नारदः-
मान्धाता चेद् यौवनाश्वस्त्रैलोक्यविजयी मृतः
यं देवावश्विनौ गर्भे पितुः पार्श्वान्निरूहतुः
मृगयां विचरन्राजा तृषितश्श्रान्तवाहनः
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यं पिबच्च सः
तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम्
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ
तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम्
मामैवायं धयत्वङ्गमिति ह स्माह वासवः
देवेन्द्रस्य ततोऽङ्गुष्ठात् प्रादुरासीत्पयोऽमृतम्
तदभूत्तेन नाम्नाऽस्य मान्धातेति प्रचक्रिरे
मां धायत्विति कारुण्याद्यदिन्द्रो ह्यन्वकम्पत
तस्मान्मान्धातरित्येवं नाम तस्याभवत्कृतम्
ततस्स धारां पयसो घृतस्य च महात्मनः
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्
स पिबन्पाणिमिन्द्रस्य सममह्ना च वर्धते
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान्
इमां च पृथिवीं कृत्स्नामेकाह्नाऽप्यजयच्च सः
धर्मात्मा धृतिमान्वीरस्सत्यसन्धो जितेन्द्रियः
जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम्
असितं चैव नाभागं मान्धाता मानुषाञ्जयत्
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते
सोऽश्वमेधशतेनेष्ट्वा राजसूयशतेन च
अददाद्रोहितानश्वान्ब्राह्मणेभ्यो विशां पतिः
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम्
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान्
अतिरिक्तान्ब्राह्मणेभ्यो भुञ्जते स्मेतरे जनाः
भक्ष्यान्नपाननिचयाः सुशुचिनन्नपर्वतान्
घृतह्रदास्सूपपङ्का दधिफेना गुडोच्चयाः
ता ऊहुस्सर्वतो नद्यो दधिक्षीरवहाश्शिवाः
देवासुरा नरा यक्षा गन्धर्वोरगराक्षसाः
विप्राश्चैवामितगुणा यस्य यज्ञानुपावसन्
ब्राह्मणे ब्रह्मपुत्राय प्रादाद्योऽति विपश्चिते
समुद्रान्तां वसुमतीं वसुपूर्णां महामतिः
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति
राजा हि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः
गतः पुण्यतमाल्ँलोकान्प्राप्यातियशसा दिशः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्