हि कुत एव नः
ततस्तमप्रतिरथमहं सौभद्रमब्रवम्
द्रोणानीकमिदं भिन्द्धि द्वारं सञ्जनयस्व नः
स तदा चोदितोऽस्माभिस्सदश्व इव वीर्यवान्
असह्यमर्पितं भारं वोढुमेवोपचक्रमे
तव चैवोपदेशेन वीर्येण च समन्वितः
प्राविशत्तद्बलं बालस्सुपर्ण इव सागरम्
तेऽन्वयाम वयं वीरं सात्वतीपुत्रमाहवे
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्
ततस्सैन्धवको राजा क्षुद्रस्तात जयद्रथः
वरदानेन रुद्रस्य सर्वान्नः समवारयत्
ततो द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः
कृतवर्मा च तं वीरं षड्रथाः पर्यवारयन्
परिवार्य तु तैः क्षुद्रैर्युधि बालो महारथैः
यतमानः परं शक्त्या बहुभिर्विरथीकृतः
ततो दौश्शासनिः पापस्तथा तैर्विरथीकृतम्
संशयं परमं प्राप्तं पदातिनमवस्थितम्
गदाहस्तोऽभ्ययात्तूर्णं जिघांसुरपराजितम्
गदिनं त्वथ तं दृष्ट्वा वासवस्यात्मजात्मजः
स जग्राह गदां वीरो गदायुद्धविशारदः
गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः
तौ सम्प्रजह्रतुर्वीरावन्योन्यस्यान्तरैषणौ
तावन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ
इन्द्रध्वजाविवोत्सृष्टौ गतसत्वौ महीं गतौ
स तु हत्वा सहस्राणि द्विपाश्वरथपत्तिनाम्
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्
बृहद्बलं च राजानं स्वर्गेण समयोजयत्
गतस्सुकृतिनां लोकान्ये च स्वर्गजितां शुभाः
अदीनस्त्रासयञ्छत्रून्नन्दयित्वा च बान्धवान्
असकृन्नाम विश्राव्य पितॄणां मातुलस्य च
वीरो दिष्टान्तमापन्नश्शोचयन्बान्धवान्बहून्
ततस्स्म शोकसन्तप्ता भवताऽद्य समेयुषः
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्
स चैवं पुरुषव्याघ्रस् स्वर्गलोकमवाप्तवान्
सञ्जयः-
ततोऽर्जुनो वचश्श्रुत्वा धर्मराजेन भाषितम्
व्यथितो न्यपतद्भूमौ दुःखार्तस्य मुमोह च
विषण्णवदनास्सर्वे परिगृह्य परस्परम्
नेत्रैरनिमिषैर्दीनाः प्रत्यपश्यन्परस्परम्
प्रतिलभ्य ततस्सञ्ज्ञां वासविः क्रोधमूर्च्छितः
कम्पमानो ज्वरेणेव निश्श्वसंश्च पुनः पुनः
पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च
त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः
उन्मत्त इव रोषेण स्मयन्वचनमब्रवीत्
अर्जुनः-
सत्यं वः प्रतिजानामि श्वो हन्तास्मि जयद्रथम्
न चेद्वधभयात्त्रस्तो धार्तराष्ट्रान्प्रहास्यति
न च मां शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्
भवन्तं वा महाराज श्वो हन्ताऽस्मि जयद्रथम्
मयि विस्मृतसौहार्दं दुर्योधनहिते रतम्
पापं बालवधे हेतुं श्वो हन्तास्मि जयद्रथम्
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन
राजन्द्रोणमुखांस्तांस्तान्वारयिष्याम्यहं शरैः
एवं यदि न सङ्ग्रामे कुर्यां श्वः पुरुषोत्तम
मा स्म पुण्यकृतां लोकान्प्राप्नुयां सदनुष्टिताम्
ये लोका मातृघातीनां ये लोकाः पितृघातिनाम्
ये गुरोर्दारगामीनां पिशुनानां च या गतिः
पायसं पयसाऽन्नं वा शाकं कृसरमेव वा
संयावापूपमांसानि ये च लोका वृथाऽश्नताम्
साधून्निन्दयतां चापि ये चापि परिवादिनाम्
