नारदः-
रामो महातपाश्शूरो वीरो लोकनमस्कृतः
जामदग्न्यो महाराज अवितृप्तो मरिष्यति
यश्चास्त्रमनुपर्येति भूमिं कुर्वन्विपांसुलाम्
न चासीद्विक्रिया यस्य प्राप्य श्रियमनुत्तमाम्
जामदग्न्यो न ते राजन्कच्चिच्छ्रोत्रमुपागतः
येनैकेन पुरा राजन्क्रुद्धेन हतबन्धुना
भृगुभिस्ताम्यमानेन त्राहि रामेति विस्वरम्
त्रिस्सप्तकृत्वो भूमिर्यत्कृता निःक्षत्रिया पुरा
यः क्षत्रियपरामृष्टे वत्सः पितरि चुक्रुधे
ततोऽवधीत्कार्तवीर्यमजितं समरे परैः
क्षत्रियाणां चतुःषष्टिमयुतान्यरिसङ्घहा
सरस्वत्यां समेतानि एकेन धनुषाऽवधीत्
ब्रह्मद्विषां वधे यस्मिन्सराष्ट्राणि चतुर्दश
पुनरन्यानि जग्राह दन्तक्रूरे जघान ह
सहस्रं मुसलेनाघ्नत्सहस्रमसिनाऽवधीत्
उद्बन्धितं सहस्रं च सहस्रमुदके कृतम्
दन्तान्भङ्क्त्वा सहस्रं च भिन्नकर्णांस्तथाऽकरोत्
ततस्सप्तसहस्राणि कणधूपमपाययत्
शिष्टान्वध्वा च हत्वा च तेषां मूर्ध्न्यभिहत्य च
गुणावतीमुत्तरेण खाण्डवं दक्षिणेन च
शेरते शतसाहस्रा हैहयास्समरे हताः
सगजास्सरथा वीरा रामेणैकेन निर्जिताः
राम रामेत्यभिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः
निजघ्ने शतसाहस्रान्रामः परशुना तदा
नामृष्यत वाचस्त्राहीत्यार्तैर्भृशमुदीरितम्
भृशं रामाभिधावेति यदाऽऽक्रन्दन्द्विजोत्तमाः
ततः काश्मीरदरदान्कुन्तिक्षुद्रकमालवान्
अङ्गवङ्गकलिङ्गेन्द्रान्विदेहांस्ताम्रलिप्तकान्
आहावाहान्वीतिहोत्रांस्त्रिगर्तान्मार्तगायनान्
शिबीनन्यांश्च राजेन्द्र देशे देशे सहस्रशः
निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान्
कोटीशतसहस्राणि क्षत्रियाणामथावधीत्
इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च
रुधिरस्य परीवाहान्पूरयित्वा सरांसि च
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः
ईजे क्रतुशतैः पुण्यैस्समाप्तवरदक्षिणैः
वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम्
सर्वरत्नशतैः पूर्णां पताकाध्वजमालिनीम्
ग्राम्यारण्यैः पशुगणैस्सम्पूर्णां च महीमिमाम्
शतं शतसहस्राणि द्विपेन्द्रान्हेमभूषणान्
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनवत्सलः
कश्यपाय ददौ रामो हयमेधे महामखे
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता
इष्ट्वा क्रतुशतैस्तैस्तैः ब्राह्मणेभ्यो ह्यमंसत
स कश्यपस्य वचनादुत्सार्य सरितां पतिम्
इषुणेषुमतां श्रेष्ठो महेन्द्रगिरिमाविशत्
ब्राह्मणो ब्राह्मणश्रेष्ठः कुर्वन्ब्राह्मणशासनम्
अध्यावसद्गिरिश्रेष्ठं महेन्द्रमकुतोभयः
एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः
जामदग्न्यो ह्यतियशाश्चतुर्भद्रतरस्त्वया
पुत्रात्पुणायतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्