नारदः-
सुहोत्रं पार्थिवं चापि मृतं सृञ्जय शुश्रुम
एकवीरमनाधृष्यममित्रगणर्दनम्
यः प्राप्य राज्यं धर्मेण ऋत्विङ्मन्त्रिपुरोहितान्
सम्मान्य चात्मनश्श्रेयः पृष्ट्वा तेषां मते स्थितः
प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः
एतत्सुहोत्रो विज्ञाय धर्म्यमैच्छद्धनागमम्
धर्मेणाराधयद्देवान्बाणैश्शत्रूनजीजयत्
सर्वाण्यपि च भूतानि स्वगुणैरन्वरञ्जयत्
सोऽभुङ्क्त्वेमां वसुमतीं म्लेच्छाटविकवर्जिताम्
तस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरम्
हिरण्योदास्था नद्यस्सुहोत्रस्य महात्मनः
यस्मिन्कूर्मान्कर्कटकान्मत्स्यांश्च विविधान्बहून्
कामान्वर्षति पर्जन्यो रूप्याणि विविधानि च
सौवर्णान्यप्रमेयानि वाप्यः क्रोशसुसम्मिताः
स तत्र शतसाहस्रान्नक्रान्मकरकच्छपान्
सौवर्णान्पतितान्दृष्ट्वा ततोऽस्मयत वै मिथः
तद्धिरण्यमपर्यन्तं राजर्षिः कुरुजाङ्गले
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत
सोऽश्वमेधसहस्रेण राजसूयशतेन च
पुण्यैः क्षत्रिययज्ञैश्च प्रभूतवरदक्षिणैः
काम्यनैमित्तिकाजस्रैरिष्ट्वेष्टां गतिमाप्तवान्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमभिश्वैत्येत्युदाहरत्