नारदः-
शशिबिन्दुं च राजेन्द्रं मृतं सृञ्जय शुश्रुम
य ईजे विविधैर्यज्ञैश्श्रीमान्सत्यपराक्रमः
तस्य भार्यासहस्राणां शतमासीन्महात्मनः
एकैकस्यां च भार्यायां पुत्रजन्म तथाऽभवन्
सहस्रं तु सहस्रं तु तस्यां तस्यां महात्मनः
शशिबिन्दुकुमारास्ते सर्वे नियुतदक्षिणाः
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः
हिरण्यकवचास्सर्वे सर्वे चोत्तमधन्विनः
सर्वेऽश्वमेधैरीजानाः कुमाराश्शाशिबिन्दवाः
तानश्वमेधे यज्ञेन्द्रे ब्राह्मणेभ्योऽददत्पिता
शतंशतं रथगता एकैकं पृष्ठतोऽन्वयुः
राजपुत्रांस्तदा कन्या रमणीयास्स्वलङ्कृताः
कन्यां कन्यां शतं नागा नागे नागे शतं रथाः
रथे रथे शतं चाश्वा जीविनो हेममालिनः
अश्वे ह्यश्वे गोसहस्रं गवां पञ्चाप्यजाविकम्
एतद्धनमपर्यन्तमश्वमेधमहामखे
शशिबिन्दुर्महाभागो ब्राह्मणेभ्योन्वमंसत
वार्क्षाश्च यूपा यावन्त अश्वमेधे हि शब्दिताः
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाऽभवन्
भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः
तस्याश्वमेधे निर्वृत्ते राज्ञश्शिष्टास्त्रयोदश
तुष्टपुष्टजनाकीर्णां शान्तविघ्नां निरामयाम्
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधि श्वैत्येत्युदाहरत्