नारद उवाच
अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम
यस्सहस्रं सहस्राणां श्वेतानश्वानवासृजत्
तस्याश्वमेधे राजर्षेस्सर्वे देवास्समाययुः
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम्
वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः
सुभक्षाच्छादनगृहास्सुशय्यासनवाहनाः
नटनर्तकगन्धर्वैः प्लवकैर्वर्धमानकैः
नित्योद्योगैश्च क्रीडन्तस्तत्रोषुः परमार्चिताः
यज्ञे यज्ञे यथाकालं दक्षिणास्सोऽत्यकालयत्
द्विपान्दशसहस्राख्यानददात्काञ्चनावृतान्
सध्वजान्सपताकांश्च सवरूधान्सुकल्पितान्
सहस्रं च सहस्राणां कन्या हेमविभूषिताः
चतुर्युजरथारूढास्सगृहक्षेत्रगोधनाः
शतं शतसहस्राणि स्वर्णमालानथर्षभान्
गवां सहस्रानुचरान्दक्षिणास्सोत्यकालयत्
हेमशृङ्ग्यो रौप्यखुरास्सवत्साः कांस्यदोहनाः
दासीदासखरोष्ट्रं च प्रादाच्छागाविकं बहु
रत्नानां विविधान्कूटान्विविधानन्नपर्वतान्
तत्सर्वं वितते यज्ञे दक्षिणामत्यकालयत्
अत्रापि गाथा गायन्ति ये पुराणविदो जनाः
अङ्गस्य यजमानस्य अपि विष्णुपदे वयम्
अमाद्यदिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः
अङ्गस्य यजमानस्य स्वधर्मानुगताश्शुभाः
गुणोत्तरास्ते क्रतवस्तत्रासन्सर्वकामदाः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्