नारदः-
साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम
यस्य विंशतिसाहस्रा आसन्सूदा महात्मनः
गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः
पक्वं पक्वं दिवारात्रं वरान्नममृतोपमम्
न्यायेनाधिगतं वित्तं येनाक्षय्यं नगोपमम्
वेदानधीत्य धर्मेण यश्चक्रे द्विजतावशे
उपस्थिताश्च पशवस्स्वयं यं शंसितव्रतम्
बहवस्स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम्
नदी महानसाद्यस्य प्रवृत्ता चर्मराशिभिः
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा
ब्राह्मणेभ्योऽददान्निष्कान्ब्राह्मणेभ्यः प्रताम्यति
तुभ्यं निष्कं तव निष्कमिति सम्प्रति प्रभाषते
तुभ्यं तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः
ततः पुनस्समाश्वास्य निष्कानेव प्रयच्छति
अल्पं दत्तं मयाऽद्येति निष्ककोटिं प्रदाय सः
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन्
सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान्
अध्यर्धमासमददाद्ब्राह्मणेभ्यश्शतं समाः
अग्निहोत्रोपकरणं द्रव्योपकरणं च यत्
पात्रं शरावकं भाण्डं स्थालीः पिठरमेव च
शयनासनयानानि प्रासादांश्च गृहाणि च
सूक्ष्मभाण्डाश्च विविधा दृश्यान्यनुपमानि च
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः
तत्रस्म गाथा गायन्ति ये पुराणविदो जनाः
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम्
नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि
धनं चापूर्यमाणं तत्किं पुनर्मानुषेष्विति
व्यक्तं वस्वोकसारेयमित्यूचुस्तस्य विस्मिताः
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत्
आलभ्यन्त तदा गावस्सहस्राण्येकविंशतिः
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः
सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथापुरम्
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा
तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः
कव्यानि पितरः काले सर्वान् कामान्द्विजोत्तमाः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्