नारदः-
शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत्
साद्रिद्वीपार्णववनां रथघोषेण नादयन्
स शिबिर्यष्टुमन्विच्छन्मुख्यस्सर्वसपत्नजित्
यज्ञैर्बहुविधैरिष्टं तेनापर्याप्तदक्षिणैः
अविहिंस्य जनानन्यानवाप वसु पुष्कलम्
सर्वमूर्धाभिषिक्तानां सम्मतस्सोऽभवद्युधि
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम्
निरर्गलांसराड्यूथान्निष्ककोटिं सहस्रशः
बिभर्ति दक्षिणा यस्य गङ्गायास्स्रोत आवृणोत्
हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा
विविधैः पृथिवीं पूर्णां शिबिर्ब्राह्मणसात्करोत्
यावन्त्यो वर्षतो धारा यावन्त्यो दिवि तारकाः
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे
नोद्यन्तारं धुरं तस्य किञ्चिदन्यं प्रजापतिः
भूतं भव्यं भवन्तं वा ह्यध्यगच्छन्नरेश्वरम्
तस्यासन्विविधा यज्ञास्सर्वकामैस्समन्विताः
हेमयूपासनगृहा हेमप्राकारतोरणाः
शुचिस्वाद्वन्नपानाश्च ब्राह्मणाः प्रयुतायुताः
नानाभक्ष्योच्चयतटाः पयोदधिमधुह्रदाः
तस्यासन्यज्ञवाटेषु नद्यश्शुभ्रान्नपर्वताः
पिबताश्नत खादध्वमिति यत्रोच्यते जनैः
तस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा
अक्षयं ददतो वित्तं श्रद्धां कीर्तिं ततोऽव्ययाम्
यथार्थमेवं भूतानां प्रियत्वं स्वर्गमुत्तमम्
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्