नारदः-
दिलीपं चापि राजेन्द्र मृतं सृञ्जय शुश्रुम
यस्य यज्ञशतेष्वासन्प्रयुतायुतशो द्विजाः
वेदवेदाङ्गतत्त्वज्ञा यज्वानः पुत्रपौत्रिणः
स्वच्छन्दाः पुण्यगन्धाश्च सुभक्षा हेममालिनः
यस्य कर्माणि भूरीणि कथयन्ति मनीषिणः
य इमां पृथिवीं पूर्णां वसुधां वसुधाधिपः
ईजानो वितते यज्ञे ब्राह्मणेभ्योऽभ्युपाहरत्
यस्य वै यजमानस्य यज्ञे यज्ञे पुरोहितः
सहस्रं वारणान् हैमं दक्षिणा अत्यकालयत्
दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः
सौवर्णं चाभवत्सर्वं सदा परमभास्वरम्
रसानां चाभवन्कुल्याः कण्ठदघ्नास्समन्ततः
सहस्रायामका यूपास्तस्य चासन्हिरण्मयाः
तत्कर्म बहु कुर्वाणस्सेन्द्रा देवास्समुच्छ्रयन्
चषालप्रचषालेषु तस्मिन्यूपे हिरण्मये
नृत्यन्त्यप्सरसो यत्र षट्सहस्राणि सप्त च
अवादयच्च तत्रास्य प्रीत्या विश्वावसुस्स्वयम्
सर्वभूतान्यमोदन्त मम वादयतीति तम्
इत्थं दिलीपस्य नृपा यज्ञान् नान्येऽनुचक्रिरे
यद्दोषा हेमसञ्छन्ना मर्त्याः पथिषु शेरते
तदेव चाद्भुतं मन्ये अन्यैरसदृशं नृपैः
यस्याप्ययुध्यमानस्य चक्रे न परिमर्दनम्
राजानं चोग्रधन्वानं दिलीपं सत्यवादिनम्
येऽपश्यन्भूरिदक्षिण्यं तेऽपि स्वर्गमितो गताः
इमे शब्दा न जीर्यन्ते दिलीपस्य निवेशने
स्वाध्यायशब्दो ज्याशब्दः पिबताश्नीत खादत
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्