नारदः-
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम
यः सहस्रं सहस्राणां राज्ञामयुतयोधिनाम्
जिगीषमाणास्सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः
शस्त्रमुच्चावचं घोरं सृजन्तश्चाशिवा गिरः
बललाघवशिक्षाभिस्तेषां शस्त्रबलेन च
छित्त्वाऽयुतगजाञ्जित्वा नाभागास्तु गतव्यथः
त एनं मुक्तसन्नाहा नाथन्ते जीवितैषिणः
शरण्यमीयुश्शरणं तव स्म इति वादिनः
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम्
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः
तस्य यज्ञेषु विप्रेन्द्राः प्रहृष्टाः परमार्चिताः
बुभुजुस्सर्वसम्पन्नमन्नमन्ये जनास्सथा
मोदकान्कारिकापूपान्धाना वटकशष्कुलीः
करम्भान्पृथुकामन्धानन्नानि सुकृतानि च
सूपाढ्योरण्ढ्रकान्यूपान्रागषाडवपानकान्
निभृतानि सुयुक्तानि स्वादूनि सुरभीणि च
घृतं मधु पयस्तोयं दधीनि रसवन्ति च
फलं मूलं च सुस्वादु द्विजास्तत्रोपभुञ्जते
मदनीयानि पापानि विदंशानात्मनः प्रियान्
पपुस्तत्र यथाकामं पानकाश्शीतकाः परम्
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च
नाभागस्तवसंयुक्ता ननृतुश्च सहस्रशः
तेषु यज्ञेषु नाभागो दक्षिणा अत्यकालयत्
राज्ञां शतसहस्राणि प्रयुतायुतवाजिनाम्
हिरण्यकवचान्सर्वान्सर्वांश्चोत्तमधन्विनः
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान्
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च
सदण्डकोशविषयान्ब्राह्मणेभ्यो ह्यमंसत
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः
इत्येवमनुमोदन्त प्रीतास्सुरमहर्षयः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्