ये च निक्षेपहारीणां ये च विश्वासघातिनाम्
भुक्तपूर्वां स्त्रियं चापि निन्दतामघशंसिनाम्
ब्राह्मणान्निघ्नतां ये च ये च गोघातिनामपि
अदत्त्वा देवताभ्यश्च अतिथिभ्यस्तथैव च
तानिहैवोपगच्छेयं न चेद्धन्यां जयद्रथम्
येऽध्यापयन्त्यध्याये संश्रुतं वाऽपि ब्राह्मणम्
कालद्रव्यमितिं कृत्वा योऽध्यापयति मूढधीः
भृतकस्स तु विज्ञेयस्सर्वकर्मबहिष्कृतः
तस्य या गतिरुद्दिष्टा तत्पङ्क्त्या भुञ्जतस्तदा
अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तदा
संस्पृशन्ब्राह्मणं गां च पादाग्निं चापि यो व्रजेत्
योऽप्सु मूत्रं पुरीषं वा श्लेष्माणं वाऽपि मुञ्चति
गच्छेयं तां गतिं कृच्छां न चेद्धन्मि जयद्रथम्
नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः
उत्कोचकानृतानां च वञ्चकानां च या गतिः
सूचकात्मापहारीणां या च मिथ्याभिशंसिनाम्
भृत्यैस्सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा
असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम्
तां गच्छेयं गतिं घोरां न चेद्धन्मि जयद्रथम्
संश्रितं चापि यस्त्यक्त्वा साधु सद्वचने रतम्
नैनं भरति दुष्टात्मा निन्दते चोपकारिणम्
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति ह
अनर्हते च यो दद्याद्वृषलीपतयेऽपि च
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः
तेषां गतिमियां क्षिप्रं न चेद्धन्मि जयद्रथम्
धर्मादपेता ये चान्ये ये चात्रापरिकीर्तिताः
ये मया कीर्तिताश्चात्र तेषां गतिमवाप्नुयाम्
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत
इहैव च प्रवेक्ष्यामि ज्वलितं जातवेदसम्
गाण्डीवहस्तो राज्ञां च समक्षं पृथिवीपते
अनस्तमित आदित्ये न चेद्धन्मि जयद्रथम्
असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा
चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नेह शक्ताः
यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा
निशितशरवरैरहं प्रसह्य श्रुणुत हि सिन्धुपतेश्शिरो हरिष्ये
सञ्जयः-
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्
तस्य सर्वमतिक्रम्य धनुश्शब्दोऽस्पृशद्दिवम्
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिस्सृतध्वनिः
जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा
ततो वादित्रनिर्घोषाः प्रादुरासन्सहस्रशः
सिंहनादाश्च वीराणां प्रतिज्ञाते महात्मना
अनृत्यदिव गाण्डीवं शरास्तूणीगता मुदा
निराक्रामन्निव तदा स्वयमेव मृधैषिणः
भीमसेनस्तु संहृष्टः प्रत्यभाषत भारत
धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा
भीमः-
प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च
निहतो धार्तराष्ट्रोऽयं सानुबन्धस्सुयोधनः
अथ मृदिततमाग्र्यदाममाल्यं तव सुतशोकमयं च रोषजातम्
सञ्जयः-
अथ शङ्ख्यैश्च भेरीभिः पणवैस्सैनिकास्तथा
व्यपनुदति महाप्रभावमेतन्नरवर वाक्यमिदं महार्थमिष्टम्
ससूतमागधा जिष्णुं स्तुतिभिस्समपूजयन्
तदा भीमं बलं सर्वं तेन नादेन मोहितम्
तावकं तन्महाराज विषण्णं समपद्यत