सञ्जयः-
श्रुत्वा मृत्योस्समुत्पत्तिं कर्माण्यनुपमानि च
धर्मराजः पुनर्व्यासं प्रसाद्योत्तरमब्रवीत्
युधिष्ठिरः-
सुरुचः पुण्यकर्माणश्शक्रप्रतिमविक्रमाः
पूर्वं राजर्षयो ब्रह्मन्कियन्तो मृत्युना हताः
भूय एव तु मा तथ्यैर्वचोभिरुपबृंहय
राजर्षीणां पुराणानां समाश्वासय कर्मभिः
कियन्त्यो दक्षिणा दत्ताः काश्च दत्ता महात्मभिः
राजर्षिभिः पुण्यकृद्भिस्तद्भवान्प्रब्रवीतु मे
व्यासः-
अन्येऽपि यज्वनां लोका अन्ये चापि तपस्विनाम्
क्षमावतां च त्रींल्लोकाञ्शूरा गच्छन्ति भारत
क्षत्रियस्य तु सङ्ग्रामे शत्रून्हत्वा हतस्य वा
फलमत्यन्तमित्याहुर्धर्मशास्त्रविदो जनाः
वेदविद्याव्रतस्नाता यज्वानः पुत्रिणश्च ये
तेभ्यः परार्थ्या यज्वानो यज्वभ्यश्च तनुत्यजः
स वीरो यज्वनो नित्यं क्षत्रियानार्जुनिर्गतः
लोकान्पुण्यतमानिष्टानिति विद्धि विशां पते
सर्वेषां नृपसिंहानां शृणु यज्ञान्नृपोत्तम
तानतिक्रम्य गच्छन्ति स्वर्गकामास्तनुत्यजः
युधिष्ठिरः-
सर्वेषां यज्वनां यज्ञाञ्श्रोतुमिच्छामि सुव्रत
दक्षिणाश्चानुरूपेभ्यो दत्ता राजर्षिसत्तमैः
व्यासः-
शैब्यस्य नृपतेः पुत्रस्सृञ्जयो नाम भूमिपः
सखायौ तस्य चाभूतामृषी पर्वतनारदौ
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुस्सुखम्
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता
दुहिताऽभ्यागमत्कन्या सृञ्जयं वरवर्णिनी
नारदः-
कस्येयं त्वायतापाङ्गी सर्वलक्षणसंयुता
उषा स्विद्भास्स्विदर्कस्य ज्वलनस्य शिखा त्वियम्
ह्रीश्श्रीः कीर्तिर्धृतिस्सिद्धिस्तुष्टिश्चन्द्रमसः प्रभा
व्यासः-
सृञ्जयः-
एवं ब्रुवाणं देवर्षिं नृपतिस्सृञ्जयोऽब्रवीत्
ममेयं भगवन्वत्सा वर्या वरमभीप्सति
व्यासः-
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप
भार्यार्थे त्वं महच्छ्रेयः प्राप्तुं चेदिच्छसेऽनघ
ददानीत्येव संहृष्टः सृञ्जयः प्राह नारदम्
एवमुक्ते नृपतिना क्रोधपर्याकुलेक्षणः
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत्
पर्वतः-
व्यासः-
पूर्वं ममेमां मनसा विद्धि भार्यां वृतामृषे
यस्मादवोचस्त्वं तस्मात्स्वर्गमार्गं न गच्छसि
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः
नारदः-
मनोवाग्बुद्धिसम्भाषास्सत्यं तोयमथाग्नयः
पाणिग्रहणमन्त्राश्च प्रथितं दारलक्षणम्
न त्वेषां निश्चिता निष्ठा त्वया सा मनसा स्मृता
व्यासः-
एवं विद्वांस्तु मां यस्मादनुव्याहृतवानसि
तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना
अन्योन्यमेवमुक्त्वा तु यथासत्कृतमूषतुः
सृञ्जयोऽहर्षयद्विप्रान्स्नानाच्छादनभोजनैः
पुत्रकामः परं शक्त्या यत्नेनाहरहश्शुचिः
तस्य प्रसन्ना विप्रेन्द्राः कदाचित्पुत्रदर्शिनः
तपस्स्वाध्यायनिरता वेदवेदाङ्गपारगाः
सहिता नारदं प्राहुर्देह्यस्मै वरमीप्सितम्
तथेत्युक्त्वा द्विजेभ्यश्च सृञ्जयं नारदोऽब्रवीत्
नारदः-
वरं वृणीष्व भद्रं ते यादृशं पुत्रमिच्छसि
व्यासः-
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम्
यशस्विनं कीर्तिमन्तं दर्शनीयमनिन्दितम्
सृञ्जयः-
यस्य मूत्रं पुरीषं च स्वेदः क्लेदश्च काञ्चनम्
