नारदः-
गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम
यो वै वर्षशतं राजा हुतशिष्टाशनोऽभवत्
गयः-
तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः
तपसा ब्रह्मचर्येण व्रतेन च दमेन च
गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम्
स्वधर्ममविहिंसां च धर्ममिच्छामि चाक्षयम्
पात्रेषु ददतस्सा मे श्रद्धा भवतु नित्यशः
अनन्यासु सवर्णासु सुप्रजस्त्वं च मे भवेत्
नारदः-
अन्नं स्वादु दुहेन्मह्यं धर्मे मे रमतां मनः
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक
तथा भविष्यतीत्युक्त्वा तत्रैवान्तरधीयत
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत्
स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च
चातुर्मास्यैश्च विधिवदिष्टिभिश्चाप्तदक्षिणैः
अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम्
दशनागसहस्राणि शतमश्वशतानि च
शतं निष्कसहस्राणि गवां चाप्ययुतानि षट्
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम्
नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः
ईजे च विविधैर्यज्ञैर्यथा शर्वोऽङ्गिरा यथा
सौवर्णां पृथिवीं कृत्वा य इमां मणिशर्कराम्
ब्राह्मणेभ्योऽददाद्राजा सोऽश्वमेधे महामखे
जाम्बूनदमया यूपास्सर्वे चान्ये परिच्छदाः
गयस्यासन्वरप्राप्त्या सर्वभूतमनोहराः
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा
ब्राह्मणेभ्यः पितृभ्यश्च सर्वभूतेभ्य एव च
समुद्रद्वीपशैलेषु नदीनदवनेषु च
नगरेषु च राष्ट्रेषु दिवि व्योमनि योऽवसन्
भूतग्रामा बहुविधा विस्मिता यज्ञसम्पदा
गयस्य सदृशो यज्वा नास्त्यन्य इति तेऽब्रुवन्
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता
पश्चात्पुरश्चतुर्विंशा वेदिरासीद्धिरण्मयी
गयस्य यजमानस्य मुक्तावज्रमणिस्तृता
तां प्रादाद्ब्राह्मणेभ्यो वै वासांस्याभरणानि च
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणाः
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः
कुल्याश्च क्षीरवाहिन्यो रसानां चाभवंस्तदा
वस्त्राभरणगन्धानां राशयश्च पृथग्विधाः
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्