नारदः-
ययातिं नाहुषं चापि मृतं सृञ्जय शुश्रुम
य इमां पृथिवीं जित्वा ससमुद्रां सपर्वताम्
शम्याप्रासेन निर्माय वेदीस्सन्नतदक्षिणाः
ईजानः क्रतुभिः पुण्यैः पर्यगच्छत्प्रदक्षिणम्
इष्ट्वा क्रतुसहस्रेण हयमेधशतेन च
पौण्डरीकसहस्रेण वाजपेयशतेन च
अतिरात्रसहस्रेण चातुर्मास्यैश्च कामतः
अग्निष्टोमैश्च विविधैस् सत्रैर्नित्याप्तदक्षिणैः
अब्राह्मणानां वित्तं यत् पृथिव्यामस्ति किञ्चन
तत्सर्वं परिसङ्ख्याय स तद्ब्राह्मणसात्करोत्
सरस्वती पुण्यतमा नदीनां तथा समुद्रास्सरितोऽद्रयश्च
ईजानाय पुण्यतमाय राज्ञे घृतं पयो दुदुहुर्नाहुषाय
व्यूढे देवासुरे युद्धे जित्वा दैत्यान्सदानवान्
वर्णेभ्यो व्यभजत्सर्वां चतुर्भ्यः पृथिवीमिमाम्
यज्ञैर्बहुविधैरिष्ट्वा प्रजामुत्पाद्य चोत्तमाम्
देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः
देवारण्येषु रम्येषु विजहार सहप्रियः
आत्मनः कामचारेण द्वितीय इव वासवः
यदा नाध्यगमत् सोऽन्तं कामानां सर्वधर्मवित्
ततो गाथामिमां गीत्वा सदारः प्राविशद्वनम्
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवस्स्त्रियः
नालमेकस्य तत्सर्वं सन्तोषं परमं सुखम्
एवं कामान्परित्यज्य ययातिर्धृतिमानथ
पूरुं राज्ये प्रतिष्ठाप्य प्रविष्टो वनमीश्वरः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्