सर्वं भवेत्प्रसादाद्वै तादृशं तनयं वृणे
व्यासः-
तथा भविष्यतीत्युक्ते जज्ञे तस्येप्सितस्सुतः
काञ्चनस्याकरश्श्रीमान्प्रसादाद्वै सुकाङ्क्षितः
अपतत्तस्य नेत्राभ्यां रुदतस्तस्य नेत्रजम्
मूत्रं पुरीषं स्वेदश्च सर्वं भवति काञ्चनम्
सुवर्णष्ठीविरित्येव तस्य नामाऽभवत्कृतम्
तस्मिन्वरप्रदानेन प्रवृद्धस्त्वमितैर्धनैः
कारयामास नृपतिस्सौवर्णं सर्वमीप्सितम्
गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि
शय्यासनानि यानानि स्थालीपिठरभाजनम्
तस्य स्म राज्ञस्तद्वेश्म बाह्याश्चाभ्यन्तराश्च ये
सर्वं तत्काञ्चनमयं कालेन परिवर्धितम्
अथ दस्युगणाश्श्रुत्वा दृष्ट्वा चैव तथाविधम्
अशुभं तस्य नृपतेस्समारब्धाश्चिकीर्षितुम्
केचित्तत्राब्रवीद्राज्ञः पुत्रं गृह्णीम वै वयम्
सोऽस्याकरः काञ्चनस्य तस्मिन्यत्नं च कुर्महे
ततस्ते दस्यवो लुब्धाः प्रविष्टा नृपतेर्गृहम्
राजपुत्रं ततो जह्रुस्सुवर्णष्ठीविनं बलात्
गृह्यैनमनुपायज्ञा नयित्वाऽथ वनं गतः
हत्वा विशस्य नापश्यन्पश्य सुलुब्धा वसु किञ्चन
तस्य प्राणैर्विमुक्तस्य नष्टं तत्काञ्चनं परम्
दस्यवश्च तदाऽन्योन्यं जग्मुस्त्यक्त्वा विचेतसः
हत्वा परस्परं क्रुष्टाः कुमारं चाद्भुतप्रभम्
असम्भाव्यं गता घोरं नरकं मोघकारिणः
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः
विललाप सुदुःखार्तो बहुधा करुणं नृपः
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम्
प्रत्यदृश्यत देवर्षिर्नारदो नृपसन्निधौ
उवाच चैनं दुःखार्तं विलपन्तमचेतसम्
सृञ्जयं नारदो यद्यत्तन्निबोध युधिष्ठिर
नारदः-
त्यज शोकं महाराज वैक्लव्यं त्यज बुद्धिमन्
न मृतश्शोचतो जीवेन्मुह्यतो वा नराधिप
त्यज मोहं नृपश्रेष्ठ न हि मुह्यन्ति त्वद्विधाः
धीरो भव महाराज ज्ञानवृद्धोऽसि मे मतः
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि
यस्य ते ये वयं गेहे उशनादा उपास्महे
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः
यस्मै राजर्षये प्रादात्सुप्रीतो भगवान्भवः
हैमं हिमवतः पादे यियक्षोर्विविधैस्सवैः
यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः
देवा विश्वसृजस्सर्वे यज्ञानानाहुर्महात्मनः
यज्ञवाटस्य सौवर्णास्सर्वे चान्ये परिच्छदाः
महानसेषु यस्यान्नं मनोभिप्रायगं शुचि
कामं बुभुजिरे विप्रास्सर्वे चान्नार्थिनो जनाः
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम्
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च
ईप्सितान्युपतिष्ठन्ति प्रसृतान्वेदपारगान्
मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्य क्षत्ताऽग्निर्विश्वेदेवास्सभासदः
यस्य वीर्यवतो राजन् सुवृष्ट्या सस्यसम्पदः
हविर्भिस्तर्पिता येन सम्यक्क्लृप्ता दिवौकसः
ऋषीणां च पितॄणां च देवानामुपजीविनाम्
ब्रह्मचर्यश्रुतसुतैर्धर्मैर्दानेन चानृणः
शयनासनयानानि स्वर्णराशींश्च दुस्त्यजान्
तत्सर्वममितं वित्तं दत्त्वा विप्रेभ्य ईप्सितम्
स्पर्धमानस्स शक्रेण प्रजाः कृत्वा निरामयाः
श्रिया विनिर्जिताल्ँलोकान्गतः कामदुहोऽक्षयान्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्